SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२८ ओघनियुक्तिः मूलसूत्रं वृ. "संसक्त ग्रहणिः' कृमिसंसक्तोदर इत्यर्थः यद्यसौ साधुर्भवत ततो वृक्षच्छायायां निर्गतायां व्युत्सृजति. अथ छाया न भवति ततथ व्युत्सृज्य मुहर्तमानं तिष्ठेद येन ते कृमयः स्वयमेव परिणमन्ति। किं चासौ करोतीत्यत आह. मू. (५२८) उवगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे। तत्थऽन्नत्थ व पंछे तिहि आयमनं अदरंमि॥ वृ. 'उपकरणं' रजोहरणदण्डकादि वामे ऊरौ स्थापयति. मात्रकं च दक्षिणे हस्ते करोति. प्रोञ्छनंच अपानस्य तत्रान्यत्र वा करोति, यदि कठिनं ततस्तत्रैव प्रोञ्छयति, अथ श्लथं ततोडन्यत्र, तिहि आयमनं ति त्रिभिथुलुकैर्निर्लेपनं करोति, 'अदूरंमि'त्ति स्थण्डिलस्यासन्नप्रदेशे निर्लेपनीयमिति। इदानीं स्थण्डिलयतनोच्यते. तत्राहमू. (५२९) पढमासइ अमणुन्नेयराण गिहियाण वावि आलोए। पत्तेयमत्त कुरुकुय दवं च पउरं गिहत्थेसु॥ वृ. प्रथमस्य-अनापातासंलोकरूपस्य 'असति' अभावे अथवा प्रथमस्य-संविनसमनोज्ञापातस्थण्डिलस्यासति क्क गन्तव्यमत आह-'अमणुन्न'त्ति अमनोज्ञानामापाते स्थण्डिले गम्यते. 'इतराण'त्ति कुशीलानां संविग्नपाक्षिकाणामसंविग्नपाक्षिकाणां चापातस्थण्डिले गन्तव्यं, एतेषां चानन्तरोदितानां सर्वेषामेवमर्थमालोको नोपात्तो यतस्ते दूरस्थिता नाभोगयन्त्येव । गिहियाण वावि आलोएत्ति तदभावे गृहस्थालोके स्थण्डिले गम्यते। पत्तेयमत्त'त्ति प्रत्येकं प्रत्येकं यानि मात्रकाणि गृहीतानि तैः प्रत्येकमात्रकैः 'कुरुकुचा' पादप्रक्षालनाचमनरूपां प्रचुरद्रवेण कुर्वन्ति, निहत्थेसु'त्ति गृहस्थविषये आलोके सति इदं पूर्वोक्तं कुरुकुचादि कुर्वन्तीति॥ मू. (५३०) तेन परं पुरिसाणं असोयवाईण वच्च आवायं। इत्थिनपुंसालोए परंमुहो कुरुकुया सा उ॥ वृ. ततः परं यदि गृहस्थालोकं नास्ति स्थण्डिलं ततः पुरुषाणामापाते तत्राप्यशाचवादिनां व्रज आपातस्थण्डिलं । अथाशौचवादिपुरुषापातस्थण्डिलं नास्ति ततः ‘इत्थिनपुंसालोए' स्त्रीनपुंसकालोके स्थण्डिले पराङ्मुखो व्युत्सृजति कुरुकुचा च सैव कर्तव्या। मू. (५३१) तेन परं आवायं परिसअरडत्थियाण तिरियाणं। तत्थवि अपरिहरेज्जा दगुछिए दित्तचित्ते य॥ वृ. ततः परं तदभावे सति पूर्वोक्त स्थण्डिलस्य तिरथां संबन्धिनो ये पुरुषा इतरे च नपुंसकाः स्त्रियः एतेषामापातस्थण्डिले व्युत्सृजनीयं, 'तत्थवि यत्ति तत्रापि-तिरश्चां मध्ये जुगुप्सिता दप्तचित्ताश्च परिहरणीयाः, यतस्तत्रात्मसंयमोपघातो भवति । मू. (५३२) तत्तो इत्थिनपुंसा तिविहा तत्थवि असोयवाईसु। तहिअंतु सद्दकरणं आउलगमनं कुरुकुया य॥ वृ. ततस्तदभाव स्त्रीनपुंसकापातस्थण्डिले गन्तव्यं. तत्र स्त्री त्रिविधा-दण्डिककौटुम्बिकप्राकृतभेदभिन्ना, नपुंसकमपि त्रिविधं-दण्डिककौटुम्बिकप्राकृतभेदभिन्नं, तत्राप्यशोचवादिनामापाते व्युत्सृजनीयं. आह- स्त्र्याद्याशङ्कादयस्तत्र तदवस्था एव दोषाः ?. उच्यते. 'ताहियं तु सद्दकरणं' तत्रस्थण्डिले व्रजन अन्येषामाशङ्काविनिवृत्त्यर्थमुच्चः काशितादिरूपं शब्दं करोति परस्परं वा जल्पन्तो व्रजन्ति ततस्ते गृहस्था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy