________________
मूलं-५२३
गृहपती रुष्टः सन कदाचित्ताड्यति ततश्चात्मोपघात इति, तस्माद्दव्यासन्ने नव्युत्सृजनीयं। इदानीं भावासन्नं प्रतिपादयन्नाह-आयापवयण'त्ति आत्मप्रवचनसंयमोपघातदोषाभावासन्ने भवन्ति, कथं?. स हि साधुरन्ययोगव्यावृत्तस्तावदास्ते यावदतीव भावासन्नः संजातः, ततश्च त्वरितं प्रयाति. पुनश्च केनचिट्टर्तेनोपलक्ष्य भावासन्नतां धर्मप्रच्छनव्याजेनार्द्रपथ एव धृतः ततश्च तस्य पुरीषवेगं धारयत आत्मोपघातो भवति. अथापथ एव व्यत्यजति ततश्च प्रवचनोपघाता भवति. संयमोपघातोऽपि तत्रैवाप्रत्युपेक्षितस्थण्डिले व्युत्सृजतो भवति: तस्मादनागतमव गमन प्रवर्त्ततं । इदानीं बिलवर्जितं व्याख्यायते. यत्राहमू. (५२४) होति बिले दो दोसा तसेसु बीएसुवावि ते चेव।
संजोगआ अदोसा मूलगमा होति सविसेसा॥ [भा. १८३) वृ.बिलप्रदेशे व्युत्सृजतो दोषद्वयं भवति-आत्मविराधना संयमविराधनाच. दारं। इदानीं "तसपाणबीयरहियं"ति व्याख्यायते. तत्राह-तसेसु बीएसु वावि ते चेव' त्रसेषु व्युत्सृजतः संयमविराधनाऽऽत्मविराधना च भवति. बीजेषु च व्युत्सृजतस्त एव दोषा भवन्ति-आत्मविराधना संयमविराधना च, तत्रात्मविराधना गोक्षुरकप्रभृतीनामुपरि व्युत्सृजता भवति, संयमविराधना तथैवेति. दारं । एवं तावदेककदोषदुष्टं स्थण्डिलमुक्तम्. इदानी द्वितीयादिसंयोगेन दोषदुष्टतां प्रतिपादयन्नाह- 'संजोगओ य' संयोगतो-द्रव्यादिदोषसंबन्धेन 'मूलगमात' मूलदोषभेदात्सकाशात् ‘सविशेषाः' द्विगुणतरादयो दोषा भवन्ति, मूलमेदे तावदापातसंलोकदोषदुष्टता तथाऽन्यस्तत्रैव यधुपघातदोषो भवति ततो द्विदोषसयोगतः सविशेषा दोषा भवन्ति । एवं दोषत्रयादिसंयोगतः सविशेषा अधिका एकैकस्मिन् स्थण्डिले ज्ञेया इति।
इदानीं तस्मिन् दोषरहिते स्थण्डिले प्राप्तस्य यो विधिः स उच्यते. मू. (५२५) दिसिपवणगामसूरियछायाए पमज्जिऊण तिक्खुत्तो।
जस्सोग्गहोत्ति काऊण वोसिरे आयमेज्जा वा॥ वृ.तत्रतेन साधुना सझाव्युत्सृजता दिस'त्ति उत्तरायां दिशिपूर्वायांचन पृष्ठं दातव्यं, लोकविरोधात, तथा पवनग्रामसूर्याणां च पृष्ठं दत्त्वा न व्युत्सृजनीय, लोकविरोधादेव, तथा छायायां प्रमार्जयित्वा 'तिक्खुत्तो'त्ति तिम्रो वाराः प्रमार्जयित्वा यत्र व्युत्सृजनीयं, 'जस्सोग्गहो'त्ति यस्यायमवग्रहस्तेनानुज्ञातव्य इत्येव कृत्वा व्युत्सजनीयं 'आयमज्जा वा' निर्लेपनं चापान एवमेव कुर्यात, यद्त स्थण्डिलेऽनुज्ञापयित्वा चेति । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाहमू. (५२६) उत्तरपुव्वा पुज्जा जम्माएँ निसियरा अहिवडंति। घाणाऽरिसा य पवण सूरियगाम अवन्नो उ॥
[भा. १८४] वृ. उत्तरा दिक पूर्वा च किल लोक द्वे अपि पूज्ये. ततश्च तयोः पृष्ठं न दातव्यं, 'जम्माए निसियरा अभिवडंति' याम्या-दक्षिणा दिक तस्यां च रात्री पृष्ठं नदातव्यं, किमित्यतंदवम?, उच्यते. रात्रौ निशाचरा:पिशाचादयः अभिपतंति'त्ति अभिमुखा आगच्छन्ति, एतदुक्तं भवति-रात्रौ दक्षिणाया दिश उत्तरायां दिशि देवाः प्रयान्ति (इति) लोक श्रुतिः, ततश्च तत्र पृष्ठं न दातव्यं, प्रयच्छता लोकविरोधो भवति, 'घाणारिसा य पवणे'त्ति पवनस्य च पृष्ठं यदि दीयते ततो घाणाशाँसि भवन्ति. सूर्यग्रामयोश्च पृष्ठप्रदान अवर्णः अयशो भवति, । इदानीं 'छायाए'त्ति व्याख्यानयन्नाह. मू. (५२७) संसत्तग्गहणी पुन छायाए निग्गयाण वासिरड।
छायासइ उहमिवि वासिरिअ महत्तयं चिट्ठ॥ [भा. १८५]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org