________________
मूलं - ४९४
'अगनि' त्ति 'अग्रभयात्' प्रदीपनभयात् स्तनकभयात् दण्डिकक्षोभाच्च एतदेवं क्रियते, कस्मिन् पुनः काले क्रियते कस्मिन पुनः काले एतदेवं न क्रियते इत्यत आह- 'उउबन्द्ध' ऋतुबद्ध उच्यते शीतकाल उष्णकालच, तत्र पात्रकधरणमुपधेच बन्धनं कर्त्तव्यं 'वासासु' त्ति वर्षाकाले अबंधन' त्ति उपधेरबन्धनं कर्त्तव्यं - उपधिर्न बध्यते, 'ठवण' त्ति पात्रकं च निक्षिप्यते एकदेशे स्थाप्यते, प्रयोजनमुपधेरबन्धने पात्रकस्य च निक्षेपणे वक्ष्यति । इदानीं भाष्यकारो व्याख्यानयन्नाह
मू. (४९५)
रयताण भाण धरणा उउबद्धे निक्खिवेज्ज वासासु । अगनी नभएण व रायक्खोभे विराधनया ॥
[भा. १७५] वृ. रजस्त्राणस्य भाजनस्य च धरणम्-अनिक्षेपणं कर्त्तव्यं कदा ? 'ऋतुबद्धे' शीतोष्णकालयोः, वर्षासु पुनर्भाजनं निक्षिपेदेकान्ते, किमर्थं पुनर्भाजनस्य उत्सङ्गे धरणं क्रियते ? अत आह- 'अगनी' अग्निभयेन प्रदीपनकभयेन स्तेनभयेन वा राजक्षाभेन वा मा भूदाकुलस्य गृह्णतः पलिमन्थेनात्मविराधना संयमविराधना वा स्यात ॥ मू. (४९६)
परिगलमाणा हीरज डहणा भेया तहेव छक्काया।
गुत्तो व सयं उज्झे हिरज्ज व जं च तेन विना ॥
[भा. १७६ ] वृ. अग्न्यादिक्षोमे निर्गच्छत आकुलस्य अपरिबद्धा परिगलति ततथ परिगलमाना केनचिदपहियते 'डहण' त्ति दह्येत वा अवद्धा सती उपधिर्यावद् गृह्यते, 'भेया' इति आकुलस्य निर्गच्छतोऽनासन्नं पात्रकं गृह्णतो 'भेदो वा' विनाशो वा भवेत, ततश्च षट्कायस्यापि विराधना संभवति । 'गुत्तो व सयं डज्झे' संमूढो वा उपधिपात्रग्रहणे स्वयं दह्येत, स्तेनकसंक्षोभे च सति उपधिपात्रकग्रहणव्याक्षेपेण स्तेनकैः- म्लेच्छेपहियते, 'जं च तेन विन' त्ति यच्च तेन विना' उपधिपात्रकादिना विना भवति आत्मविराधना संयमविराधना च तत्तदवस्थमेवेति । आह- पुनः किं कारणं वर्षासु उपधिर्न बध्यते पात्रकाणि वा निक्षिप्यन्ते ?, उच्यतेमू. (४९७) वासासु नत्थि अगनी नेव य तेना उ दंडिया सत्था ।. तेन अबंध ठेवणा एवं पडिलेहणा पाए ।
[भा. १७७]
वृ. वर्षासु नास्ति अग्निभयं नापि च स्तेनभयं, स्तेनाश्रात्र पल्लीपतिकादयो द्रष्टव्याः, यतस्त एव वर्षासु प्रतिबन्धेन नागच्छन्तीति, दण्डिका - अन्यराजानो वर्षासु स्वस्थास्तिष्ठन्ति विग्रहस्य तस्मिन् कालेऽभावात. अतस्तेन कारणेन 'अबंधन' त्ति अबन्धनमुपधेः 'ठवण' त्ति पात्रकं च पार्श्वे निक्षिप्तं न क्रियते अपि तु स्थाप्यते - मुच्यते । एवं प्रत्युपक्षणा पात्रविषया प्रतिपादिता, तत्प्रतिपादनाच्चोक्तमुपकरणप्रत्युपेक्षणाद्वारम, इदानीं स्थण्डिलद्वारस्वरूपप्रतिपादनायाह
मू. (४९८ )
अनावायमसंलोए अनवाए चेव होइ संलाए । आवायमसंलाए आवाह चैव संलाए ।
'वृ. “अनावायमसंलोए' त्ति न आपातः- अभ्यागमः स्वपक्षपरपक्षयोर्यत्र स्थण्डिले तदनापातं, 'लोक दर्शने' न संलीकोन दर्शनं छन्नत्वाद्यत्र स्थंडिलं तदनालोकम्. अनापातं च तदसँल्लोकं च अनापातासँल्लोकं एको भेद: स्थण्डिलस्य, तथा 'अनवाए चेव होइ संळोए' नापातः कस्यचिद्यत्र तदनापातं अनापातं च तत्संलोकं च- अच्छन्नं च एतदुक्तं भवतियत्र स पुरीषं व्युत्सृजति तत्र न कस्यचिदापातः किन्तु दूरस्थिताः पश्यन्ति आकाशत्वादिति अयं द्वितीयो भेदः, तथाऽन्यदापातमसंलोकम, आपातः यत्र कथिदागच्छति असंलोकं छन्नम आपातं च तदसलीकं च आपातासंनाकम. एतदुक्तं भवति - आपातोऽस्ति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International