________________
मुलं- ४८५
१९६
कोत्रादिरो भवति, ततस्तद्यतनयाऽपनयति घ्राणेन्द्रियेण ज्ञात्वा यतनयाऽपनयति, जिह्वया च रसं ज्ञात्वा यत्र गन्धस्तत्र रसोऽपि गन्धपुङ्गलैरोष्ठा यदा व्याप्तां भवति, तदा जिह्वया रसं जानातीति, स्पर्शनेन्द्रियेण चोपयोगं ददाति कदाचित्तत्र मूषिकादिः प्रविष्टस्तन्निःश्वासवायुथ शरीरे लगति, ततचैवमुपयोगं दत्त्वा पात्रकाणि प्रत्युपेक्ष्यन्ते ॥ इदानीं भाष्यकृत्किंचिद्व्याख्यानयन्नाह - पडिलेहणियाकाले फिडिए कल्लाणगं तु पच्छित्तं । पायस्स पासु बेट्टो सोयादुवउत्त तल्लेसा ॥
मू. (४८६ )
[भा. १७४ ] वृ. प्रत्युपेक्षणाकाले 'फिटित' अतिक्रान्ते एवं कल्याणकं यतः प्रायश्चित्तं भवति अतः पूर्वमुपयोगं प्रत्युपेक्षणाविषयं करोति । किंविशिष्टोऽसौ उपयोगं करोतीत्यत आह-‘पायस्स पासु बेट्टो' पात्रकस्य पार्श्वे उपविष्टः श्रोत्रादिभिरूपयुक्त स्तल्लेश्यः- तच्चित्तो भवतीति । कथं पुनः पात्रकप्रत्युपेक्षणां करोतीत्यत आहमू. (४८७) मुहतंतएण गोच्छं गोच्छगगहिअंगुलीहिं पङलाई ।
उक्कड़ भाणवत्थे पलिमथाईस तं न भवे ॥
वृ. 'मुहनंतएण 'त्ति रजाहरणमुखवस्त्रिकया गोच्छं' वक्ष्यमाणलक्षणं प्रमार्जयति पुनस्तमेव गोच्छकमङ्गुलीभिर्गृहीत्वा पटलानि प्रमार्जयति । अत्राह परः- 'उक्कु डुयभाणवत्थे' उत्कुटुकः सन् ‘भाजनवस्त्राणि’ गोच्छकादीनि प्रत्युपेक्षयेत् यतो वस्त्रप्रत्युपेक्षणा उत्कुटुकेनैव कर्त्तव्या, आचार्य आह'पलिमथाईसु तं न भवे' तदेतन्न भवति यच्चोदकेनोक्तं यतः पलिमन्थः सूत्रार्थयोर्भवति, कथं ?, प्रथममसौ पादप्रोञ्छने निषीदति पश्चात् पात्रकवस्त्रप्रत्युपेक्षणायामुत्कटुको भवति पुनः पात्रकप्रत्युपेक्षणायां पादप्रोञ्छने निषीदति, एवं तस्य साधोरियतः सूत्रार्थयोः पलिमन्थो भवति यतः अतः पादप्रोञ्छने निषन्नेनैव पात्रकवस्त्रप्रत्युपेक्षणा कर्त्तव्येति । ततः किं करोतीत्याह
मू. (४८८)
चउकोण भाणकन्नं पमज्ज पाएसरीय तिगुणं तु ।
भाणस्स पुप्फगं तो इमेहिं कज्जेहिं पडिलेहे ॥
वृ. पटलानि प्रत्युपक्ष्य पुनर्गोच्छकं वामहस्तानामिकाङ्गुल्या गृह्णाति, ततः पात्रकेसरिकां-पात्रक मुखवस्त्रिकां पात्रकस्थापनमेव गृह्णाति, 'चउक्कोण' त्ति चतुरू पात्रबन्धकोणान् संवर्त्योपरिस्थापितान् प्रमार्जयति पुनभार्जनस्य कर्णं प्रमार्जयति, पुनश्च पात्रककसरिकयव 'तिगुणं' तिन्नो धारा बाह्यतोऽभ्यन्तरतस्तिन्न एव बाराः प्रमार्जयति ततः 'भाणस्स' पात्रकस्य 'पुप्फगं' बुन्धं ततः एतानि वक्ष्यमाणलक्षणा कार्याणि यदि न भवन्ति ततः प्रथमं बुन्धं पात्रकस्य प्रत्युपेक्ष्यते । कानि पुनस्तानि कार्याणि ? मूसयरयउक्करे, घनसंताणए इय ।
मू. (४८९)
उदय मट्टिआ चेव, एमेया पडिवत्तिओ ।।
वृ. कदाचित्तत्र मूषिकोत्केररजो लग्नं भवति ततस्तद्यतनयाऽपनीयते, तथा घनः सन्तानको वा कड़ाचित् तत्थ कोलिअतंतुयं नग्गं होड़ तद्यतनयाऽपनीयते । तथा 'उदाए' त्ति कदाचिदुदकं लग्नं भवति सार्द्रा भूमेरुन्मज्ज्य लगति, तत्र यतनां वक्ष्यति, 'मट्टिआ चेव' कदाचित मृत्तिका कोत्थलकारिकायाः संबन्धिनी लगति तत्र यतनां वक्ष्यति एवमेताः प्रतिपत्तयः- प्रकारा- भंदा यदि न भवन्ति ततो बुघ्नी प्रत्युपेक्ष्यते । कुतः पुनरुत्केरादिसम्भवः ? इत्यत आह
मू. (४९०)
Jain Education International
नवगनिवसे दूराउ उक्करो मूसएहिं उक्तिन्नो । निमहि हरतन वा ठाणं भेत्तृण पविसेज्जा ॥
For Private & Personal Use Only
www.jainelibrary.org