________________
मूलं.८
पिण्डविशुद्ध्यादिकरणं सर्वमेव कर्तुमताभेदेनोपन्यासइति। अत्राह-चरणकरणयोःकः प्रतिविशेषः? इति, अत्रोच्यते, नित्यानुष्ठानंचरणं. यत्तुप्रयोजनआपने क्रियतेतत्करणमिति, तथाचव्रतादिसर्वकालमेवचर्यते नपुनव्रतशून्यः कश्चित्काल इति. पिण्डविशुद्धयादि तुप्रयोजने आपन्ने क्रियत इति । एवं व्याख्याते सत्याह पर:- "आहेन उ निजत्तिं वुच्छं चरणकरणानुओगस्स" इत्येवं वक्तव्यं. तत्किमर्थं षष्ठयुल्लङ्घनं कृत्वा पञ्चम्यभिधीयते. इत्यस्यार्थस्य प्रतिपादनार्थमिदं गाथासूत्रमाहमू. (९) चोदगवयणं छट्ठी संबंधे कीसन हवइ विभत्ती?।
तो पंचमी उभणिया, किमत्थि अन्नेऽवि अनुओगा॥ [भा. ४] वृ..व्याख्या-'चोदग'त्तिचोदकवचनं, किंभूतम्?,तदाह-षष्ठीसंबन्धे किमितिनभवति विभक्तिः?, संबन्धनंसंबन्धस्तस्मिन्संबन्धेषष्ठीकिमितिनभवति?. एतदुक्तंभवति-चरणकरणा-नुयोगसंबन्धिनीमोघनियुक्तिं वक्ष्य इति वाच्यं तदल्लङ्घनं कृत्वा पञ्चम्युच्यते तत्रप्रयोजनं वाच्यं अथन किश्चित्प्रयोजनं ततः पञ्चा भणिता कि केन कारणेन?. निष्प्रयोजनैवेत्यर्थः, एवां चोदित सत्याहाचार्यः अस्त्यत्र प्रयोजन षष्ठ्युल्लङ्घनं कृत्वा यत् पञ्चम्युपन्यस्ता, किम् ? इत्यत आह-'अत्थि अन्नेऽवि अनओगा'सन्ति-विद्यन्ते अन्येऽप्यनुयोगाः, अस्यार्थस्य प्रतिपादनार्थमेवमुपन्यासः कृत इति। पुनरप्याह-यद्यन्येऽप्यनुयोगाः सन्ति पञ्चम्याःकिमायातम्? इति.अत्रोच्यते,अस्याचार्यस्येयशैली-यदुभयत्रक्वचित्तत्रषष्ठ्याःसप्तम्यावानिर्देश करोति, तथा च "आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे इत्येवमादि ____ अत्र तु शैली त्यक्त्वा पञ्चम्या निर्देशं कुर्वन्नाचार्य एतत् ज्ञापयति-सन्त्यन्येऽप्यनुयोगा इति, तदत्राहं चरणकरणानुयोगाद्वक्ष्ये नान्यानुयोगेभ्य इति। तथा षष्ठी द्विविधा दृष्टा-भेदषष्ठी अभेदषष्ठी च, तत्रभेदषष्ठी यथा-देवदत्तस्यगृहम अभेदषष्ठीयथा-तैलस्यधाराशिलापुत्रकस्यशरीरकमिति.तद्यदिषष्ठयाउपन्यासः क्रियते ततो न ज्ञायते किं चरणकरणानुयोगस्य भिन्नामोनियुक्तिं वक्ष्ये यथा देवदत्तस्य गृहमिति, अथाहोश्विदभिन्नां वक्ष्ये यथा तैलस्य धारति, तस्य सम्मोहस्य निवृत्त्यर्थं पञ्चम्या उपन्यासः कृत इति। एवं व्याख्यातेसत्यपरस्त्वाह-अस्तीत्येकवचनमनुयोगाबहवश्चतत्कथंबहुत्वंप्रतिपादयति?,उच्यते,अस्तीति तिङन्तप्रतिरूपकमव्ययम्, अव्ययंच.
सदृशंत्रिषु लिङ्गेषु,सर्वासुचविभक्तिषु।
वचनेषु च सर्वेष, यन्नव्येति तदव्ययम॥ तताबहत्वप्रतिपादयत्येवेत्यदोषः। अथवाव्यवहितःसंबन्धोऽस्तिशब्दस्य,कथम?,इटंचाद-कवचनमषष्ठी संबन्धे किमिति न भवति विभक्तिः?, आचार्य आह-अस्तिषष्ठी विभक्तिः पुनरप्याह-यद्यस्ति ततः पञ्चमीभणिता किम ?.आचार्य आहःअन्येऽप्यनुयोगाश्चत्वारः, अतः षष्ठी विद्यमानाऽपि नोक्तति. भावना पूर्ववत । अन्येऽप्यनुयोगाः सन्तीत्युक्तं. न च ज्ञायन्ते कियन्तोऽपि ते? इत्यतः प्रतिपादयन्नाहमू. (१०) चत्तारि उ अनुओगा चरणे धम्मगणियानुओगेय। दवियनुजोगे य तहा अहक्कमंते महिड्डीया॥
[भा. ५) वृ. चत्वार इति संख्यवचनःशब्द: अनुकूला अनुरूपा वायोगाअनुयोगाः.तुशब्दएवकारार्थः, चत्वार एव, अन्ये तु तुशब्द विशेषणार्थं व्याख्यानयन्ति. किं विशेषयन्तीति-चत्वारोऽ-नुयोगाः, तुशब्दाद्रौ चप्रथक्त्वापृथक्त्वभेदात,कथंचत्वारोऽनुयोगाः? इत्याह-'चरणेधम्म-गणियानओिगेय' चर्यत इतिचरणं. तद्विषयोऽनुयोगथरणानुयोगस्तस्मिन चरणानुयोगे, अत्र चोत्तर-पदलोपादित्थमुपन्यासः, अन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org