________________
ओघनियुक्तिः मूलसूत्र
विनयस्य, वैयावृत्त्यविनययोस्तपोऽन्तर्गतत्वात्, तथा क्षान्त्यादिधर्मग्रहणे च सति क्रोधादि-निग्रहग्रहणमनर्थकं तदियं सर्वैव गाथा प्रलूनविशीर्णेजत तत्कथमेतत् ? इति, अत्रोच्यते, अविज्ञायैव परमार्थमेवं चोद्यनं, यदुक्तं - व्रतग्रहणेब्रह्मगुप्तिज्ञानादित्रयोपन्यासोनकर्तव्यः तत्तावत्परिहियते यदेतद्वतचारित्र्सएकांशोवर्तते चारित्रस्य, सामायिकादि च चारित्र' चतुर्विधमगृहीतमास्ते तद्ग्रहणार्थं ज्ञानादित्रयमुपन्यस्तं, व्रतग्रहणे ब्रह्मचर्यगुप्तयो यदभिधीयन्ते तद्वह्मचर्यस्य निरपवादत्वं दर्शयति, तथा चोक्तम्- नवि किंचिति पडिसिद्धं नाणुन्नायं च जिणवरिदेहिं । मुत्तुं मेहुणभावं न विना तं रागदोसेहिं ।”
.अथवा पूर्वपश्चिमतीर्थयोर्भेदेनैतत् महाव्रतं भवति, अस्यार्थस्य प्रतिपादनार्थं भेदेनोपन्यासः कृत इति, यच्चोक्तं-श्रमणधर्मग्रहणे संयमतपसोर्न ग्रहणं कर्तव्यम्, श्रमणधर्मग्रहणेनैव गृहीतत्वात्तयोः, तदप्यसाधु, संयमतपसोः प्रधानमोक्षाङ्गत्वात, कथं प्रधानत्वम् ? इति चेत् अपूर्वकर्माश्रवसंवरहेतुः संयमो वर्तते, पूर्वगृहीतकर्मक्षयहेतुश्चतपः, ततः प्रधानत्वमनयोः, अतो गृहीतयोरप्यनयोर्भेदेनोपन्यासः कृतः, दृष्टश्चायंन्यायो यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायातः, अत्र हि ब्राह्मणग्रहणेन वशिष्ठस्यापि ग्रहणं कृतमेव, तथाऽपि प्राधान्यात्तस्य भेदेनोपन्यासः क्रियत इति, तथा यच्चोक्तं तपोग्रहणे वैयावृत्त्यविनययोर्न ग्रहणं कर्तव्यं, तदप्यचारु, वैयावृत्त्यविनययोर्यथास्वपरोपकारकत्वात्प्राधान्यनैवमनशनादीनांतपोभेदानामिति, यच्चोक्तंश्रमणधर्मग्रहणेक्रोधादिनिग्रहस्यनोपन्यासः कर्त्तव्यः, तदप्यचारु, इहद्विरूपः क्रोधः- उदयगत उदीरणावलिकागतश्च, तत्रोदयगतनिग्रहः क्रोधनिग्रहः, एवं मानादिष्वपि वाच्यं, यस्तु उदीरणावलिका - प्राप्तस्तस्योदय एव न कर्तव्यः क्षान्त्यादिभिर्हेतुभिरिति, अथवा त्रिविधंवस्तु- ग्राह्यं हेयमुपेक्षणीयंच, तत्रक्षान्त्यादयो ग्राह्याः, क्रोधादयो हेयाः, अतो निग्रहीतव्यास्य इत्येवमर्थमित्थमुपन्यस्ता इतिस्यात्साधु सर्वमेवैतद्गाथासूत्रमिति । अधुना करणावयवप्रतिपादनार्थमिदं गाथासूत्रमाहमू. (८)
पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो ।
८
पडिलेहणगुत्तीओ अभिग्गहाचेव करणं तु ॥
[भा. ८]
वृ. अस्या व्याख्या- 'पिंड' त्ति पिण्डनं पिण्डस्तस्य विविधम्- अनेकैः प्रकारैः शुद्धिः आधाकमारदिपरिहारप्रकारैः पिण्डविशुद्धिः, सा किम् ?, करणंभवतीतियोगः, 'समिति' त्तिसम्यगिति ः- सम्यग्गमनं प्राणातिपातवर्जनेनेत्यर्थः, जातावेकवचनं, ताचेर्यासमित्यादयः समितयः, ‘भावन’त्तिभाव्यन्त इति भावनाःअनित्यत्वादिकाः 'पडिम' त्ति प्रतिमाः- अभिग्रहप्रकारामासाद्या द्वादश भिक्षुप्रतिमाः चशब्दाभ-द्रादयश्र प्रतिमा गृह्यन्ते, 'इंदियनिरोहो' तिइन्द्रियाणि-स्पर्शनादीनि तेषां निरोधः, आत्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः, 'पडिलेहण' इतिप्रतिलेखनं प्रतिलेखना' लिख अक्षरविन्यासे' अस्य प्रतिपूर्वस्य ल्युडन्तस्यानादेशे टापि च विहिते प्रतिलेखनेति भवति, एतदुक्तं भवति अक्षरानुसारेण प्रतिनिरीक्षणमनुष्ठानं च यत्सा प्रतिलेखना, सा च चोलपट्टा - देरुपकरणस्येति 'गुत्तीओ' त्ति गोपनानि गुप्तयो - मनोवाक्कायरूपास्तिस्रः 'अभिग्गह' त्ति अभिग्रहा द्रव्यादिभिरनेकप्रकारा:- चशब्दो वसत्याजदसमुच्चयार्थः, एवकारः क्रमप्रतिपादनार्थः, 'करणं तु' त्ति क्रियत इति कारणं, मोक्षार्थिभिः साधुभिर्निष्पाद्यत इत्यर्थः, तुशब्दो विशेषणे, मूलगुणसद्भावे करणत्वमस्य, नान्यथेति । आह- ननु समितिग्रहणेनैव पिण्डविशुद्धेर्गृहीतत्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यं यत एषणासमितौ सर्वेषणा गृहीता, पिण्डविशुद्धिरप्येषणैव, तत्किं भेदनोपान्यासः ? इति, अत्रोच्यते, पिण्डव्यतिरेकेणाप्येषणा विद्यते वसत्यादिरूपातस्याग्रहणं भविष्यति, तत्र पिण्डविशुद्धेस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य प्रतिपादनार्थः अथवाऽऽहारमन्तरेण न शक्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org