________________
मूलं-५ सोऽन्य एव, योऽपि चोत्तरां क्रियां करोति सोऽपिचान्यएव, तत् एकान्तानित्यवादेऽपिन घटते क्त्वाप्रत्यय इति॥ अयं तावत्समुदायार्थः, अधुनाभाष्यकृदेकैकमवयवं व्याख्यानयति-तत्र तत्त्वभेदपर्यायैव्याख्ये'ति पर्यायतो व्याख्यां कुर्वन्निदं गाथासूत्रमाहमू. (६) ओहे पिंड समासे संखेवे चेव होंति एगट्ठा। निजुत्तत्ति य अत्याजं बद्धा तेन निज्जुत्ती॥ .
भा. १] वृ. ओघः पिण्डो भवतीति योगः, पिण्डनं पिण्डः, संघातरूप इत्यर्थः, 'समासे' इति समसनं समासः, 'असुक्षेपणे' सम्-एकीभावेनासनं क्षेपणमित्यर्थः, तथा चसमासेन सर्व एव विशेषागृह्यन्ते, ओघः समासो भवतीति योगः, एवं भवतीति क्रिया सर्वत्र मीलनीया। ‘संखेवे' इइत संक्षेपणं संक्षेपः सम्-एकीभावेन प्रेरणमित्यर्थः, चशब्द उक्तसमुच्चये, कदाचदनुक्तसमुच्चये, एवंशब्दः प्रकारवाचकः, एवमेतेषामपि पिण्डादीनांयेपर्यायास्तेमीलनीयाइति।नियुक्तिपदव्याख्यानार्थमाह-निजुत्तत्तिय' इत्यादि, निः-आधिक्ये योजनयुक्तिः, आधिक्येन युक्ता नियुक्ताःअर्यन्तइत्यर्थाःगम्यन्तइत्यर्थः, ततोनियुक्ता इतिचाऽर्थायद् यस्मादबद्धास्तेन नियुक्तिरभिधीयते। अथवाऽन्यथा-निश्चयेन युक्ता नियुक्तिरितिचार्थाः यदबद्धास्तेन नियुक्ति रभिधीयते.इत्ययंगाथार्थः। एकार्थिकप्रतिपादनेनचएकान्तभेदाभेदवादौव्युदस्यते,नैकान्तभेदपक्षे एकार्थिकानियुज्यन्ते, कथम्?,यस्योकान्तेनैवसर्वेभावाःसर्वथाभिन्नावर्तन्तेतस्यहियथाघटशब्दात्पटशब्दो भिन्नः एवं कुटशब्दोऽपि भिन्न एव तत्कथं घटशब्दस्य कुटशब्द एकार्थिको युज्यते?, एकार्थिकत्वं हि कथञ्चिद्भेदेभवतीति, एवमेकान्ताभेदवादिनोऽपिनयुज्यन्तेएकार्थिकानि,कथम्?, यस्यह्यभेदेनसर्वेभावा व्यवस्थितास्तस्य यथा घटशब्दस्य घटशब्दोऽभिन्न एकार्थिको न भवति एवं कुटादयोऽपि न युज्यन्ते अभिन्नत्वात्, इत्यलं चसूर्येति ॥ अधुना चरणपदव्याख्यानार्थमिदंगाथासूत्रमाहमू. (७) वय समणधम्म संजमवेयावच्चं चबंभगुत्तीओ। नाणाइतियं तव कोहनिग्गहाई चरणमेयं
[भा. २] वृ. भवतीति क्रियाऽनुवर्तते. व्रतादि चरणं भवतीति योगः, व्रतानि-प्राणातिपातादिनिवृत्तिरूपाणि 'समणधम्म'त्ति श्रमणाः-साधवो धारयतीति धर्मः श्रमणानां धर्मः-क्षान्त्यादिकश्चरणं भवतीति सर्वत्र मीलनीयम्। संजमे तिसम्-एकीभावेन यमःसंयमः, उपरम इत्यर्थः, सच प्रेक्षोत्प्रेक्षादिरूपः सप्तदशप्रकार: 'वेयावच्च'इतिव्यावृत्तास्यभावोवैयावृत्त्यं आचार्यादिभेदादृशप्रकार.चशब्दःसम-च्चये, किंसमुच्चिनोति?. विनयश्च बंभगुत्तीओ'त्तिब्रह्मइति-ब्रह्मचर्यंतस्यगुप्तयोब्रह्मचर्यगुप्तस्यः, चर्यशब्दलोपादेवमुपन्यासःकृतः, ताश्रज्ञच वसत्यादिका नव ब्रह्मचर्यगुप्तयः, 'नाणाइतिय'ति ज्ञायतेऽनेनेति ज्ञानम्-आभिनिबोधिकादि तदादिर्यस्य ज्ञानादित्रयस्य तत ज्ञानादि, आदिशब्दात् सम्यग्दर्शनचारित्रपरिग्रहः, ज्ञानादि च तत्रिकं च ज्ञानादित्रिकम्, 'तव' इतितापयतीतितपो-द्वादशप्रकारमनशनादि कोहनिग्गहाइ' इति क्रुधकोपे'क्रोधनं क्रोधः, निग्रहणं निग्रहः, क्रोधस्यनिग्रहःक्रोधनिग्रहःसआदिर्यस्यमानादिनिग्रहकदम्बकस्यतत्क्रोधनिग्रहादि, चरणमेतत् । एवं व्याख्याते सत्याह परः ननु व्रतान्तर्गतत्वाद् गुप्तयो न पृथक् कर्तव्याः, अथ परिकरभूताचतुर्थव्रतस्यब्रह्मचर्यगुप्तयोऽभिधीयन्ते,एवंतर्बेककस्यव्रतस्यपरिकरभूताभावनाअपिवाच्याः. नचज्ञानादित्रयस्यग्रहणंकर्तव्यं, अपितुज्ञानसम्यग्दर्शनयोरेवोपन्यासःकर्तव्यइति, चारित्रस्यव्रतग्रहणेनैव ग्रहणात्, तथा श्रमणधर्मग्रहणेन संयमग्रहणं तपो ग्रहणं चातिरिच्यते, संयमतपसी वोद्धृत्य श्रमणधर्मस्योपन्यासः कर्तव्यः, तथा तपोग्रहणेचसति वैयावृत्त्यस्योपन्यासो वृथा, चशब्दसमुच्चितस्य च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org