SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ आघनियुक्तिः मूलसूत्रं प्यभिहितः, कारणे कार्योपचारमङ्गीकृत्य, सिद्धत्वस्य कारणभूतत्वादर्हतामित्यलः प्रसङ्गेनेति॥ अधुना कृतमङ्गलः सन् संबन्धाभिधेयप्रयोजनत्रयप्रदर्शनार्थं द्वितीयं गाथासूत्रमाह-'ओहेण उ’ इति, ओघः संक्षेपः समासः सामान्यमित्येकोऽर्थः, तेन ओघेन नियुक्तिः वक्ष्ये इतियोगः, तदनेनगाथाखण्डकेन संबन्धः प्रतिपादितः क्रियाऽऽनन्तर्यलक्षणः, तथा चव्यासक्रियायाः समासक्रिया अनन्तरभूता वर्तते. अतः क्रियाऽऽनन्तर्यलक्षणःसंबन्धः, एवं कार्यकारणलक्षणोऽपिद्रष्टव्यः-कार्यम-ओघनिजुक्त्यर्थपरिज्ञानमनुष्ठानं च कारणं तुवचनरूपापन्ना ओघनियुक्तिरेव, एवं चसाध्यसाधनादयोऽपि द्रष्टव्या इति। तुशब्दो विशेषणे. किं विशिनष्टि?-ओघेनवक्ष्ये.तुशब्दात्किञ्चिद्विस्तरतोऽपि, “छप्पुरिमं” इत्या नियुक्तिःवक्ष्यइइत-नि:आधिक्ये योजनं युक्तिः, सूत्रार्थयोर्योगो नित्यव्यवस्थित एवास्ते वाच्यवाचकतयेत्यर्थः, अधिका योजना नियुक्तिरुच्यते.नियतानिश्चितावायोजनेति,ततश्चनियुक्ति युक्तिरित्येवंवक्तव्येएकस्ययुक्तिशब्दस्य लोपं कृत्वा एवमुपन्यासः, यथोष्टमुखी कन्येति। 'वोच्छं' इति वक्ष्ये' अभिधास्य इति यदुक्तं भवति. कुतो वक्ष्ये? इत्यत आह 'चरणकरणानुयोगात्'चर्यतइइतचरणं-वक्ष्यमाणलक्षणंव्रतादिक्रियतइतिकरणं-पिण्डविशुझ्यादि. चरणंचकारणंचचरणकरणेतयोरनुयोगश्चरणकरणानुयोगः, अनुयोजनमनुयोग:अनुकूलोवायोगोऽनुयोगः, अथवाऽनु-सूत्रं महान्-अर्थः ततो महतोऽर्थस्यानुना सूत्रेण योगोऽनुयोगः, तस्माच्चरणकरणानुयोगात् नियुक्तिं वक्ष्ये, चरणकरणात्मिकामेवेति गम्यते, यथा मृदोघटंकरोतिमृदात्मकमेव, तद्वदनापीति।अथवा चरणं च तत्करणं च २ तस्यानुयोगस्तस्माच्चरणकरणानुयोगात् नियुक्तिं वक्ष्य इति, तदनेनावयवेना. भिधेयमुक्तं, चरणकरणनियुक्तिरभिधेयेति।किस्वरूपांनियुक्तिंवक्ष्ये?इत्यतआह-'अल्पाक्षरां' अल्पान्यक्षराणियस्यांसाऽल्पाक्षरातामल्पाक्षराम्,अथवा क्रियाविशेषणमेतत्,कथंवक्ष्ये? इत्यतआह-'अल्पाक्षरं स्तोकाक्षरंवक्ष्ये,नप्रभूताक्षरमित्यर्थः। किमल्याक्षरमेव?,नेत्याह-‘महत्थं महार्थवक्ष्ये,अथवामहानर्थो यस्याःसामहार्थातांमहा िवक्ष्ये, तदनेनाभिधेयविशेषणं प्रतिपादितंभवति। अल्पाक्षरांमहार्थां' इत्यनेन चतुर्भङ्गिकाप्रतिपादिताभवति, एकमल्पाक्षरंप्रभूतार्थभवति?,तथाअन्यत्प्रभूताक्षरमल्यार्थ२,तथाप्रभूता. क्षरंप्रभूतार्थं ३, अल्पाक्षरमल्पार्थं ४ चेति। किंनिमित्तं वक्ष्ये? इत्यत आह-'अनुग्रहार्थं' अनुग्रह-उपकारोऽभिधीयते, अर्थशब्द: प्रयोजनवचनः, तत उपकारप्रयोजनं वक्ष्ये, तदनेन प्रयोजनप्रतिपादितं द्रष्टव्यम। केषांवक्ष्ये? इत्यतआह-सुविहितानां' शोभनंविहितम-अनुष्ठानंयेषामितितेसुविहिताः-साधवस्तेषां सुविहितानामनुग्रहार्थमोपनियुक्तिं वक्ष्य इति योगः। तदनेन गाथासूत्रेण परोपन्यस्ता हेतवो निराकृता भवन्ति । के च हेतवः ?, निःसंबन्धत्वादय इति । यश्चायं क्त्वाप्रत्यय उपन्यस्तस्तेन नित्यानित्यैकान्तवादयोरसारता प्रतिपादिता भव कथम् ?-न नित्यवादे क्त्वाप्रत्ययो युज्यते न वाऽनित्यवादे, किंतु नित्यानित्यवाद एवायं घटत इति, नित्यवादे तावन्न घटते, एकं कृत्वा ह्यपरकरणं क्रमः, क्त्वाप्रत्ययश्च विशिष्टपूर्वार्थोऽभिधीयते, 'समानकर्तृकयोः पूर्वकाले क्त्वे' ति वचनात, नित्यवादे चाप्रच्युतानुत्पन्नस्थिरैकस्वभावं वस्तु, तच्च किं तावत् पूर्वस्वभावत्यागेन द्वितीयां क्रियां करोति आहोस्वित्पूर्वस्वभावात्यागेनेति वाच्यम्?, यदि पूर्वस्वभावत्यागेनततोऽनित्यत्वप्रसङ्गः, अतादवस्थ्यमनित्यतां ब्रूमः, अथ पूर्वस्वभावात्यागेन, एवं तर्हि न कदाचिदपि तेन द्वितीया क्रिया कर्तव्येति, एवं प्रतिपादितेऽनित्यतावाद्याहअत एवास्माकं दर्शन क्त्वाप्रत्ययो घटत इति, एतदप्यचारु, यस्य क्षणिकं वस्तु तस्य कथं क्त्वाप्रत्ययो युज्यते?, उत्पत्त्यनन्तरं ध्वंसात्, कथमेक एव कर्ता क्रियाद्वयं करोति?, येन हिप्राक्तनी क्रिया निष्पादिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy