________________
ओघनियुक्तिः मूलसूत्रं वृ. अभ्यन्तरं बाह्यं च यत्तप उपधानम्-उपदधातीत्युपधानम्-उपकरीतीत्यर्थः, तच्चोपधानं द्वादशविधमपि तप उच्यते। तवो गओ, नियमो भन्नति, स च द्विधा-इन्द्रियनियमो नोइन्द्रियनियमश्च, तत्रेन्द्रियतः इन्द्रियाण्यङ्गीकृत्य पूर्वोक्तो नियमः, 'कोहाइओ बिइओ'त्ति द्वितीयो नोइन्द्रियनियमः क्रोधादिकः, आदिग्रहणान्मानमायालोभा गृह्यन्ते, एतेषां नियमोनिरोधः ।
नियमोत्तिगयं, इदानीं संजमो भन्नइ.सच सप्तदशप्रकारस्तत्राहमू. (४७३) पुढविदगअगनिमारुअवणस्सईबितिचउक्कपंचिंदी।
उजीव पोत्थगाइसु गहिएसु असंजमो जेणं ।। [भा. १६९] वृ. पुढविदगअगनिमारुअवणस्सइबेइंदिअतेहंदिअचरिंदिअपंचिंदिआ। तथा 'अजीवत्ति अजीवषु' पनकसंसक्त पुस्तकादिषु गृहीतेषु असंयमो भवति येन तन्न ग्राह्यं, आदिशब्दात् दूसपणगं तणपणगं च. एतषु अपरिगृहीतेषु संयमः परिगृहीतेषु त्वसंयमः । तहामू. (४७४) पेहेत्ता संजमा कुत्तो. उपेहितावि संजमा।
पमजेत्ता संजमो वुत्ता, परिहावेत्तावि संजमो॥ भा. १७०] वृ. प्रेक्षासंयमः चक्षुषा यनिरूपणं, ततश्चैवं पूर्व चक्षुषा निरूपयतः प्रेक्षासंयम उक्तः। 'उटेहेत्तावि संज-मो'त्ति उपेक्षा द्विप्रकारा तां कुर्वतः संयम उक्तस्तां च वक्ष्यति । 'पमज्जित्ता संजमो वुत्तो'त्ति प्रमार्जयतः संयम उक्तः। 'परिट्ठवेत्तावि संजमो'त्ति परिष्ठापयतः' परित्यजतोऽपि पानकादि अतिरिक्तं संयम उक्तः। एवमेते चतुर्दश, मनोवाक्कायसंयमश्च त्रिविध उक्त एव द्रष्टव्यः । इदानीं भाष्यकव्याख्यानयति-प्रथमगाथार्थः एकाकिकारणिकगमनयतनायामुक्तः, अजीवपुस्तकादिसंयमोऽपि अचित्तवनस्पतिगमनयतनायां व्याख्यात एव द्रष्टव्यः, इदानीं यदुपन्यस्तं 'उपेहित्तावि संयमो'त्ति तन्न क्वचिद्व्याख्यातमिति व्याख्यानयन्नाहमू.(४७५) ठाणाइ जत्थ चेए पुव्वं पडिलेहिऊण चेएज्जा।
संजयगिहिचोयणऽचोयणे य वावारओवेहा ।। [भा. १७१] वृ. स्थानं ऊर्ध्वस्थानं कायोत्सर्गादि, आदिग्रहणान्निषीदनस्थानं त्वग्वर्तनास्थानं च गृह्यते, तत्स्थानादि यत्र चेतयते' 'चिती संज्ञाने' जानाति चेष्टते करोति अभिलषतीत्यर्थः, तत्र पूर्व-प्रथमंप्रत्युपेक्ष्यचक्षषा निरीक्ष्यततश्चेतयते स्थान-कायोत्सर्गादि. आदिग्रहणान्निषीदनस्थानं त्वगवर्तनास्थानंच. उक्तः प्रेक्षासंयमः, इदानी उपेक्षासंयम उच्यते, सा चोपेक्षा द्विविधा, कथं ?-संयतव्यापारोपेक्षा गृहस्थव्यापारोपेक्षा च, तत्र यथासङ्ख्यं संयतस्य चोदनविषया व्यापारोपेक्षा, गृहस्थस्य चाचोदनविषया व्यापारोपेक्षा, एतदक्तं भवति-साधु विर्षीदन्तं दृष्टा संयमव्यापारेषु चोदयतः संयमव्यापारोपेक्षा, उपेक्षाशब्द धात्र ईक्ष दर्शन' उप-सामीप्यनेक्षा उपेक्षा, तथा गृहस्थस्य व्यापारोपेक्षा, गृहस्थमधिकरणव्यापारषु प्रवृत्तं दृष्ट्वाऽचोदयता गृहस्थव्यापारोपेक्षा उच्यते, उपेक्षाशब्दश्चात्रावधारणायां वर्तत इति।
इदानीं 'परिट्ठावेत्तावि संजमोत्ति व्याख्यायते, तत्राहमू. (४७६) उवगरणं अइरेगं पाणाई वाऽवहट्ट संजमणं।
सागारिएऽपमज्जण संजम सेसे पमज्जणया ॥ [भा. १७२] वृ. 'उपकरणं' वस्त्रादि यदतिरिक्तं गृहीतं तथा पाणाई वा' तथा पानकादि वा यदतिरिक्तं गृहीतं तद् अवहट्टत्ति परित्यज्य. किं ?- संजमणा' संयमा भवतीति. आदिग्रहणाद्भक्तं वाऽतिरिक्तं परित्यज्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org