________________
मृत्नं-४६६
क्रियमाणः, कथम् ? 'अन्योऽन्याबाधया' परस्परापीडया, एतदुक्तं भवति यथा क्रिया क्रियमाणाऽन्येन क्रियान्तरेण न बाध्यते एवमन्वाऽन्याबाधया प्रयुज्यमानः 'असवत्तो' असपत्नः अविरुद्धो भवति कर्त्तव्यः । जाग जांग जिनसा सणमिदुक्खक्खया पजत । एक्क्कम अनंता वट्टता केवली जाया ।
मू. (४६७)
बृ. सुगमा | नवरम एककस्मिन योगे' व्यापारे वर्त्तमाना अनन्ताः केवलिनां जाता इति ॥ मू. (४६८) एवं पडिलेहता अईयकाले अनंतगा सिद्धा । चोयगवणं सययं पडिलेहेमो जओ सिद्धी ॥
वृ. एवं प्रत्युपेक्षणां कुर्वन्तोऽतीतकालेऽनन्ताः सिद्धाः । एवमाचार्येणोक्ते सति 'चोयगवयणं' अत्र चोदकवचनं चोदकपक्षः, किं तद् ? इत्याह- सततं पडिलेहेमो' यद्येवं प्रत्युपेक्षणाप्रभावादनन्ताः सिद्धास्ततः सततमेव प्रत्युपक्षणां कुर्मः. किमन्येनानुष्ठितेन ?, यतस्तत एव सिद्धिर्भवति । आचार्यः प्राहमू. (४६९) सेसेस अवट्टतो पडिलहतोवि दसमाराहे ।
जइ पुन सव्वाराधनमिच्छसि तो णं निसामेहि ॥
वृ. शेषेषु योगेषु अवर्त्तमानः सम्यक शास्त्रोक्ते न न्यायेन प्रत्युपेक्षणां कुर्वन्नपि देशत आराधक एवासौ, न तु सर्वमाराधितं भवति तेन गदि पुनः संपूर्णामाराधनामिच्छसीति, शेषं सुगमं । कथं च सर्वाराधको भवति ?, अत आहमू. (४७०)
पंचिदिएहिं गुत्तो मनिमाईतिविहकरणमाउत्तो । नियमसंजमंमि अ जुत्तो आराधओ होइ ॥
वृ. पञ्चभिरिन्द्रियैर्गुप्तो मनसादिना त्रिविधेन करणेन युक्तः' यत्नवान् तपसा द्वादशविधेन युक्तः नियमः - इन्द्रियनियमो नोइंद्रियनियमश्च तेन युक्तः, , संयमः- सप्तदशप्रकार: पुढविक्काओ आउक्काओ तेउक्काओ वाक्काओ वणस्सइकाओ बंदियतंदिअचउरिंदिअपंचिंदिअजीवकायसंजमो पेहाउपेहापमज्जणपरिट्ठवणमनोवईकाए । अत्र संयतः सन् मोक्षस्याराधको भवति प्रव्रज्याया वाऽऽराधकः । द्वारगाथेयम् । इदानीं भाष्यकार एतां गाथा प्रतिपदं व्याख्यानयति, तत्र ‘पंचिदिएहिं गुत्तो' त्ति प्रथमावयवं व्याख्यानयन्नाह - मू. (४७१) इंदियविसयनिराहो पत्ते सुवि रागदोसनिग्गहणं ।
अकुसलजोगनिरोहो कुसलोदय एगभावो वा ।।
[भा. १६७ ] वृ. इन्द्रस्यामूनि इन्द्रियाणि तेषां विषयाः शब्दादयः तेषां च यो निरोधः सा पञ्चेन्द्रियगुप्तिरभिधीयते, अयमप्राप्तानां शब्दादिविषयाणां निरोधः, तथा 'पत्ते सुवि रागदो सनिग्गहणं 'ति तथा 'प्राप्तेषु' गोचरमागतेष्वपि शब्दादिषु विषयेषु रागद्वेषयोर्निग्रहणं यत्सा पञ्चेन्द्रियगुप्तता. तत्रेष्टशब्दादिविषयप्राप्ती रागं न गच्छति अनिष्टशब्दादिविषयप्राप्ती द्वेषं न गच्छतीति, भणिता पञ्चेन्द्रियगुप्तता, इदानीं मनमाईतिविह्नकरणमाउत्तया” भवति, तत्राह - 'अकुसलजोगनिरोहो' अकुशलानाम अशोभनानां मनोवाक्काययोगानां-व्यापाराणां यो निरोधः सा त्रिविधकरणयुक्तता, तथा 'कुसलोदय' त्ति कुशलानां प्रशस्तानां मनोवाक्कायव्यापाराणां य उदयः सा त्रिविधकरणगुप्तता तथा 'एगभावो व 'त्ति न कुशलेषु योगेषु प्रवृत्तिनाप्यकुशलेषु योगेषु प्रवृत्तिर्या मध्यस्थता सा त्रिविधकरणगुप्तता । भणिता त्रिविधकरणगुप्तता इदानीं तवत्तिमू. (४७२) अब्भिंतरबाहिरगं तवोवहाणं दुवालसविहं तु । इंदिता पुव्वत्तो नियमो कोहाइओ बिडओ |
Jain Education International
१९५
For Private & Personal Use Only
[भा. १६८]
www.jainelibrary.org