________________
मूलं-४४८ प्रत्युपेक्षणास्य ऊर्व पीढिषु न लगति न च तिर्यकुडे न च भूमी तथा कत्तव्यं । छप्पुरिमा' तत्र वस्त्रं चक्षुषा निरूप्य-अवाग्भागं निरूप्य त्रयःपुरिमाः कर्त्तव्याः, तथा परावर्त्य-परमागं निरूप्य पुनपरेऽपि त्रयः पुरिमाः कर्तव्याः, एवं एतेषु पुरिमाः, षड्वाराः प्रस्फोटनानीत्यर्थः 'नव खोडत्ति नव वाराः खोटकाः कर्त्तव्याः पाणेरुपरि 'पाणी पाणमज्जणं ति प्राणानां कुन्थ्वादीनां पाणौ-हस्ते प्रमार्जन नेवैव वाराः कर्त्तव्यः। मू. (४४९) . वत्ये अप्पाणमि अ चउहा अनच्चाविअं अवलिअंच।।
अनुबंधि निरंतरया तिरिउड्ढह य घट्टणा मुसली॥ [भा. १६१] वृ. वस्त्रे आत्मानि चेत्यनेन पदद्वयेन भङ्ककचतुष्टयं सूचितं भवति, ततश्चानेन प्रकारण अनायितं चतुर्द्धा भवति. कथं ?. वत्थं अनच्चाविअं अप्पाणं च अनच्चाविअं एगो भंगो १. तथा वत्थं अनच्चाविअं अप्पाणं च नच्चाविअं२. तहा वत्थं नच्चाविजं अप्पाणं अनच्चाविअं ३, तथा वत्थंपि नश्चाविअं अप्पाणंपि नच्चाविअं ४, एस चउत्थो, एत्थ पढमो भंगो सुद्धा । एवं अवलिअंपि-अवलितऽपि चत्वारो भङ्गाः, यथा वत्थं अवलिअं अप्पाणं च अबलिअंदगो १, तहा वत्थं अवलिअं अप्पाणं च वलिअं२. तहा अप्पाणं अवलिअंवत्थं वलिअं ३. अप्पाणंपि वलिअंवत्थंपि वलिअं ४, एत्थवि पढमो भंगो सुभो। एवं अवलिअंपिअवलितेऽपि चत्वारोभङ्गाः, यथा वत्थं अवलिअंअप्पाणंच अवलिथंएगो १. तहा वत्थं अवलिअंअप्पाणं च वलिअं२, तहा अप्पाणं अवलिअंवत्थं वलिअं ३, अप्पाणंपि वलिअंवत्थंपि वलिअं ४, एत्थवि पढमो भंगो सुद्धो। 'अनुबंधि निरंतरयत्ति अनुबन्धो निरन्तरतोच्यते, ततश्चन च अनुबन्धेन-नैरन्तर्येण प्रत्युपेक्षणा कर्तव्या । इदानीममोलिं व्याख्यानयन्नाह-'तिरिउड्डह य घट्टणा मुसलि'त्ति त्रिविधा मुसली-तिर्यग्घटना १, उद्धर्वघट्टना २ अधो घट्टना ३ चेति, तत्र प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यक् कुड्यादि घट्टयति उद्धर्व कुट्टिकादिपटलानि घट्टयति अधो भुवं घट्टयति, एवं न मुशली-न किञ्चित्प्रत्युपेक्षणां कुर्वन् वस्त्रेण घट्टयति, इदं तु वक्ष्यमाणं न कर्त्तव्यं, किं तद् ?, इत्याह
मू. (४५०) आरभडा सम्मदा वज्जयव्वा य मोसली तइया। .
.. पप्फोडणा चउत्थी विक्खित्ता वेइया छठ्ठा ॥ वृ. 'आरभड'त्ति आरभटा प्रत्युपेक्षणा न कार्या, 'सम्मद्दत्ति संमर्दा न कार्या, वर्जनीया च मोसली तृतीया, प्रस्फोटना चतुथीं विक्षिप्ता पञ्चमी वर्जनीया, वेदिका षष्ठी वर्जनीयति द्वारगाथेयं ।
इदानीं प्रतिपदं भाष्यकारो व्याख्यानयति. तत्राद्यावयवव्याचिख्यासयाऽऽहमू. (४५१). वितहकरणे च तुरिअं अन्नं व गेण्हणाऽऽरभडा। अंतो व होज्ज कोणा निसयण तत्थेव संमहा ।।
[भा. १६२] ७. वितथं-विपरीतं यत्करणं तदारभडाशब्देनोच्यते. सा चारभटा प्रत्युपेक्षणा न कार्या, विपरीता प्रत्युपक्षणा न कार्येत्थः, वा-विकल्पे, इयं वाऽरभटोच्यते यदुतत्वरितः-आकुलं यदन्यान्वस्त्रग्रहणं तदारभटाशब्देनोच्यते, सा च प्रत्युपेक्षणा न कार्या, त्वरितमन्यान्यवस्त्रग्रहणं न कर्त्तव्यमित्यर्थः । "आरभडे"ति भणिअं, इदानीं संमर्दा व्याख्यायते, तत्राह-'अंतो व होज्ज कोणा निसियण तत्येव संमद्दा' अन्तः-मध्यप्रदेशे वस्त्रस्य संवलिताः कोणा यत्र भवन्ति सा संभर्दोच्यते, सा प्रत्युपेक्षणा तादृशी न कार्या, 'निसीयण तत्थेव'त्ति तत्रेव-उपधिकायां उपविश्य यत्प्रत्युपेक्षणाकरणं सा वा संमर्दोच्यते. सा च न कर्त्तव्येति । “संमद्दे"ति भणिअं. इदानीं मोसलीवर्जनप्रतिपादनायाह
मू. (४५२) मोसलि पुट्टिा पप्फोडणं रेगुगंडिए चेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org