________________
९६
पिसुणासभासम्भूयभूयवायाइवयणपणिहाणं । मायाविनोऽइसंधणपरस्स पच्छन्नपावस्स ||२०|
वृ- 'पिशुनासभ्यासद्भूतभूतधातादिवचनप्रणिधान' मित्यत्रानिष्टस्य सूचकं पिशुनं पिशुनमनिष्टसूचकं 'पिशुनं सूचकं विदु' रिति वचनात्, सभायां साधु सभ्यं न सभ्यमसभ्यंकारमकारादि न सद्भूतमसद्भूतमनृतमित्यर्थः, तच्च व्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा, तद्यथाअभूतोद्भावनं भूतनिह्नवोऽर्थान्तराभिधानं चेति, तत्राभूतोद्भावनं यथासर्वतोऽयभात्मेत्यादि, भूतनिह्नवस्तु नास्त्येवात्मेत्यादि, गामश्वमित्यादि ब्रुवतोऽर्धान्तराभिधानमिति, भूतानां - सत्त्वानामुपधातो यस्मिन् तद्भूतोपघातं, छिन्धि भिन्दिद्ध व्यापादय इत्यादि, आदि शब्दः प्रतिभेदं स्वागतानेकभेद प्रदर्शनार्थः यथापिशुनमनेकधाऽनिष्ठ सूचक मित्यादि, तत्र पिशुनादि वचनेष्वप्रवर्तमानस्यापि प्रवृतिं प्रति प्रणिधानं दृढाध्यवसान लक्षणं, रोद्रध्यानमिति प्रकरणाद्गम्यते किं विशिष्टस्य संत इत्यत आह- माया - निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनो वणिजादेः, तथा ‘अति सन्धानपरस्य' परवञ्चनाप्रवृत्तस्य अनेनेशाषेष्वपि प्रवृत्तिमप्यास्याह तथा 'प्रच्छन्नपापस्य' कृहप्रयोगकारिणस्तस्यैव अथवा धिग्जातिककृतीधिंकाहेर सद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथा हि- गुणरहितमप्यान्मानं यो गुणवन्तं ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः । उक्तो द्वितीयमेहः साम्प्रते तृतीय मुपदर्शयति
तह तिव्वकोहलोहाउलस्स भूओववायणमणज्जं । परदव्वहरणचित्तं परलोवावायनिविवेषणं ||२१||
वृ- तथाशब्दो दृढाघ्यवसायप्रकारसादृश्योपदर्शनार्थ:, तीव्रौ - उत्कटौ तौ क्रोधलोभौ च ताभ्यामाकुलः- अभिभूतस्तस्य जन्तोरिति गम्यते, किं ? - "भूतोपहननमनार्य' मिति हन्यतेऽनेनेति हम उप-सामीप्येन हननम उपहननं भूतानामुपहननं भूतोपहननम्, आराघातं सर्वहेयधर्मेभ्य इत्यार्य नाऽऽर्यमनार्य, किं तदेवंविधमित्यत आह-परद्रव्यहरणचित्तं, रोद्रघ्यानमिति गम्यते, परेषां द्रव्यं सचित्तादि तद्विषयं हरणचित्तं परद्रव्यहरणचित्तं, तदेव विशेष्यतेकिम्भूतं तदित्यत आह‘परलोकापायनिरपेक्ष’मिति, तत्र परलोकापायाः-नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः । । उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थं भेदमुपदर्शयन्नाहसद्दाइविसवसाहणसारक्खणपरावणमनिट्ठ । सव्वामिसंकपरोववाकलुलाउकं चित्तं ॥ २२ ॥
वृ- शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषां साधनं कारणं शब्दादिविषयसाधनं च (तच्च) तद्धनं च शब्दादिविषयसाधनधनं तत्संरक्षणे- तत्परिपालने परायणम उद्युक्तमिति विग्रहः, तथाऽनिष्टं सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यते - सर्वेषामभिशङ्कनेनाकुलमिति संबध्यते न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्योपधात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषाः कषायास्तैराकुलं व्याप्तं यत यत तथोच्यते, चित्तम - अन्तःकरणं, प्रकरणाद्रौद्रघ्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञानार्थमिति गाथार्थः । ।
साम्प्रतं विशेषमि भधानगर्भमुपसंहरन्नाह
Jain Education International
आवश्यक - मूलसूत्रम् - २- ४ / २१
-
For Private & Personal Use Only
-
www.jainelibrary.org