________________
९७
अध्ययनं -४- [नि. १२७१]
इय करणकारणानुमइविसयमनुचिंतणं चउब्भेयं ।
- अविरयदेसासंजयजनमनसंसेवियमहन्नं ।। २३ ॥ वृ- ‘इय' एवं करणं स्वयमेव कारणमन्यैःकृतानुमोदनमनुमतिः करणं च कारणं चानुमतिश्च करणकारणानुमतयः एता एव विषयः-गोचरो यस्य तत्करणकारणानुमतिविषयं, किमिदमित्यत आह-'अनुचिन्तनं' पर्यालोचनमित्यर्थः, 'चतुर्भेद' इति हिंसानुबन्ध्यादिचतुष्प्रकार, रौद्रध्यानमिति गम्यते, अधुनेदमेवस्वामिद्वारेण निरूपयति-अविरताः-सम्यग्दृष्टयः, इतरेच देशासंयताःश्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाहइ अविरतदेशासंयता एव जनाः तेषां मनांसि-चित्तानि तैः संसेवितं, सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्रघ्यानचिन्तायांप्रधानाङ्गख्यापनार्थम, 'अधन्य'मित्यश्रेयस्कर पापंनिन्द्यमितिगाथार्थः । अधुनेदं यथाभूतस्य भवति यद्वर्द्धनचेदमितितदेतदभिधातुकाम आह
एवं चउव्विहं रागदोसमोहाउलस्स जीवस्स ।
रोद्दज्झाणं संसारवद्धणं नरयगइमूलं ।। २४ ॥ वृ- 'एतद्' अनन्तरोक्तं चतुर्विधं' चतुष्प्रकारं रागद्वेषमोहाङ्कितस्यआकुलस्य वेतिपाठान्तरं, कस्य? - ‘जीवस्य' आत्मनः, किं?-रौद्रध्यानमिति, इयमत्रचतुष्टयस्यापि क्रिया, किंविशिष्टमिदमित्यत आह-'संसारवर्द्धनम्' ओघतः 'नरकगतिमूलं' विशेषत इति गाथार्थः ।। साम्प्रतं रौद्रघ्यायिनो लेश्याः प्रतिपाघन्ते
कायोवनीलकाला लेसाओ तिव्वसंकिलिट्ठाओ।
रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाओ ।। २५ ॥ वृ-पूर्ववद् व्याख्येया, एतावाँस्तु विशेषः-तीव्रसंक्लिष्टाः-अतिसंक्लिष्टा एता इति, आहकथं पुनः रौद्रध्यायी ज्ञायत इति?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयति
लिंगाईं तस्स उस्सन्नबहुलनाणाविहामरणदोसा ।
तेसि चिय हिंसाइसु बाहिरकरणोवउत्तस्स ।। २६ ॥ वृ- 'लिङ्गानि' चिह्नानि 'तस्य' रौद्रघ्यायिनः, 'उत्सन्नबहुलनानाविधामरणदोषा' इत्यत्र दोषशब्दः प्रत्येकमभिसंबध्यते, उत्सन्नदोषः बहुलदोषः नानाविधदोपः आमरणदोषश्चेति, तत्र हिंसानुबन्च्यादीनामन्यतरस्मिन प्रवर्तमान उत्सन्नम-अनुपरतं बाहल्येन प्रवर्तते इत्युत्सन्नदोषः, सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः, नानाविधेषु त्वकत्वक्षणनयनोत्खननादिषु हिंसादि उपायेष्वसकृदप्येवं प्रवर्तत इति नानाविधदोषः, महदापगतोऽपि स्वतः महदापगतेऽपि च परे आमरणादसज्जातानुतापः कालसौकरिकवद अपि त्वसमाप्तानुतापानशयपर इत्यामरणदोष इति तेष्वेव हिंसादिषु, आदिशब्दान्मृषावादादिपरिग्रहः, ततश्च तेष्वेव हिंसानुबन्ध्यादिषु चतुर्भेदेषु, किं ?-बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषलिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः । । किं च
वरवसणं अहिनंदइ निरवेक्खो निद्दओ निरनुतावो ।
हरिसिज्जइ कयपावो रोद्दज्झाणोवगयचित्तो ।। २७ ॥ वृ- इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम-आपत परव्यसनं तद् 'अभिनन्दति' 257
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org