________________
९८
आवश्यक-मूलसूत्रम् -२- ४/२१ अतिक्लिचित्तत्वाद्बहु मन्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा 'निरपेक्ष' इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः, परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापः, पश्चात्तापरहित इति भावः, तथा किंच-'हृष्यते' तुष्यति ‘कृतपायः' निर्वर्तितपापः सिंहमारकवत्, क इत्यत आह-रौद्रध्यानोपगचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः ।। उक्तं रौद्रध्यानं, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाह
. झाणस्स भावणाओ देसं कालं तहाऽऽसनविसेसं । आलंबणं कमंझाइयव्वयंजे यझायारो ।। २८ ॥
तत्तोऽनुप्पेहाओ लेस्सा लिगं फलं च नाऊणं ।
धम्मं झाइजमुनी तगयजोगो तओ सुक्कं ।। २९ ॥ वृ- 'ध्यानस्य' प्राग्निरुपितशब्दार्थस्य, किं ?- भावना' ज्ञानाद्याः,ज्ञात्वेति योगः, किंच-'देशं' तदुचितं, कालं तथा आसनविशेषं तदुचितमिति, 'आलम्बनं' वाचनादि, 'क्रम' मनोनिरोधादि, तथा ध्यातव्यं ध्येयमाज्ञादि, तथायेच 'ध्यातारः' अप्रमादादियुक्ताः, ततः ‘अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारुपाः, तथा लेश्याः' शुद्धा एव, तथा लिङ्गं श्रद्धानादि, तथा ‘फलं' सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतद् ज्ञात्वा, किं?-'धर्म्यम्' इतिधर्मध्यानं ध्यायेन्मुनिरिति, 'तत्कृतयोगः' धर्मध्यानकृताभ्यासः, 'ततः' पश्चात् शुक्लध्यानमिति गाथाद्वयसमासार्थः ।। व्यासार्थे तुप्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति।
पुवकयब्भासो भावनाहि झाणस्स जोगवसुपेइ ।
ताओ य नाणदंसणचरित्तयेरग्गजणियाओ ।। ३०॥ वृ- पूर्व-ध्यानात् प्रथमं कृततःनिवर्तितोऽभ्यासः-आसेवनालक्षणो येन स तथाविधः, काभिः, पूर्वकृताभ्यासः ? 'भावनाभिः' करणभूताभिः भावनासु वा-भावनाविषये पश्चाद् ‘ध्यानस्य' अधिकृतस्य योग्यताम्' अनुरुपताम् ‘उपैति' यातीत्यर्थः, 'ताश्च' भावना ज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियताः-परिच्छिन्नाः पाठान्तरं वा जनिता इति गाथार्थः ।। साम्प्रतं ज्ञानभावनास्वरुपगुणदर्शनायेदमाह
नाणे निच्चब्भासो कुणइमनोधारणं विसुद्धिं च ।
नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ ।। ३१ ॥ वृ- 'ज्ञाने' श्रुतज्ञाने, नित्यं-सदा अभ्यासः-आसेवनालक्षणा ‘करोति' निर्वर्तयतिं, किं ?मनसः-अन्तःकरणस्य, चेतस इत्यर्थः, धारणम्-अशुभव्यापारनिरोधेनावस्थानमितिभावना, तथा 'विशुद्धिं च' तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते, तां, चशब्दाद्भवनिर्वेदं च, एवं 'ज्ञानगुणमुनितसार' इति ज्ञानेन गुणानां-जीवाजीवाश्रितानां ‘गुणपर्यायवत् द्रव्य मिति वचनात् पर्यायाणां च तदविनाभाविनां मुणितः-ज्ञातः सारः-परमार्थो येन स तथोच्यते, ज्ञानगुणेन वाज्ञानमाहात्म्येनेतिभावः ज्ञातः सारो येन, विश्वस्येति गम्यते सतधाविधः, ततश्च पश्चाद् ‘ध्यायति' चिन्तयति, किंविशिष्टः सन् ?-सुष्ठु-अतिशयेन निश्चला-निष्प्रकम्पा सम्यग्ज्ञानतोऽन्यथा
प्रवृत्तिकम्परहितेति भावः मतिः-बुद्धिर्यस्य स तथाविध इति गाथार्थः ।। । उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावनास्वरुपगुणदर्शनार्थमिदमाह
नाणापचनासागर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org