________________
अध्ययनं -४- [नि. १२७१]
संकाइदोसरहिओ पसमथेजाइगुणगणोवेओ।
होइ असंमूढमणो दंसणसुद्धिएझाणंमि ।। ३२ ॥ वृ- 'शङ्कादिदोषरहितः' शङ्कनं-शङ्का, आदिशब्दात् काङ्गादिपरिग्रहः, उक्तंच-'शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसापरपाषण्डसंस्तवाः सम्यग्दृष्टेरतिचाराः इति, एतेषां च स्वरुपंप्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः, तत्र शङ्कादय एव सम्यक्त्वाख्यप्रथमगुणातिचारत्वात् दोषाः शङ्कादिदोषास्तैः रहितः-त्यक्तः, उक्तदोषरहितत्वादेव, किं ?- प्रश(श्र)मस्थैर्यादिगुणगणोपेतः' तत्र प्रकर्षेण श्रमः प्रश्रमः-स्वेदः, स च स्वपरसमयतत्त्वाधिगमरुपः, स्थैर्य तु जिनशासने निष्प्रकम्पता, आदिशब्दात्प्रभावनादिपरिग्रहः, उक्तंच
____'सपरसमयकोसल्लं थिरया जिनसासने पभावणया ।
आययणसेव भत्तीदंसणदीवा गुणा पंच ।।' प्रश्रमस्थैर्यादय एव गुणास्तेषां गणः-समूहस्तेनोपेतो-युक्तो यः स तथाविधः, अथवा प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः २, तत्र प्रशमादिगुणगणः-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः, स्थैर्यादिस्तुदर्शितएव, य इत्थम्भूतः असौ भवति असम्मूढमनाः' तत्त्वान्तरेऽभ्रान्तचित्त इत्यर्थः, 'दर्शनशुद्ध्या' उक्तलक्षणया हेतुभूतया, क्व ?-ध्यानइतिगाथार्थः । उक्ता दर्शनभावना, साम्प्रतं चारित्रभावनास्वरुपगुणदर्शनायेदमाह
नवकम्माणायाणं पोराणविणिजरं सुभायाणं ।
चारित्तभावनाए झाणमयत्तेण य समेइ ।। ३३ ॥ वृ- 'नवकर्मणामनादान' मिति नवानि-उपचीयमानानि प्रत्यग्राणि भण्यन्ते, क्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि तेषामनादानम्-अग्रहणं चारित्रभावनया ‘समेति' गच्छतीति योगः, तथा 'पुराणविनिर्जरां' चिरन्तनक्षपणामित्यर्थः, तथा शुभादान'मिति शुभं-पुण्यं सातसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्रात्मकं तस्याऽऽदानं-ग्रहणं, किं ?- 'चारित्रभावनया' हेतुभूतया, ध्यानं च चशब्दान्नवकर्मानादानादि च 'अयत्नेन' अक्लेशेन ‘समति' गच्छति प्राप्नोतीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः ? - 'चर गतिभक्षणयोः' इत्यस्य ‘अर्तिलूधूसूखनिसहिचर इत्रन्' इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनन्दितमनेनेति चरित्रं-क्षयोपशमरुपं तस्य भावश्चारित्रम्, एतदुक्तंभवति-इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरुपा क्रिया इत्यर्थः, तस्य भावना-अभ्यासश्चारित्रभावनेति गाथार्थः ।। उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरुपगुणदर्शनार्थमाह
सुविदियजगस्सभावो निस्संगो निब्भओ निरासो य ।
वेरग्गभावियमनो झाणंमि सुनिच्चलो होइ ।। ३४ ॥ वृ- सुष्ठु-अतीव विदितः-ज्ञातो जगतः-चराचरस्य, यथोक्तं- 'जगन्ति जङ्गमान्याहुर्जगद्ज्ञेयं चराचरम्' स्वो भावः स्वभावः,
'जन्म मरणाय नियतं बन्धुर्मुःखाय धनमनिर्वृतये ।
तन्नास्ति यन्न विपदे तथापिलोको निरालोकः ।।' इत्यादिलक्षणो येनस तथाविधः, कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org