________________
अध्ययनं - -४ [नि. १२७१]
९५
कलावाणिज्यादीन्येतद्गभ्यते, तथा 'प्रशंसति' स्तौति बहुमन्यते 'सविस्मयः' साश्चर्यः 'विभूती: ' परसम्पद इत्यर्थः तथा 'प्रार्थयते' अभिलषति परविभूतीरिति, 'तासु रज्यते' तास्विति प्राप्तासु विभूतिषुरागं गच्छति, तथा 'तदर्जनपरायणो भवति' तासां विभूतीनामर्जने उपादाने परायणउद्युक्तः तदर्जन परायण इति, ततश्चैवम्भूतो भवति, असावप्यार्तघ्यायीति गाथार्थः । । किं चसद्दाइविसयगिद्धो सद्धम्मपरम्मुहो परमायपरो । जिनमयमणवेक्खतो वट्टइ अट्टंमि झाणंमि ||१७||
वृ- शब्दादयश्च ते विषयाश्च तेषु गृद्धो मूर्च्छितः काङ्गवानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्रदुर्गतौ प्रपन्तमात्मानं धारयतीति धर्मः सँश्चासौ धर्मश्च सद्धर्मः क्षान्त्यादिकश्चरणधर्मो गृह्यते ततः पराङ्मुखः, 'प्रमादपरः' मघादिप्रमादासक्तः, 'जिनमतमनपेक्षमाणो वर्तते आर्तघ्याने' इति तत्र जिना:- तीर्थकरास्तेषां मतम् - आगममरूपं प्रवचनमित्यर्थः तदनपेक्षमाणः - तन्निरपेक्ष इत्यर्थः, किम ? - वर्त्तते आर्त्तघ्याने इति गाथार्थः । ।
साम्प्रतमिदमार्तध्यानं सम्भवमधिकृत्य यदनुगतं यदनर्ह बर्तते तदेतदभिधित्सुराहतदविरयदेसविरया पमायपरसंजयाणुगं झाणं ।
सव्वप्पमायमूलं वज्जे जइजणेणं || १८ ||
वृ- 'तद्' आर्तध्यानमिति योगः, 'अरितदेशविरतप्रमादपरसंयतानुग' मिति तत्राविरतामिथ्यादृष्टयः सम्यग्दष्टयश्च देशविरताः- एकद्वयाद्यणुव्रतधरभेदाः श्रावकाः प्रमादपराःप्रमादनिष्ठाश्च ते संयताश्च ताननुगच्छतीति विग्रहः, नैवाप्रमत्तसंयतानिति भावः, इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो 'वर्जयितव्यं' परित्यजनीयं, केन ? - 'यतिजनेन' साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन, परित्यागार्हत्वादेवास्येति गाथार्थः । । उक्तमार्तध्यानं, साम्प्रतं रौद्रध्यानावसरः, तदपि चतुर्विधमेव, तघथा हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च, उक्तं चोमास्वातिवाचकेन- "हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्र' मित्यादि । । तत्राऽऽघभेदप्रतिपादनायाह
सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं ।
अइकोहग्गहवत्थं निग्घिवणमनसोऽहमविवागं । । १९॥
वृ- सत्त्वा- एकेन्द्रियादयः तेषां वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं तत्र वधः - ताडनं करकशलतादिभिः वेधस्तु नासिकादिवेधनं कीलिकादिभिः बन्धनं-संयमनं रज्जुनिगडादिभिः दहनंप्रतीतमुल्मुकादिभिः अङ्कनं - लाञ्छनं श्वशृगालचरणादिभिः मारणं प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दादागाढपरितापनपाटनादिपरिग्रहः, एतेषु प्रणिधानम अकुर्वतोऽपि करणं प्रति दढाध्यवसानमित्यर्थः, प्रकारणाद रौद्रघ्यानमिति गम्यते, किंविशिष्टं प्रणिधानम् ?'अतिक्रोधग्रहग्रस्तम' अतीवोत्कटो यः क्रोधः- रोषः स एवापायहेतुत्वाद्ग्रह इव ग्रहस्तेन ग्रस्तम्अभिभूतं, क्रोधग्रहणाच्च मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आह- 'निर्घृणमनसः ' निर्घृणं- निर्गतदयं मनः- चित्तमन्तः करणं यस्य स निर्घृणमनास्तस्य तदेव विशेष्यते- 'अधमविपाक' मिति अधमः- जधन्यो नरकादिप्राप्तिलक्षणो विपाकः - परिणामो यस्य तत्तथाविधमिति गाथार्थः । । उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयम्
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org