SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-४- [नि. १२७१] जिनानां घ्यानं यावन्तंच कालमेतद्भवत्येतदुपरिष्टाद्वक्ष्याम इति गाथार्थः ।। साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात परतो यद्भवति तदुपदर्शयन्नाह अंतोमुहुत्तपरओ चिंता झाणंतरं व होज्जाहि । सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो ।।४ ॥ वृ- 'अन्तर्मुहूर्तात्परत' इति भिन्नमुहूर्तादूर्ध्वं 'चिन्ता' प्रागुक्तस्वरूपातथाघ्यानान्तरंवा भवेत्, तत्रेह न ध्यानादन्यद ध्यानं ध्यानान्तरं परिगृह्यते, किं तर्हि ? -भावनानुप्रेक्षात्मकं चेत इति, इदं च घ्यानान्तरं तदुत्तरकालभाविनि ध्याने सति भवति, तत्राप्ययमेव न्याय इतिकृत्वा घ्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्कमद्वारेण निरूपयन्नाह-'सुचिरमपि' प्रभूतमपि, कालमिति गम्यते, भवेत बहुवस्तुसङ्कमे सति ‘घ्यानसन्तानः' ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्क्रमः सञ्चरणमिति गाथार्थः इत्थं तावत सप्रसङ्गं घ्यानस्य सामान्येन लक्षणमुक्तम्, अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलभावंच संक्षेपतः प्रदर्शयन्नाह अझै रुदं धम्मं सुक्कं झाणाइ तत्थ अंताई। निव्वाणसाहणाईअवकारणमट्टरूदाई ।।५।। वृ- आर्तं रौद्रं धर्म्य शुक्लं, तत्र ऋतं-दुःखं तन्निमित्तो दढाध्यवसायः, ऋते भवभार्तं क्लिष्टमित्यर्थः, हिंसाद्यातिक्रौर्यानुगतं रौद्र, श्रुतचरणधर्मानुगतं धर्म्य, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम, अमूनि ध्यानानि वर्तन्ते, अधुना फलहेतुस्वमुपदर्शयति-तत्र' घ्यानचतुष्टये ‘अन्त्ये' चरमे सूत्रक्रमप्रामाण्याद्धर्मशुक्ले इत्यर्थः किं ? -'निर्वाणसाधने' इह निर्वृतिः निवाणं-सामान्येन सुखमभिधीयते तस्य साधने-करणे इत्यर्थः ततश्च 'अट्टेण' तिरिक्खग रुद्दज्झाणेण गम्मती नरयं । धम्मेण देवलोयं सिद्धिगसुक्कझाणेणं ।। ति - यदुक्तं तदपि न विरुध्यते, देवगतिसिद्धिगत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति, तथा भवकारणमातरौद्रे' इति तत्रभवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः- संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तिः तिर्यग्नरकभवग्रहइतिगाथार्थः । । साम्प्रतं यथोद्देशस्तथा निर्देश' इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्चस्वविषयलक्षणभेदतश्चतुर्द्धा, उक्तंचभगवतावाचकमुख्येन-“आर्तममनोज्ञानांसम्प्रयोगेतद्विप्रयोगाय स्मृतिसमन्वाहारौ ।। वेदनायाश्च ।। विपरीतंमनोज्ञादीनां । निदानं च ।। इत्यादि, तत्राऽऽघभेदप्रतिपादनायाह अमणुन्नाणं सद्दाइविसयवत्थूण दोसमइलस्स । धणियं विओगचितणमसंपओगानुसरणं च ।।६॥ वृ- ‘अमनोज्ञाना मिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः न मनोज्ञानि अमनोज्ञानि तेषां, केषामित्यत आह-'शब्दादिविषयवस्तूना मिति शब्दादयश्च ये विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तुनि तु तदाधारभूतानि रासभादीनि, ततश्च-शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेषां, किं ? सम्प्राप्तानां सतां धणियं' अत्यर्थ 'वियोगचिन्तनं विप्रयोगचिन्तेति योगः, कथं नु नामममैभिर्वियोगस्यादिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy