________________
९०
आवश्यक-मूलसूत्रम् -२- ४/२१ ज्ञापनार्थ चशास्त्रे विशेषणाभिधानमनुज्ञातमेवपूर्वमुनिभिरित्यलं विस्तरेणेति गाथार्थः ।।
जं थिरमज्झवसाणंतं झाणं जंचलं तयं चित्तं ।
तंहोज्ज भावना वा अनुपेहा वा अहव चिंता ।।२॥ वृ- 'यदि'त्युद्देशः स्थिरं-निश्चलम अघ्यवसानं-मन एकाग्रतालम्बनमित्यर्थः, तदिति निर्देशे, 'घ्यानं' प्रागनिरूपितशब्दार्थ, ततश्चैतदुक्तं भवति-यत स्थिरमध्यवसानं तद्ध्यानमभिधीयते, 'यच्चल' मिति यत्पुनरनवस्थितं तच्चितं, तच्चोधतस्त्रिधा भवतीति दर्शयति-तद्भवेद्भावना वे'ति तिच्चतंभवेद्भावना, भाव्यत इतिभावनाध्यानाभ्यासक्रियेत्यर्थः,वा विभाषायाम, ‘अनुप्रेक्षा वेति' अनु-पश्चाद्भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिघ्यानाद भ्रष्टस्य चित्तचेष्टेत्यर्थः, वा पूर्ववत् ‘अथवा चिन्ते' तिअथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तेतियाखलूक्तप्रकारद्वयरहिता चिन्तामनश्चेष्टा सा चिन्तेति गाथार्थः ।। इत्थं घ्यानलक्षणमोघतोऽभिधायाधुना घ्यानमेव कालस्वामिभ्यां निरूपयन्नाह
अंतोमुत्तमेतं चित्तावत्थाणमेगवत्थुमि ।
छउमत्थाणं झाणंजोगनिरोहो जिणाणंतु ।।३।। वृ-इह मुहूर्तः-सप्तसप्ततिलवप्रमाणः कालविशेषो भण्यते, उक्तं च
'कालो परमनिरुद्धो अविभज्जो तंतु जाण समयं तु । समया य असंखेज्जा भवंति ऊसासनीसासा ।। हठुस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो ।
एगेउसासनीसासे, एस पाणुत्ति वुच्चइ ।। सत्त पाणूणिसे थोवे, सत्त थोवाणि से लवे ।
लवाणंसत्तहत्तरीए, एस मुहुत्ते वियाहिए ।। अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमानं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेवकालं, किं? - 'चित्तावस्थान मिति चित्तस्य-मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानं, निष्प्रकम्पतया वृत्तिरित्थिर्यः, क्व ?- ‘एकवस्तुनि' एकम-अद्वितीयं वसन्त्यस्मिन गुणपर्याया इति वस्तु-चेतनादि एकं च तद्वस्तु एकवस्तु तस्मिन् २ ‘छद्मस्थानां घ्यान'मिति, तत्रछादयतीति छद्म-पिधानं तच्चज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था अकेवलिन इत्यर्थः, तेषांछद्मस्थानां, 'ध्यान' प्राग्वत्, ततश्चायं समुदायार्थः-अन्तर्मुहूर्तकालं यच्चित्तावस्थानमेकस्मिन वस्तुनि तच्छद्मस्थानां घ्यानमिति, 'योगनिरोधो जिनानां त्वि'ति तत्र योगाः- तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम्-“औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवारद्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीर व्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः" इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषां? - 'जिनानां' केवलिनां, तुशब्द एवकारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानं, चित्तस्यैवाभावाद्, अथवा योगनिरोधो जिनानामेव ध्यानं नान्येषाम, अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org