________________
अध्ययनं -४ - [ नि. १२७१]
८९
दिलक्षणमार्तं तेन, उत्सन्नवधादिलक्षणं रौद्रं तेन, जिनप्रणीतभाव श्रद्धानादिलक्षणं धर्म्यं तेन, अवधासम्मोहादिलक्षणं शुक्लं तेन, फलं पुनस्तेषां हि तिर्यग्ग्ररकदेवगत्यादिमोक्षाख्यमिति क्रमेण, अयं घ्यानसमासार्थः । व्यासार्थस्तु घ्यानशतकादवसेयः, -घ्यानशतकस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वात प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाहवीरं सुक्कज्झाणग्गिदटुकम्मिधणं पणमिऊणं । जोईसर सरन्नं झाणज्झयणं पवक्खामि ॥ १ ॥
वृ-वीरं शुक्लध्यानाग्निदग्धकर्मेन्धनं प्रणमय घ्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्र '२ गतिप्रेरणयोः' इत्यस्य विपूर्वस्याजन्तस्य विशेषेण रयति कर्म गमयति याति वेह शिवमिति वीरस्तं वीरं, किंविशिष्टं तमित्यत आह- शुचं क्लमयतीति शुक्लं, शोकं ग्लपयतीत्यर्थः, घ्यायतेचिन्त्यतेऽनेन तत्त्वमिति ध्यानम्, एकाग्रचित्तनिरोध इत्यर्थः, शुक्लं च तद घ्यानं च तदेव कर्मेन्धनदहनादग्निः शुक्लघ्यानाग्निः तथा मिथ्यादर्शनाविरतिप्रमादकषाययोगैः क्रियत इति कर्मज्ञानावरणीयादि तदेवातितीव्रदुःखानललनिबन्धनत्वादिन्धनं कर्मेन्धनं ततश्च शुक्लध्यानाग्निना दग्धं-स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स तथाविधस्तं, 'प्रणम्य' प्रकर्षेण मनोवाक्काययोगेर्नत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानाद घ्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्राधीयत इत्यध्ययनं, 'कर्मणि ल्युट्' पठ्यत इत्यर्थः, ध्यानप्रतिपादकमध्ययनं २ तद् याथात्म्यमङ्गीकृत्य प्रकर्षेण वक्ष्ये-अभिधास्ये इति, किंविशिष्टं वीरं प्रणमयेत्यत आह- 'योगेश्वरं योगीश्वरं वा' तत्र युज्यन्त इति योगाः- मनोवाक्कायव्यापारलक्षणाः तैरीश्वरःप्रधानस्तं, तथाहि अनुत्तरा एव भगवतो मनोवाक्कायव्यापारा इति, यथोक्तम्
'दव्वमनोजोएणं मननाणीणं अनुत्तराणं च । संसयवोच्छित्तिं केवलेण नाऊण सइ कुणइ ।। रिभियपयक्खरसरला मिच्छितरतिरिच्छसगिरपरिणामा ।
निव्वाणी वाणी जोयणनिहारिणी जंच ।। एक्काय अनेगेसिं संसयवोच्छेयणे अपडिभूया । नय निव्विज्जइ सोया तिप्पइ सव्वाउएणंपि ।। सव्वसुरेहिंतोवि हु अहिगो कंतो य कायजोगो से ।
तहवि य पसंतरूवे कुणइ सया पाणिसंधाए ।।
इत्यादि, युज्यते वाऽनेन केवलज्ञानादिना आत्मेति योगः-धर्मशुक्लध्यानलक्षणः स येषां विद्यत इति योगिनः साधवस्तैरीश्वरः, तदुपदेशेन तेषां प्रवृत्तेस्तत्सम्बन्धादिति, तेषां वा श्वरो योगीश्वरः, श्वरः प्रभुः स्वामीत्यनर्थान्तरं, योगीश्वरम, अथवा योगिस्मर्य-योगिचिन्त्यं ध्येयीमत्यर्थः, पुनरपि स एव विशेष्यते- शरण्यं, तत्र शरणे साधुः शरण्यस्तं-रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः, घ्यानाध्ययनं प्रवक्ष्यामीत्येतद व्याख्यातमेव । अत्राऽऽह-यः शुक्लघ्यानाग्निना दग्धकर्मेन्धनः स योगेश्वर एव यश्च योगेश्वरः स शरण्य एवेति गतार्थे विशेषणे, न, अभिप्रायापरिज्ञानाद, इह शुक्लघ्यानाग्निना दग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, नत्वसौ योगेश्वरः, वाक्कायातिशयाभावात, स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि, तथा चोभयपदव्यभिचारेऽज्ञात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org