________________
९२
आवश्यक - मूलसूत्रम् - २- ४ / २१ भाव ?, अनेन वर्त्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरणं, कथमेभिः सदैव सम्प्रयोगाभाव इति ?, अनेन चानागतकालग्रहः, चशब्दात पूर्वमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य सत इदं वियोगचिन्तनाघत आह- 'द्वेषभलिनस्य' जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य तदाक्रान्तमूर्तेरिति गाथार्थः । ।
उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभित्सुराह
तह सूलसीसरोगाइवेयणाएव (वि) जोगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ।। ७ ॥
वृ- 'तथे 'ति धणियम् - अत्यर्थमेव, शूलशिरोगवेदनाया इत्यत्र शूलशिरोरोगौ प्रसिद्धौ, आदिशब्दाच्छेषरोगातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना २, वेद्यत इति वेदना तस्याः, किं ? 'वियोगप्रणिधानं' वियोगे दृढाघ्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह- 'तदसम्प्रयोगचिन्ते 'ति तस्याः - वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता, कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादिति ?, चिन्ता चात्र घ्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेना तीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतैव, किंविशिष्टस्य सत इदं वियोगप्राणिधानाघत आह-तत्प्रतिकारे-चिकित्सायामाकुलं-व्यग्रं मनःअन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाघार्तघ्यानमिति । उक्तो द्वितीयो भेदः, इणं विसयाईण वेयणाए य रागरत्तस्स । अवियोगऽज्झवसाणं तह संजोगामिलासो व ।।८ ॥
-
वृ- 'इष्टानां' मनोज्ञानां विषयादीनामिति विषयाः पूर्वोक्ताः आदिशब्दाद वस्तुपरिग्रहः, तथा 'वेदनायाश्च' इष्टाया इति वर्तते, किम ? - अवियोगाध्यवसानमिति योगः, अविप्रयोगदृढाघ्यवसाय इति भावः, अनेन वर्तमानकालग्रहः, तथा संयोगाभिलाषश्चेति, तत्र 'तथेति' धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाषः कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात पूर्ववदतीतकालग्रह इति, किंविशिष्टस्य सत इदमवियोगाध्यवसानाघत आह-रागरक्तस्य, जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्यतद्भावितभूर्तेरिति गाथार्थः । उक्तस्तृतीयो भेदः, साम्प्रतंचतुर्थम् ।
देविंदचकवट्टित्तणाई गुणरिद्धिपत्थणमईयं ।
अहमं नियाणचिंतणमन्त्राणानुगयमच्चंतं ॥ ९ ॥
वृ- दीव्यन्तीति देवाः - भवनवास्यादयस्तेषामिन्द्राः प्रभवो देवेन्द्राः चमरादयः तथा चक्रं प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो - भरतादयः, आदिशब्दाद्बलदेवादिपरिग्रहः अमीषां गुणऋद्धयः देवेन्द्रचक्रवर्त्यादिगुणर्द्धयः, तत्र गुणाः सुरूपादयः ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तघाञ्चामयमित्यर्थः, किं तद् ? - 'अधमं' जघन्यं ‘निदानचिंतनं' निदानाघ्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह- किमितीदमधमम ?, उच्यते, यस्मादज्ञानानुतमत्यन्तं, तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा । विद्वच्चित्तं भवति च महत मोक्षकाङ्ककतानं, नाल्पस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः ।।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-