SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ४ - [ नि. १२७१] ८३ बीजभोजना तया, एवं हरितभोजनया, 'पच्छाकम्मियाए पुरेकम्मियाए' पश्चात कर्म यस्यां पश्चाज्जलोज्झनकर्म भवति पुरः कर्म यस्यामादाविति, 'अदिट्ठहडाए' त्ति अदृष्टाहृतयाअदृष्टोत्क्षेपमानीतयेत्यर्थः, तत्र च सत्त्वसङ्घट्टनादिनाऽतिचारसम्भवो, दगसंसृष्टाहृतया - उदकसम्बद्धानीतया हस्तमात्रगतोदकसंसृष्टया वा भावना, एवं रजः संसृष्टा हतया, नवरं रजः पृथिवीरजोऽभिगृह्यते, 'पारिसाडणियाए 'त्ति परिशाट:- उज्झनलक्षणः प्रतीत एव तस्मिन भवा पारिशाटनिका तया, 'पारिठ्ठावणियाए' त्ति परिस्थापनं-प्रदान भाजनगतद्रव्यान्तरोज्झनलक्षणं तेन निर्वृत्ता पारिस्थापनिका तया, एतदुक्तं भवति 'पारिट्ठावीणया खलु जेण भाणेण देइ भिक्खं तु । तंमि पडिओयणा जातं सहसा परिट्ठवियं ।।' 'ओहासणभिक्खाए 'त्ति विशिष्टद्रव्ययाचनं समयपरिभापया 'ओहासणंति भन्न' तत्प्रधाना या भिक्षा तया, कियदत्र भणिष्यामो ?, भेदानामेवंप्रकाराणां बहुत्वात, ते च सर्वेऽपि यस्मादुद्गमोत्पादनैषणास्ववतरन्त्यत आह- 'जं उग्गमेण' मित्यादि, यत्किञ्चिदशनाद्युद्गमेन-आधाकर्मादिक्षणेन उत्पादनया-धात्र्यादिलक्षणया एषणया शङ्कितादिलक्षणया अपरिशुद्धम् अयुक्तियुक्तं प्रतिगृहीतं वा परिभुक्तं वा यन्त्र परिष्ठापितं कथञ्चित प्रतिगृमहीतमपि यन्नोज्झितं परिभुक्तमपि च भावतोऽपुनःकरणादिना प्रकारेण यन्नोज्झितम एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य मिथ्या दुष्कृतमिति पूर्ववत् ।। एवं गोचरातिचारप्रतिक्रमणमभिधायाधुना स्वाध्यायाघतिचारप्रतिक्रमणप्रतिपादनायाऽऽह मू. (१९) पडिक्कमामि चाउक्कालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिलेहणयाए अप्पमज्जणाए दुप्पमज्जणाए अइक्कमे वइक्कमे अइयारे अनायारे जो मे देवसिओ अइआरो कओ तस्स मिच्छा दुक्कडं ।। वृ- प्रतिक्रमामि पूर्ववत् कस्य ? - चतुष्कालं दिवसरजनीप्रथमचरमप्रहरेष्वित्यर्थः, स्वाध्यायस्यसूत्रपौरुषीलक्षणस्य, अकरणतया अनासेवनया हेतुभूतयेत्यर्थः, यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः तथोभयकालं प्रथमपश्चिमपौरुषीलक्षणमं भाण्डोपकरणस्य पात्रवस्त्रादेः 'अप्रत्युपेक्षणया दुष्प्रत्युपेक्षणया' तत्राप्रत्युपेक्षणा मूलत एव चक्षुषाऽनिरीक्षणा दुष्प्रत्युपेक्षणा- दुर्निरीक्षणा तया, 'अप्रमार्जनया दुष्प्रमार्जनया' तत्राप्रमार्जना मूलत एव रजोहरणादिनाऽस्पर्शना दुष्प्रमार्जना त्वविधिना प्रमार्जनेति, तथा अतिक्रमे व्यतिक्रमे अतिचारे अनाचारे यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमित्येतत्प्राग्वत, नवरमतिक्रमादीनां स्वरूपमुच्यते - 'आधाकम्मनिमंतण पडिसुणमाणे अइक्कमो होइ । पयभेयाइ वइक्कम गहिए तइएयरो गिलिए ।। अस्य व्याख्या-आधाकर्मनिमन्त्रणे गृहीष्ये एवं प्रतिशृण्वति सति साधावतिक्रमःसाधुक्रियोल्लङ्घनरूपो भवति, यत एवम्भूतं वचः श्रोतुमपि न कल्पते, किं पुनः प्रतिपत्तुं ?, ततः प्रभृति भाजनोद्ग्रहणादौ तावदतिक्रमो यावदुपयोगकरणं, ततः कृते उपयोगे गच्छतः पदभेदादिर्व्यतिक्रमस्तावद यावदत्क्षिसं भोजनं दात्रेति, ततो गृहीते सति तस्मि॑िस्तृतीयः, अतिचार इत्यर्थः, तावद् यावद्वसतिं गत्वेर्यापथ प्रतिक्रमणाघुत्तरकालं लम्बनोत्क्षेपः, तत उत्तरकालमनाचारः, तथा चाह For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy