________________
८४
आवश्यक-मूलसूत्रम् -२- ४/१९ 'इतरो गिलिए'त्ति प्रक्षिप्ते सति कवले जनाचार इति गाथार्थः ।। इदं चाधाकर्मोदाहरणे सुखप्रतिपत्त्यर्थमक्रिमादीनांस्वरूपमुक्तम, अन्यत्राप्यनेनैवानुसारेण विज्ञेयमिति । अयं चातिचारः संक्षेपत एकविधः, संक्षेपविस्तरतस्तु द्विविधः त्रिविधो यावदसङ्ख्येयविधः संक्षेपविस्तरता पुनर्द्विविधः त्रिविधं प्रति संक्षेप एकविधं प्रति विस्तर इति, एवमन्यत्रापि योज्यं, विस्तरतस्त्वनन्तविधः ।
मू. (२०) पडिक्कमामि एगविहे असंजमे । पडिकमामि दोहिं बंधणेहिं-रागबंधणेण दोसबंधणेणं । प० तिहिं दंडेहिं मनदंडेणं वयदंडेणं कायदंडेणं । प० तिहिं गुत्तीहिं-मनगुत्तीए वयगुत्तीए कायगुत्तीए। __ वृ-प्रतिक्रमामिपूर्ववत, एकविधे-एकप्रकारे असंयमे-अविरतिलक्षणेसतिप्रतिषिद्धकरणादिना यो मयादेवसिकोऽतिचारः कृत इतिगम्यते, तस्य मिथ्यादुष्कृतमितिसम्बन्धः वक्ष्यतेच-सज्झाए नसज्झाइयं तस्स मिच्छामि दुक्कडं' एवमन्यत्रापि योजना कर्तव्या,प्रतिक्रामामि द्वाभ्यां बंधनाभ्यां हेतुभूताभ्यां योऽतिचारः, बद्धयतेऽष्टविधेन कर्मणा येन हेतुभूतेन तद्वन्धनमिति, तद्वन्धनद्वयं दर्शयति-रागबंधनं च द्वेषबन्धनंच, रागद्वेषयोस्तु स्वरूपं यथा नमस्कारे, बंधनत्वं चानयोः प्रतीतं,
'हाभ्यक्तशरीरस्य रेणुनाश्लिष्यते यथा गात्रम् ।
रागद्वेषाक्लिनस्य कर्मबन्धो भवत्येवम् ।।' प्रतिक्रमामि त्रिभिर्दण्डैः' दण्ड्यते-चारित्रैश्चर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः द्रव्यभावभेदभिन्नाः, भावदण्डैरिहाधिकारः, तैर्हेतुभूतैर्योऽतिचारः, भेदेन दर्शयति-मनोदण्डेन वाग्दण्डेन कायदण्डेन, मनःप्रभृतिमिश्चदुष्प्रयुक्तैर्दण्ड्यते आत्मेति, अत्रचोदाहरणानि-तत्थमनदंडे उदाहरणं-कोंकणगखमणओ, सो उड्डजाणू अहोसिरो चिंतितो अच्छइ, साहूणो अहो खंतो सुहज्झाणोवगओत्ति वंदंति, चिरेणसंलावंदेउमारखो, साहहिं पुच्छिओ, भणइ-खरोवाओवायति, जइ ते मम पुत्ता संपयं वल्लराणि पलीविज्जा तो तेसिं वरिसारते सरसाए भूमीए सुबह सालिसंपया होज्जा, एवं चिंतियं मे, आयरिएणवारिओ ठिओ,तो एवमाइजं असुइंमणेण चिंतेइ सो मनदंडो। वइदंडे उदाहरणं-साहू सन्नाभूमीओ आगओ, अविहीए आलोएइ-जहा सूयरवंदं दिलृति, पुरिसेहिं गंतुं मारियं ।। इदानि कायदंडे उदाहरणं-चंडरुद्दो आयरिओ, उज्जेनि बाहिरगामाओ अनुजाणपेक्खओ आगओ, सो य अईव रोसणो, तत्थ समोसरणे गणियाधरविहेडिओ जाइकुलाइसंपन्नो इन्भदारओ सेओ उवडिओ, तत्थ अन्नेहिं असद्दहंतेहि चंडरुदस्स पासं पेसिओ, कलिणा कलीघस्सउत्ति,सोतस्स उवढिओ, तेन सोतहेव लोयंकाउंपघाविओ, पञ्चूसे गामवच्चंताणं पुरओ सेहो पिट्ठओचंडरुद्दो, आवडिओरुट्ठो सेहं दंडेण मत्थए हणइ, कहं ते पत्थरो न दिह्रोत्ति?, सेहो सम्मं सहइ, आवस्सयवेलाएरुहिरावलितो दिट्टो, चंडरुदस्सतंपासिऊण मिच्छामि दुक्कडत्ति वेरग्गेण केवलनाणं उप्पन्नं, सेहस्सवि कालेन केवलनाणमुप्पन्नं ।।।
पडिक्कमामि तिहिं गुत्तीहिं- प्रतिक्रमामि तिसृभिर्गुप्तिभिः करणभूताभिर्योऽतिचारः कृत इति, तघथा-मनोगुप्त्या वाग्गुप्तया कायगुप्त्या, गुप्तीनांच करणता अतिचारं प्रति प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिना प्रकारेण, शब्दार्थस्त्वासां सामायिकवद्रष्टव्यः,
'मनगुत्तीए तहियं जिनदासो सावओय सेठिसुओ । सो सव्वराइपडिमं पडिवन्नो जाणसालाए ।।१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org