SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ८२ आवश्यक- मूलसूत्रम् - २- ४ /१७ अधुना सुप्तस्योच्यते- 'आउलमाउलाए 'त्ति आकुलाकुलया-ख्यादिपरिभोगविवाहयुद्धादिसंस्पर्शननानाप्रकारया स्वप्नप्रत्यया- स्वप्ननिमित्तया, विराधनयेति गम्यते, सा पूनर्मूलोत्तरगुणातिचारविषया भवत्यतो भेदेन तां दर्शयन्नाह इत्थीविप्परियासियाए 'त्ति स्त्रिया विपर्यासः स्त्रीविपर्यासः सब्रह्मासेवनं तस्मिन भवा स्त्रीवैपर्यासिकी तया, स्त्रीदर्शनानुराग-तस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तयाः एवं मनसाऽध्युपपातो मनोविपर्यासः तस्मिन भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपर्यासिक्या, रात्रौ पानभोजनपरिभोग एव तद्विपर्यासः, अनया हेतुभूतया य इत्यतिचारमाहइ भयेत्यात्मनिर्देशः, दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः - अतिक्रम इत्यर्थः कृतो- निर्वर्तितिः 'तस्स मिच्छामि दुक्कडं' पुर्ववत्, आह-दिवा शयनस्य निषिद्धत्वादसम्भव एवास्यातिचारस्य, न, अपवादविषयत्वादस्य, तथाहिअपवादतः सुप्यत एव दिवा अध्वानखेदादौ, इदमेव वचनं ज्ञापकम् ।। एवं त्वग्वर्तनास्थानातिचारप्रतिक्रमणममधियेदानीं गोचरातिचारप्रतिक्रमणप्रतिपादनायाऽऽह मू. (१८) पडिक्कमामि गोयरचरियाए भिक्खायरियाए उग्वाडकवाडउग्घाडणाए साणावच्छादारासंघट्टणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए असणाए पानभोयणाए बीयभोयणाए हरियभोयणाए पच्छेकम्मियाए पुरेकम्मियाए अदिट्ठहडाए दगडाए र संसडाए पारिसाडणियाए पारिठावणिआए ओहासणभिक्खाए जं उग्गमेण उप्पायनेसणाए अपरिसुद्धं परिगहियं परिभुत्तं वा जं न परिडुविअं तस्स मिच्छामि दुक्कडं । । वृ- प्रतिक्रमामि निवर्तयामि, कस्य ? गोचरचर्यायां- भिक्षाचर्यायां, योऽतिचार इति गम्यते, तस्येति योगः, गोश्चरणं गोचरः चरणं-चर्या गोचर इव चर्या गोचरचर्या तस्यां गोचरचर्यायां, कस्यां ?भिक्षार्थं चर्या भिक्षाचर्या तस्यां, तथाहि लाभालाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेषु कुलेष्विष्टानिष्टेषु वस्तुषु रागद्वेषावगच्छन भिक्षामटनीति, कथं पुनस्तस्यामतिचार ? - ‘उग्घाडकवाडउग्घाडणाए’ उद्घाटम्-अदत्तार्गलमीषतस्थगितं वा किं तत ? - कपाटं तस्योदघाटनंसुतरां प्रेरणम् उद्घाटकपाटोद्घाटनम् इदमेवोद्घाट कपाटोद्घाटना तया हेतुभूतया, इह चाप्रमार्जनादिभ्यो ऽतिचारः, तथा श्वानवत्सदारकसङ्घट्टनयेति प्रकटार्थं, मण्डीप्राभृतिकया बलिप्राभृतिकया स्थापनाप्राभृतिकया, आसां स्वरूपं ‘मंडीपाहुडिया साहुंमि आगए अग्गकूरमंडीए । तत्थ पवत्तणदोसो न कप्पए तारिसा सुविहियाणं । बलिपाहुडिया भन्नइ चउद्दिसिं काउ अच्चणियं ।। Jain Education International अग्र्गम व छोढूणं सित्थे तो देइ साहुणो भिक्खं । साविन कप्पर ठवणा भिक्खायरियाण ठविया उ ।। आधाकर्मादीनाम-उद्गमादिदोषाणामन्यतमेन शङ्किते गृहीते सति योऽतिचारः, सहसाकारे वा सत्यकल्पनीये गृहीत इति, अत्र च तमपरित्यजतोऽविधिना वा परित्यजतो योऽतिचारः, अनेन प्रकारेणानेषणया हेतभूतया, तथा 'पानभोयणाए 'त्ति प्राणिनो-रसजादयः भोजने - दध्योदनादौ सङ्घट्ट्यन्ते-विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्राभृतिकायां सा प्राणिभोजना तया, तेषां च सङ्घट्टनादि दातृग्राहकप्रभवं विज्ञेयम, अत एवातिचारः, एवं 'बीयभोयणाए' बीजानि भोजने यस्यां सा For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy