________________
८१
अध्ययनं -४- [नि. १२७१] सर्वे ये मया जीवा विराधिना-दुःखेन स्थापिताः, एकेन्द्रियः-पृथिव्यादयः, द्वीन्द्रियाः-कृम्यादयः, त्रीन्द्रियाः-पिपीलिकादयः, चतुरिन्द्रिया-भ्रमादयः, पञ्चेन्द्रिया-मूषिकादयः, अभिहता-अभिमुख्येन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्तावा, वर्तिताः-पुञ्चीकृताः,धूल्या वा स्थगिताइति, श्लेषिताःपिष्टाः, भूम्यादिषुवा लगिताः, सङ्घतिता-अन्योऽन्यंगात्रैरेकत्र लगिताः, सङ्घट्टिता-मनाक्स्पृष्टाः, परितापिताः-समन्ततः पीडिताः, क्लामिताः-समुदधातं नीताः ग्लानिमापादिता इत्यर्थः, अवद्राविता-उत्रासिताः स्थानातस्थानान्तरंसङ्क्रामिताः स्वस्थानात परंस्थानं नीताः, जीविताद् व्यपरोपिताः, व्यापादिता इत्यर्थः, एवं यो जातोऽतिचारस्तस्य, एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कडं' इत्यनेन निष्ठाकालमाह, मिथ्या दुष्कृतं पूर्वपद, एवं तस्येत्युभययोजना सर्वत्र कार्या । इत्थंगमनातिचारप्रतिक्रमणमुक्तम्, अधुनात्वग्वर्तनस्थानातिचारप्रतिक्रमणप्रतिपादयन्नाह
मू. (१७) इच्छामि पडिक्कमिउंपगामसिज्जाएनिगामसिज्जाएसंथाराउव्वट्टणाए परिवट्टणाए आउंटणपसारणाए छप्पइसंघट्टणाए कूइए कक्कराइए छिइए जंभाइए आमोसे ससरकखामोसे आउलमाउलाए सोअणवत्तिआए इत्थीविप्परिआसिआए दिट्ठीविप्परिआसिआए मणविप्परिआसिआए पाणभोयणविप्परिआसिआएजो मे देवसिओअइआरोकओ तस्स मिच्छामि दुक्कडं।।
वृ- इच्छामि प्रतिक्रमितुं पूर्ववत्, कस्येत्याह-प्रकामशय्यया हेतुभूतया यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, अनेन क्रियाकालभाह, मिच्छामि दुक्कडं' इत्यनेन तुनिष्ठाकालमेवेतिभावना, एवं सर्वत्र योजना कार्येति, 'शीङ्स्वप्ने' अस्य यप्रत्ययान्तस्य 'कृत्यल्युटो बहुल' मिति वचनात शयनं शय्या प्रकामं-चातुर्यामं शयनं प्रकाशय्या शेरतेऽस्यामिति वा शय्यासंस्तारकादिलक्षणा प्रकामा-उत्कटा शय्या प्रकामशय्या-संस्तारोत्तरपट्टकातिरिक्ता प्रावरणमधिकृत्य कल्पत्रयातिरिक्ता वा तया हेतुभूतया, स्वाध्यायाघकरणतश्चेहातिचारः, प्रतिदिवसं प्रकामशय्यैव निकामशय्योच्यते तया हेतुभूतया, अत्राप्यतिचारः पूर्ववत, उद्धर्तनं तत्प्रथमतया वामनापर्चेन सुप्तस्य दक्षिणपार्श्वेन वर्तनमुद्वर्तनमुद्वर्तनमेवोद्वतृना तया, परिवर्तनं पुनर्वामपार्श्वेनैव वर्तनं तदेवपरिवतृनातया, अत्राप्यप्रमृज्य कुर्वतोऽतिचारः,आकुञ्चनंगात्रङ्कोचलक्षणं तदेवाकुञ्चना तया, प्रसारणम्-अङ्गानां विक्षेपः तदेव प्रसारणा तया, अत्र च कुक्कुट्टिदृष्टान्तप्रतिपादितं विधिमकुर्वतोऽतिचारः, तथा चोक्तम्'कुक्कुडिपायपसारेजह आगासे पुणोवि आउंटे । एवं पसारिऊणं आगासि पुणोवि आउंटे ।। अइकुंडिय सियताहे जहियंपायस्सपण्हिया ठाइ । तहियंपमज्जिऊणंआगासेणंतुणनेऊणं ।। पायं ठावित्तुतहिं आगासे चेव पुणोवि आउंटे । एवं विहिमकरेंते अइयारो तत्थ से होइ ।। षट्पदिकानां-यूकानां सङ्घट्टनम-अविधिना स्पर्शनंषटपदिकासचट्टनंतदेव षटपदिकासङ्घटना तया, तथा 'कूइए'त्ति कूजिते सति योऽतिचारः, कूजितं-कासितं तस्मिन अविधिना मुखवस्त्रिकां करं वा मुखेऽनाधाय कृत इत्यर्थः, विषमा धर्मवतीत्यादिशय्यादोषोच्चारणं सकर्करायितमुच्यते तस्मिन सति योऽतिचारः, इह चाऽऽर्तध्यानजोऽतिचारः, क्षुते-अविधिना जृम्भितेऽविधिनैव आमर्षणम आमर्षः-अप्रमृज्य करेण स्पर्शनमित्यर्थः तस्मिन, सरजसकामर्षे सति, सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं तत्संस्पर्शे सतीत्यर्थः, एवं जाग्रतोऽतिचारसम्भवमधिकृत्योक्तम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org