________________
आवश्यक- मूलसूत्रम् - २- ४/१५ श्रद्धानप्ररूपणालक्षणानां यत खण्डितं - देशतो भग्नं यद्विराधितं सुतरां भग्नं, न पुनरेकान्ततोSभावमापादितं, तस्य खण्डनविराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैतद्गोचरस्य ज्ञानादिगोचरस्य च दैवसिकातिचारस्य, एतावता क्रियाकालमाहः तस्यैव 'मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमाह- मिथ्येति-प्रतिक्रमामि दुष्कृतमेतदकर्तव्यमित्यर्थः, अत्रेयं सूत्रस्पर्शिकगाथानि. (१२७१) पडिसिद्धाणं करणे किञ्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा विवरीयपरूवणाए य ।।
८०
वृ- 'प्रतिषिद्धानां ' निवारितानामकालस्वाध्यायादीनामतिचाराणां 'करणे' निष्पादने आसेवन इत्यर्थः, किं ? - प्रतिक्रमणमिति योगः, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, 'कृत्यानाम्' आसेवनीयानां कालस्वाध्यायादीनां योगानाम् 'अकारणे' अनिष्पादनेऽनासेवने प्रतिक्रमणम्, अश्रद्धाने च तथा केवलिप्ररूपितानां पदार्थानां प्रतिक्रमणमिति वर्तते, विपरीतप्ररूपणायां च अन्यथा पदार्थकथनायां च प्रतिक्रमणमिति गाथार्थः । । अनया च गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि, तद्यथा - सामायिकसूत्रे प्रतिपिद्धौ रागद्वेषो तयोः करणे कृत्यस्तु तन्निग्रहस्तस्याकरणे सामायिकं मोक्षकारणमित्यश्रद्धाने असमभावलक्षणं सामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणमिति, एवं मङ्गलादिसूत्रेष्वप्योज्यं चत्वारो मङ्गलमित्यत्र प्रतिषिद्धोऽमङ्गलाघ्यवसायस्तत्करण इत्यादिना प्रकारेण, एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तं, साम्प्रतमस्यैव विभागेनोच्यते, तत्रापि गमनागमनातिचारमकित्याऽऽह
मू. (१६) इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए गमणागमणे पाणक्कमणे बीयक्कमणे हरियक्कमणे ओसाउत्तिंगपणगदगमट्टिमक्कडासंताणासंकमणे जे मे जीवा विराहिया एगिंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिआ अभिहआ वत्तिआ लेसिआ संधाइआ संघट्टिआ परिआविआ किलाभिआ उद्दविआ ठाणाओ ठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं । ।
वृ- इच्छामि अभिलषामि प्रतिक्रमितुं निवर्तितुम, ईर्यापथिकायां विराधनायां योऽतिचार इति गम्यते, तस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुक्कडडं' इत्यनेन निष्ठाकालमिति,
रणमर्या गमनमित्यर्थः, तत्प्रधानः पन्था र्यापथः तत्र भवैर्यापथिकी तस्यां, कस्यामित्यत आहविराध्यन्ते-दुःखं स्थाप्यन्ते प्राणिनोऽनयेति विराधनाक्रिया तस्यां विराधनायां सत्यां योऽतिचार इति वाक्यशेषः, तस्येति योगः, विषयमुपदर्शयन्नाह-गमनं चागमनं चेत्येकवद्भावस्तस्मिन, तत्र गमनं स्वाध्यायादिनिमित्तं वसतेरिति, आगमनं प्रयोजनपरिसमाप्तौ पुनर्वसतिमेवेति, तत्रापि यः कथं जातोऽतिचार इत्यत आह- 'पाणक्कमणे' प्राणिनो द्वीन्द्रियादयस्त्रसा गृह्यन्ते, तेषामाक्रमणं - पादेन पीडनं प्राण्याक्रमणं, तस्मिन्निति, तथा बीजाक्रमणे, अनेन बीजानां जीवत्वमाहइ हरिताक्रमणे, अनेन तु सकलवनस्पतेरेव, तथाऽवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानसङ्क्रमणे सति, तत्रावश्यायः - जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिवारणार्थमिति, एवमन्यत्रापि भावनीयं, उत्तिङ्गा-गद्दभाकृतयो जीवाः कीटिकानगराणि वा पनकः - फुल्लि दगमृत्तिकाचिखाल्लम, अथवा दकग्रहणादप्कायः, मृत्तिकाग्रहणात पृथ्वीकायः, मर्कटसन्तानः कोलिकजालमुच्यते, ततश्चावश्यायश्चत्तिङ्गश्चेत्यादि द्वन्द्वः, अवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानास्तेषां सङ्क्रमणं- आक्रमणं तस्मिन, किंबहुना !, कियन्तो भेदेनाऽऽख्यास्यन्ते ?,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org