SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १२७०] ७९ 'मानसिउत्तिमनःकृतइत्यर्थः-ऊर्ध्व सूत्रादुत्सूत्रः सूत्रानुक्त इत्यर्थः, मार्गः क्षायोपशमिको भावः, ऊर्ध्वमार्गादुन्मार्गः,क्षायोपशिकभावत्यागेनौदयिक,भावसङ्क्रमइत्यर्थः, कल्पनीयः न्यायः कल्पो विधिः आचारः कल्प्यः-चरणकरणव्यापारः न कल्प्यः-अकल्प्यः-अकल्प्यः, अतद्रूप इत्यर्थः, करणीयः सामान्येन कर्तव्यः न करणीयः-अकरणीयः, हेतुहेतुमद्भावश्चात्र, यत एवोत्सूत्रः अत एवोन्मार्ग इत्यादि, उक्तस्तावत्कायिको वाचिकश्च, अधुना मानसमाहह-दुष्टोध्यातो दुध्यातिःआरौिद्रलक्षण एकाग्रचित्ततया, दुष्टो विचिन्तितो दुर्विचिन्तितः-अशुभ एव चलचित्तया, यत एवेत्थम्भूतः अत एवासौ न श्रमणप्रायोग्यः अश्रमणप्रायोग्यः तपस्व्यनीचत इत्यर्थः यत एवाश्रमणप्रायोग्योऽत एवानाचारः, आचरणीयः आचारः न आचारः अनाचारः-साधूनामनाचरणीयः यत एव साधूनामनाचरणीयः अत एवानेष्टव्यः-मनागपिमनसाऽपिन प्रार्थनीय इति, किंविषयोऽयमतिचार इत्याह नाणे दंसणे चरित्ते' ज्ञानदर्शनचारित्रविषयः, अधुनाभेदेन व्याचष्टे'सुए'त्ति श्रुतविषयः, श्रुतग्रहणं मत्यादिज्ञानोपलक्षणं, तत्र विपरीतप्ररूपणाऽकालस्वाध्यायादिरतिचारः, 'सामाइय(ए)'त्ति सामायिकविषयः, सामायिकग्रहणात सम्यक्त्वसामायिकचारित्रसामायिकग्रहणं, तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, चारित्रसामायिकातिचारं तु भेदेनाह'तिण्हं गुत्तीण'मित्यादि, तिसृणां गुप्तीनां, तत्र प्रविचाराप्रविचाररूपा गुप्तयाः, चतुर्णा कषायाणांक्रोधमानमायालोभानां, पञ्चानां महाव्रतानां-प्राणातिपातादिनिवृत्तिलक्षणानां, षण्णां जीवनिकायानां पृथिवीकायिकादीनां, सप्तानां पिण्डैपणानांअसंसृष्टादीनां, ताश्चैमाः 'संसट्ठमसंसट्ठा उद्धडतह होइअप्पलेवा य । उग्गहिआपग्गहिआउज्झिय तहहोइ सत्तमिआ ।।" तत्रासंसृष्टा हस्तमात्राभ्यां चिन्त्या, 'असंसट्टे हत्थे असंसट्टे मत्ते, अखरडियमिति वुत्तं भवइ' एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थमन्यथा पाठः, संसृष्टा ताभ्यमेव चिन्त्या, 'संसढे हत्थे संसट्टे मत्ते, खरडिइत्ति वुत्तं होइ, एवं गृह्णतो द्वितीया, उद्धता नाम स्थालादौ स्वयोगेन भोजनजातमुद्धतं, ततः ‘असंसट्ठे हत्थे असंसट्टे मत्तने संसढेवा मत्तेसंसट्टे हत्थे' एवं गृह्णतस्तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं-पृथुकादि गृह्णतश्चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिषूपहितमेव भोजनजातं ततो गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवेलागां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातंभो(भु)क्त्वा वा स्वहस्तादिना तगृह्णत इति भावना षष्ठी, उज्झितधर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्घन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमी, एष खलु समासार्थः, व्यासार्थस्तु, ग्रन्थान्तरादवसेयः, सप्तानां पानैषणानां केचित् पठन्ति, ता अपि चैवम्भूता एव, नवरं चतुर्थी नानात्वं, तत्राप्यायामसौवीरादि निर्लेपं विज्ञेयमिति, अष्टानां प्रवचनमातृणां, ताश्चाष्टौ प्रवचनमातरः-तिस्त्रो गुप्तयः तथा पञ्च समितयः, तत्रप्रवीचाराप्रवीचाररूपा गुप्तयः, समितयः प्रवीचाररूपा एव, तथा चोक्तम् ___ “समिओ नियमा गुत्तो गुत्तो समियत्तणमि भइयव्वो । कुसलवइमुदीरितो जंवयगुत्तोऽवि समिओऽवि ।।" नवानांब्रह्मचर्यगुप्तीनां-वसतिकथादीनाम्, आसांस्वरूपमुपरिष्टाद्वक्ष्यामः, दशविधे-दशप्रकारे श्रमणधर्मे-साधुधर्मे क्षान्त्यादिके, अस्यापि स्वरूपमुपरिष्टाद्वक्ष्यामः, अस्मिन् गुप्त्यादिषु च ये श्रामणा योगः-श्रमणानामेते श्रामणास्तेषां श्रामणानां योगानां-व्यापाराणां सम्यक्प्रतिसेवनJain Education International ___www.jainelibrary.org For Private & Personal Use Only
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy