________________
अध्ययनं - ४ - [ नि. १२६१]
नि. (१२६१)
७५
'डक्को जेन मनुसो होइ महासागरुव्व दूप्पूरो । तं सव्वविससमुदयं कह धिच्छसि तं महानागं ? ।।
वृ- दष्टो येन मनुष्यो भवति 'महासागर इव' स्वयम्भूरमण इव दुष्पूर: 'तम्' इत्थम्भूतं ‘सर्वविषसमुदयं’ सर्वव्यसनैकराजमार्ग कथं ग्रहीष्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः । । अयं तु लोभसर्पः ।।
नि. (१२६२ )
एए ते पावाही चत्तारिवि कोहमानमयलोभा । जेहि सया संतत्तं जरियमिव जयं कलकलेइ ।।
बृ- एते ते ‘पापाहयः’ पापसर्पाश्चत्वारोऽपि क्रोधमानमायालोभा यैः सदा सन्तप्तं सत् ज्वरितमिव ‘जगद्’ भुवनं ‘कलकलायति' भवजलधौ क्वथयतीति गाथार्थः ।।
नि. (१२६३)
एएहिं जो खज्जइ चउहिवि आसीविसेहि पावेहिं ।
विसनिग्धायणहेउं चरामि विविहं तवोकम्मं ।।
वृ- एभिर्य एव खाद्यते चतुर्भिरपि आशीविषैः भुजङ्गैः पापैः अशोभनैः तस्य अवश्य सतः नरकपतनं भवति 'नास्ति' न विद्यते 'स' तस्यालम्बनं किञ्चिद् येन न पततीति गाथार्थः ॥ एवमभिधायेते मुक्त्ताः । सो खइओ पडिओ मओय, पच्छा देवो भणइ किहजायं ? न ठाइहत्ति वारिजंतो पुव्वभणिया य ते मित्ता अगदे छुमंत ओसहाणि य, न किंचि गुणं करेंति पच्छा तस्स सयणो पाएहिं पडिओजिआवेहत्ति, देवो भणइ एवं चेव अहंपि खइयो, जइ एरिंसि चरियं अनुचिरइ तो जीवइ जइ नानुपालेइ तो उज्जीवि ओवि पुनो मरइ, तं च परियं गाथाहिं कहेइ
नि. (१२६४)
एएहिं अहं खइओ चउहिवि आसीविसेहि पावेहिं ।
विसनिग्धायण हेउं चरामि विविहं तवोकम्मं ॥
वृ- एभिरहं 'खइओ' त्ति भक्षितश्चतुर्भिरपि 'आशीविषैः ' भुजङ्गैः घोरै रौद्रैः 'विषनिर्घातनहेतुः ' विषनिर्धातननिमित्तं 'चरामि' आसेवयामि 'विविधं' विचित्रं चतुर्थषष्ठाष्टमादिभेदं 'तपः कर्म' तपः क्रियामिति गाथार्थ: ।। नि. (१२६५)
सेवामि सेलकाननसुसाणसुन्नघररुक्खमूलाई ।
पावाहीनं तेसिं खणमविन उवेमि वीसंभं ।।
वृ- 'सेवामि' भजामि शैलकाननश्मशानशून्यगृहवृक्षमूलानि शैलाः पर्वताः काननानिदूरवर्तिवनानिशैलाश्च काननानि चेत्यादि द्वन्द्वः, 'पापाहीनां' पापसर्पाणां तेषां क्षणमपि 'नोपैमि' नयामि 'विश्रम्भं' विश्वासमिति गाथार्थः । ।
नि. (१२६६ )
अच्चाहारो न सहे अइनिद्धेण विसया उइज्जति । जायामायाहारो तंपि कामं न इच्छामि ।।
वृ- 'अत्याहारः' प्रभूताहारः 'न सहे' त्ति प्राकृतशैल्या न सहते न क्षमते, मम स्निग्धमल्पं च भोजनं भविष्यत्येतदपि नास्ति, यतः - अतिस्निग्धेन हविः प्रचुरेण 'विषयाः' शब्दादयः 'उदीर्यन्ते' उद्रेकावस्थां नीयन्ते, ततश्च यात्रामात्राहारो यावता संयमयात्रोत्सर्पति तावन्तं भक्षयामि, तमपि प्रकामं पुनर्नेच्छामीति गाथार्थः । । नि. (१२६७)
उत्सन्नकयाहारो अहवा विगईविवज्जियाहारो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org