SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७४ आवश्यक - मूलसूत्रम् - २- ४ /१० क्रोधसमन्वितस्तरुणदिवाकरनयन एव भवतीत्यादि । । नि. (१२५५ ) मेरुगिरितुंगसरिसो अट्ठफणो जमलजुगलजीहालो । दाहिणपासंमि ठिओ मानेन वियट्टई नागो ।। वृ- मेरुगिरेस्तुङ्गानि - उच्छ्रितानि तैः सदृशः मेरुगिरितुङ्गसदृशः, उच्छ्रित इत्यर्थः, अष्टौ फणा यस्य सोऽष्टफणः जातिकुलरुपवललाभबुद्धिवाल्लभ्यकश्रुतानि द्रष्टव्यानि तत्त्वतो यमोमृत्युर्मृत्युहेतुत्वात् 'ला आदाने' यमं लान्तीति- आददतीति यमला, यमला युग्मजिह्वा यस्य स यमलयुग्मजिह्नः, करण्डकन्यासमधिकृत्याऽऽह-दक्षिणपार्श्वे स्थितः, दक्षिणदिग्न्यासस्तु दाक्षिण्यवत् उपरोधतो मानप्रवृत्तेः, अत एवाह- 'मानेन' हेतुभूतेन व्यावर्तते 'नागः' सर्प इति गाथार्थः । । डको जेन मनूसो थद्धो न गणेइ देवरायमवि । तं मेरुपव्वयनिभं कह घिच्छसि तं महानागं ? ।। नि. ( १२५६ ) वृ- 'डक्को' दष्ट: 'येन' सर्पेण मनुष्यः स्तब्धः सन्न गणयति 'देवराजानमपि' इन्द्रमपि, 'तम्' इत्थम्भूतं मेरुपर्वतनिभं कथं गृहीष्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः । । नि. (१२५७) सललियविल्लहलगई सत्थि अलंछणफणंकि अपडागा | मायामइआ नागी नियडिकवडवचणाकुसला ।। वृ- सललिता - मृद्वी वेल्लहला-स्फीता गतिर्यस्याः सा सललितवेल्लहलगतिः, स्वस्तिकलाञ्छनाङ्किता फणापताका यस्याः सा स्वस्तिकलाञ्छनाङ्कितफणापताकेति वक्तव्ये गाथाभङ्गभयादन्यथा पाठः, मायात्मिका नागी 'निकृतिकपटवञ्चनाकुशला' निकृतिः- आन्तगे विकारः कपटंवेषपरावर्तादिर्बाह्यः आभ्यां या वञ्चना तस्यां कुशला-निपुणेति गाथार्थः । । नि. (१२५८ ) तं च सि वालग्गाही अनोसहिबलो अ अपरिहत्थो य । साय चिरसंचियविसा गहणंभि वने वसइ नागी ।। - इयमेवम्भूता नागी रौद्रा, त्वं च 'व्यालग्राही' सर्पग्रहणशीलः 'अनौषधिवलश्च' औपधिबलरहितः 'अपरिहत्थश्च' अदक्षश्च, सा च चिरसञ्चितविषा 'गहने' सङ्कुले 'वने' कार्यजाले वसति नागीति गाथार्थः ।। नि. (१२५९) इयं च मायानागी ।। नि. (१२६० ) - होही ते विनिवाओ तीसे दाढंतरं उवगयस्स । अप्पोसहिमंतबलो न हु अप्पाणं चिगिच्छिहिसि ।। वृ- भविष्यति ते विनिपातः तस्या दंष्ट्रान्तरम् 'उपगतस्य' प्राप्तस्य, अल्पं- स्तोकं औषधिमन्त्रबलं यस्य तव स त्वं अल्पौषधिमन्त्रबलः, यतश्चैवमतो नैवाऽऽत्मानं चिकित्सिष्यसीति गाथार्थः । । उत्थरमाणो सव्वं महालओ पुत्रमेहनिग्घोसो । उत्तरपासंमि ठिओ लोहेण वियट्टई नागो ।। वृ- ‘उत्थरमाणो’त्ति अभिभवन् 'सर्वे' वस्तु, महानालयोऽस्येति महालयः, सर्वत्रानिवारितत्वात्, पूर्णः पुष्करावर्त्तस्येव निर्घोषो यस्य स तथोच्यते, करण्डकन्यासमधिकृत्याह - उत्तरपार्श्वे स्थितः, उत्तरदिग्न्यासस्तु सर्वोत्तरो लोभ इत ख्यापनार्थम्, अत एव लोभेन हेतुभूतेन 'वियट्टइ' त्ति व्यावर्तते रुष्यति वा 'नागः' सर्प इति गाथार्थः । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy