________________
अध्ययनं - ४ - [ नि. १२५१]
७३
कश्चित्तच्चनिकादिर्भवति न तं मनसाऽनुमोदयति तूष्णीं वाऽऽस्ते, वाचा न सुष्ट्वारब्धं कृतं वेति भणति, कायेन नखच्छोटिकादि प्रयच्छति, एवमसंयमादिष्वपि विभाषा कार्येति गाथार्थः । । इत्थं मिथ्यात्वादिगोचरं भावप्रतिक्रमणमुक्तम्, इह च भवमूलं कषायाः, तथा चोक्तम्कोहोय माणो य अनिग्गहीया, माया य लोहो य पवड्ढमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुनब्भवस्स ।।
अतः कषायप्रतिक्रमण एवोदाहरणमुच्यते - केई दो संजया संगारं काऊण देवलोयं गया, इओ य एगमि नयरे एगस्स सिट्टिस्स भारिया पुत्तनिमित्तं नागदेवयाए उववासेण ठिया, ताए भणियं-होहिति ते पुत्तो देवलोयचुओत्ति, तेसिमेगो चइता तीए पुत्तो जाओ, नागदत्तोत्ति से नामं कथं, वावत्तरिकलाविसारओ जाओ, गंधवं च से अइप्पियं, तेन्न गंधव्वनागदत्तो भण्णइ, तओ सो मित्त जनपरिवारिओ सोक्खमनुभवइ, देवो य नं बहुसो बहुसो बोहेइ, सो नसंबुज्झइ, ताहे सो देवो अव्वत्तलिंगेणं न नज्जइ जहेस पव्वइयगो, जेण से रजोहरणाइ उवगरणं नत्थि, सप्पे चत्तारि करंडयहत्थो गहेऊण तस्स उज्जानियागयस्स य अदूरसामंतेन्न वीईवयइ, मित्तेहिं से कहियं-एस सप्पखेल्लावगोत्ति, गओ तस्स मूलं, पुच्छर - किमेत्थं ?, देवो भणइ सप्पा, गंधव्वनागदत्तो भणइ-रमामो, तुमं ममच्चएहि अहं तुहच्चएहिं, देवो तस्सच्चएहिं रमति, खइओवि न मरइ, गंधव्वनागदत्तो अमरिसिओ भणइ - अहंपि रमामि तव संतिएहिं सप्पेहिं, देवो भणइ-मरसि जइ खज्जसि, जाहे निबंधेन लग्गो ताहे मंडलं आलिहित्ता देवेन चउद्दिसिंपि करंडगा ठविता, पच्छा से सव्वं सयणमित्तपरियणं मेलिऊण तस्स समक्खं इमं भणियाइओनि. (१२५२)
गंधव्वनागदत्तो इच्छइ सप्पेहि खिल्लिउं इहयं । इ कहिंविखज्ज इत्थ हु दोसो न कायव्वो ।।
वृ- 'गन्धर्वनागदत्त' इति नामा 'इच्छति' अभिलषति सर्पैः सार्द्धं क्रीडितुम् अत्र स खलु-अयं यदि 'कथञ्चित्' केनचित्प्रकारेण 'खाद्यते' भक्ष्यते ' इत्थ हु' अस्मिन् वृत्तान्ते न दोषः कर्तव्यो मम भवद्भिरिति गाथार्थः । । यथा चतसृष्वपि दिक्षु स्थापितानां सर्पाणां माहात्म्यमसावकथयत् तथा प्रतिपादयन्नाह -
नि. (१२५३)
तरुणदिवायरनयनो विजुलयाचंचलग्गजीहालो । घोरमहाविसदाढो उक्का इव पज्जलियरोसो ।।
वृ- तरुणदिवाकरवद्-अभिनवोदितादित्यवन्नयने- लोचने यस्य स तरुणदिवाकरनयनः, रक्ताक्ष इत्यर्थः, विद्युल्लतेव चञ्चलाऽग्रजिह्वा यस्य स विद्युल्लताचञ्चलाग्रजिह्वाकः घोरा रौद्रा महाविषाःप्रधानविषयुक्ता दंष्ट्रा - आस्यो यस्य स घोरमहाविषदंष्ट्रः, उल्केव - चुड्डलीव प्रज्वलितो रोषो यस्य स तथोच्यत इति गाथार्थः । ।
नि. (१२५४)
डक्को जेन मनूसो कयमकयं न याणई सुबहुयंपि । अद्दिस्समानमच्चुं कह घिच्छसि तं महानागं ? ।।
वृ- 'डक्को' दष्ट: 'येन' सर्पेण मनुष्यः स कृतं किञ्चिदकृतं वा न जानाति सुबह्वपि, 'अदृश्यमानमृत्युम्' अदृश्यमानोऽयं करण्डकस्यो मृत्युर्वर्तते, मृत्युहेतुत्वान्मृत्युः, यतश्चैवमत कथं ग्रहीष्यसि त्वं ‘महानागं' प्रधानसर्पम् ?, इति गाथार्थ: ।। अयं च क्रोधसर्पः, पुरुषे संयोजना स्वबुद्ध्या कार्या,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International