________________
७२
सति सामान्येन प्रतिक्रमणं भवति, अयं पुनर्विशेषः -
'उच्चारं पासवणं भूमीए वोसिरितु उवउत्तो । वोसरिऊण य तत्तो इरियावहिअं पडिक्कमइ ।। वोसिरइ मत्तगे जइ तो न पडिक्कमइ मत्तगं जो उ । साहू परिट्ठवे नियमेण पडिकमे सोउ ।। खेलं सिंधाणं वाऽपडिलेहिय अप्पमज्जिउं तहय । वोसिरिय पडिक्कम तं पिय मिच्छुक्कडं देह ।।' प्रत्युपेक्षितादिविधिविवेके तु न ददाति, तथाऽऽभोगेऽनाभोगे सहसात्कारे सति योऽतिचारस्तस्य प्रतिक्रमणम्
आवश्यक - मूलसूत्रम् - २- ४ /१०
'आभोगो जाणतेन्न जोऽइयारो कओ पुणो तस्स । जायम्मिवि अनुतावे पडिकमणेऽजाणया इयरो ।।' अनाभोगसहसात्कारे इत्थंलक्षणे
'पुव्विं अपासिऊणं छूढे पायंमि जं पुणो पासे । न य तरइ नियत्तेउं पायं सहसाकरणमेयं । । ' अस्मिंश्च सति प्रतिक्रमणम, अयं गाथाक्षरार्थः । । इदं पुनः प्राकरणिकं'पडिलेहेउं पमिज्जिय मत्तं पानं च वोसिरेऊणं । वसहीकयवरमेव उनियमेण पडिक्कमे साहू । । हत्थसया आगंतुं गंतुं च मुहुत्तगं जहिं चिट्ठे । पंथे वा वञ्चंतो नदिसंतरणे पडिक्कमइ ।।' गतं प्रतिक्रमणद्वारम् अधुना प्रतिक्रान्तव्यमुच्यते, तत्पुनरोधतः पञ्चधा भवतीति, - नि. (१२५० ) मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ।।
वृ- मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यशिवेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसहसात्कारैर्मिथ्यात्वं गतस्तत्प्रतिक्रान्तव्यमित्यर्थः, तथैव 'असंयमे' असंयमविषये प्रतिक्रमणम, असंयमः प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्तते, ‘कषायाणां’ प्राग्निरूपितशब्दार्थानां क्रोधादीनां प्रतिक्रमणं, कषायाः प्रतिक्रान्तव्याः, 'योगानां च' मनोवाक्कायलक्षणानाम 'अप्रशस्तानाम' अशोभनानां प्रतिक्रमणं, ते च प्रतिक्रान्तव्या इति । नि. (१२५१ ) संसार पडिक्कमणं चउव्विहं होइ आनुपुवीए । भावपडिकमणं पुन तिविहं तिविहेण नेयव्वं ।।
बृ- संसरणं संसार:- तिर्यग्नरनारकामरभवानुभूतिलक्षणस्तस्य प्रतिक्रमणं 'चतुर्विधं' चतुष्प्रकारं भवति 'आनुपूर्व्या' परिपाट्या, एतदुक्तं भवति-नारकायुषो ये हेतवो महारम्भादयस्तेषां (षामा) भोगानाभोगसहसात्कारैर्यद्वर्तितमन्यथा वा प्ररूपितं तस्य प्रतिक्रान्तव्यम, एवं तिर्यग्ग्ररामवेष्वपि विभाषा, नवरं शुभराभरायुर्हेतुभ्यो मायाघनासेवनादिलक्षणेभ्यो निराशंसेनैवापवर्गाभिलाषिणाऽपि न प्रतिक्रान्तव्यं, 'भावपडिकमणं पुण तिविहं तिविहेण नेयव्वं' तदेतदनन्तरोदितं भावप्रतिक्रमणं पुनस्त्रिविधं त्रिविधेनैव नेतव्यं, पुनः शब्दस्यैवकारार्थत्वात्, एतदुक्तं भवति
मिच्छत्ताइ न गच्छइ न य गच्छावेइ नानुजाणेई ।
जं मनवइकाएहिं तं भणियं भावपडिकमणं ।।
'मनसा न गच्छति' न चिन्तयति यथा शोभनः शाक्यादिधर्मः वाचा नाभिधत्ते, कायेन न तैः सह निष्प्रयोजनं संसर्गं करोति, तथा 'न य गच्छावेइ' मनसा न चिन्तयति कथमेष तच्च निकादिः स्यात् ?, वाचा न प्रवर्तयति यथा तच्चनिकादिर्भव, कायेन न तच्चनिकादीनामर्पयति, 'नानुजाणइ '
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International