SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -३- [नि. १२३०] साहू खवंति कम्मं अनेगभवसंचियमनंतं ।। वृ- “एवम्' अनन्तरदर्शितं कृतिकर्मविधि' वन्दनविधियुञ्जानाश्चरणकरणोपयुक्ताः साधवः क्षपयन्ति कर्म ‘अनेकभवसञ्चितं' प्रभूतभवोपात्तमित्यर्थः, कियद् ?-अनन्तमिति गाथार्थः ।। उक्तोऽनुगमः, नया सामायिकनिर्युक्ताविव द्रष्टव्याः ।। कृत्वा वन्दनविवृत्तिं प्राप्तं यत्कुशलमिह मया तेन । साधुजनवन्दनमलंसत्त्वा मोक्षाय सेवन्तु ।। अध्ययनं ३ समाप्तम मुनिदीपरत्नसागरेण संशोधिता सम्पादिता-आवश्यकसूत्रे तृतीयअध्ययनं सनियुक्तिभाष्यटीका परसिमाप्तम् अध्ययनं-४ प्रतिक्रमणं) वृ-व्याख्यातं वन्दनाघ्ययनम्, अधुना प्रतिक्रमणाध्ययनभारभ्यते-अस्य चायमभिसम्बन्धः, अनन्तराध्ययनेऽहंदुपदिष्टसामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपादितम, इह पुनस्तदकरणता दिनैव स्खलितस्यैव निन्दा प्रतिपाघते, यद्वा वन्दनाघ्ययने कृतिकर्मरूपायाः साधुक्तेस्तत्त्वतः कर्मक्षय उक्तः, यथोक्तम् विनओवयार मानस्सभंजणा पूयणा गुरुजनस्स । तित्थयराण य आणा सुअधम्माऽऽराहणाऽकिरिया ।। प्रतिक्रमणाध्ययने तुमिथ्यात्वादिप्रतिक्रमणद्वारेण कर्मनिदाननिषेधः प्रतिपाद्यते, वक्ष्यति, च "मिच्छत्तपडिक्कमणं तहेव अस्संजमेवि पडिक्कमणं । कस्सायाण पडिक्कमणंजोगाण य अप्पसत्थाणं ।। अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवेत्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्तम्, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीवुणा गुरोनिवेदनीयं, तच्च वन्दनापूर्वमित्यतोऽनन्तराध्ययने तन्निरूपितम, इह तु निवेद्य भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्येतत प्रतिपाद्यते, इत्थमनेनानेकरूपेण सम्बन्धेनाऽऽयातस्स्य प्रतिक्रमणाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र च नामनिष्पन्ने निक्षेपे प्रतिक्रमणाघ्ययनमिति, तत्र प्रतिक्रमणं निरूप्यते-'प्रति' इत्ययमुपसर्गः प्रतीपाद्यर्थे वर्तते, 'कमुपादविक्षेपे' अस्य ल्युडन्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति भवति, एतदुक्तं भवति- शुभयोगेभ्योऽशुभयोगान्तर क्रान्तस्य शुभेष्वेव प्रतीपंप्रतीकूलं वा क्रमणप्रतिक्रमणमिति, उक्तंच "स्वस्थानाद यत्परस्थानं,प्रमादस्य वशागतः । तत्रैव क्रमणंभूयः, प्रतिक्रमणमुच्यते ।। क्षायोपशमिकाभावादौदयिकस्य वशंगतः । तत्रापिच स एवार्थः, प्रतिकूलगमात्स्मृतः ।। प्रति प्रतिक्रमणं वा प्रतिक्रमणं, शुभयोगेषु प्रति प्रति वर्तनमित्यर्थः, उक्तंच "प्रति प्रति वर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy