________________
६०
आवश्यक-मूलसूत्रम् -२- ३/१० साधूनामिति, यापना द्विविधा-द्रव्यतो भावतश्च, द्रव्यत औषधा दिना कायस्य, भावतस्त्विन्द्रियनोइन्द्रियोपशमेन शरीरस्य, क्षामणा द्रव्यतो भावतश्च द्रव्यतः कलुषास्यैहिकापायभीरोः भावतः संवेगापन्नस्य सम्यग्दृष्टेरिति, आह चनि. (१२२३) अव्वाबाह: दुविहं दव्वे भावेयजत्तजवणा य ।
अवराहखामणावियसवित्थरत्थं विभासिज्जा ।। वृ- एवं शेषघदेष्वपि निक्षेपादि वक्तव्यम, इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्तः नियुक्तिकृताऽपिस एव व्याख्यातः, अधुना वन्द्यगतविधिप्रतिपादनायाह नियुक्तिकारःनि. (१२२४) छंदेनऽनुजाणामि तहत्ति तुझंपि वट्टई एवं ।
अहमविखामेमि तुमे वयणाइंवंदनरिहस्स ।। वृ. छन्दसा अनुजानामि तथेति युष्माकमपि वर्तते एवमहमपि क्षमयामि त्वां, वचनानि 'वन्दनार्हस्य' वन्दनयोग्यस्य, विषयविभागस्तु पदार्थनरूपणायां निदर्शित एवेति गाथार्थः ।। नि. (१२२५) तेनवि पडिच्छियव्वं गारवरहिएणसुद्धहियएण ।
किइकम्मकारगस्सा संवेगं संजणंतेणं।। वृ. 'तेन' वन्दनाhण एवं प्रत्येष्टव्यम्, अपिशब्दस्यैवकारार्थत्वाद्धयादिगौरवरहितेन, 'शुद्धहृदयेन' कषायविप्रमुक्तेन, 'कृतिकर्मकारकस्य' वन्दनकर्तुः संवेगं जनयता, संवेगाःशरीरादिपृथग्भावो मोक्षौत्सुक्यं वेति गाथार्थः । । इत्थं सूत्रस्पर्शनियुक्त्या व्याख्यातं सूत्रम्, उक्तः पदार्थः पदविग्रहश्चेति, साम्प्रतंचालना, तथा चाहनि. (१२२६) आवत्ताइसुजुगवं इह भणिओ कायवायवावारो।
दुण्हेगया व किरिया जओ निसिद्धा अउ अजुत्तो ।। वृ- इहाऽऽवर्तादिषु, आदिशब्दादावश्यिक्यादिपरिग्रहः, 'युगपद्' एकदा ‘भणितः' उक्तः कायवाग्व्यापारः, तथा च सत्येकदा क्रियाद्वयप्रसङ्गः, द्वयोरेकदा च क्रिया यतो निषिद्धाऽन्यत्र उपयोगद्वयाभावाद्, अतोऽयुक्तः स व्यापार इति, ततश्च सूत्रं पठित्वा कायव्यापारः कार्य इति, नि. (१२२७) भिन्नविसयं निसिद्धं किरियादुगमेगया न एगंमि ।
जोगतिगस्स विभंगिय सुत्ते किरिया जओ भणिया ।। वृ-इह विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम् एकदा यथोत्प्रेक्षते सूत्रार्थे नयादिगोचरमटति च, तत्रोत्प्रेक्षायां यदोपयुक्तो न तदाऽटने यदा चाटने न तदोत्प्रेक्षायामिति, कालस्य सूक्ष्मत्वाद्, विलक्षणविषया तु योगत्रयक्रियाऽप्यविरुद्धा, यथोक्तम्-‘भंगियसुयं गुणंतो वट्टइ तिविहेऽवि जोगंमी'त्यादि, गतंप्रत्यवस्थानं,नि. (१२२८) सीसो पढमपवेसे वंदिउमावस्सिआएँ पडिक्कीमउं ।
बितियपवेसंमि पुणो वंदइ किं ? चालना अहवा ।। नि. (१२२९) जह दूओ रायाणं नमिउं कज्जं निवेइउं पच्छा ।
वीसज्जिओवि वंदिय गच्छइ साहूवि एमेव ।। वृ- इदं प्रत्यवस्थानं, उक्तम्, साम्प्रतं कृतिकर्मविधिसंसेवनाफलं समाप्तावुपदर्शयन्नाहनि. (१२३०) एवं किइकम्मविहिं जुंजंता चरणकरणमुवउत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org