________________
अध्ययनं -३. [नि. १२२८]
५९ वृ-इच्छाच अनुज्ञापना अव्याबाधं च यात्रा यापना च अपराधक्षामणाऽपि च षट् स्थानानि भवन्ति वन्दनके ।। तत्रेच्छाषड़िवधा, यथोक्तम्नि. (१२२९) नामंठवणादविए खित्ते काले तहेव भावे य ।
एसो खलु इच्छाए निक्खेवो छव्विहो होइ ।। वृ-नामस्थापने गतार्थे, द्रव्येच्छा सचित्तादिद्रव्याभिलाषः, अनुपयुक्तस्य वेच्छामीत्यादि भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः, कालेच्छारजन्यादिकालाभिलाषः
रयणिमहिसारिया उचोरा परदारिया य इच्छंति ।
तालयरा सुभिक्खं बहधन्ना केइदुभिक्खं ।। भावेच्छा प्रशस्तेतरभेदा, प्रशस्ता ज्ञानाद्यभिलाषाः, अप्रशस्ता स्रावाद्यभिलाष इति, अत्र तु विनेयभावेच्छयाऽधिकारः, क्षमादीनां तु पदानां गाथायामनुपन्यस्तानां यथासम्भवं निक्षेपादि वक्तव्यं,क्षुण्णत्वाद्ग्रन्थविस्तरभयाच नेहोक्तमिति । उक्ता इच्छा, इदानीमनुज्ञा,साचषड्विधानि.(१२२०) नामंठवणा दविए खित्तेकाले तहेव भावे य ।
एसो उअणुनाए निक्खेवो छव्विहो होइ ।। वृ-नामस्थापने गतार्थे, द्रव्यानुज्ञा लौकिकी लोकोत्तरा कुप्रावचनिकी च, लौकिकी सचित्तादिद्रव्यभेदात्रिविधा, अश्वभूषितयुवतिवैडूर्याद्यनुज्ञेत्यर्थः, लोकोत्तराऽपि त्रिविधाकेवलशिष्यसोपकरणशिष्यवस्त्राद्यनुज्ञा, एवं कुप्रावचनिकी, वक्तव्या, क्षेत्रानुज्ञा या यस्य यावतः क्षेत्रस्य यत्र वा क्षेत्रे व्याख्यायते क्रियते वा, एवं कालानुज्ञाऽपि वक्तव्या, भावानुज्ञा आचारधनुज्ञा, भावानुज्ञयाऽधिकारः, अत्रान्तरे गाथायामनुपात्तस्याप्यक्षुण्णत्वादवग्रहस्य निक्षेपःनि.(१२२१) नामंठवणा दविए खित्तेकाले तहेव भावे य ।
एसो उ उग्गहस्सा निक्खेवो छव्विहो होइ ।। वृ-सचित्तादिद्रव्यावग्रहणंद्रव्यावग्रहः, क्षेत्रावग्रहो यो यत्क्षेत्रमवगृह्णति, तत्रचसमन्ततः सक्रोशं योजनं, कालावग्रहो यो यं कालमवगृह्णति, वर्षासु चतुरो भासान ऋतुबद्धे मासं, भावावग्रहः प्रशस्तेतरभेदः,प्रशस्तोज्ञानाद्यवग्रहः, इतरस्तु क्रोधाद्यवग्रह इति, अथवाऽवग्रहः पञ्चधा'देविंदरायगिहवइसागरिसाधम्मिउग्गहो तह य । पंचविहो पन्नत्तो अवगहो वीयरागेहिं ।। अत्रभावावग्रहेण साधर्मिकावग्रहेण चाधिकारः
आयप्पमाणमित्तो चउद्दिसिंहोइ उग्गहो गुरुणो ।
अणणुन्नातस्स सया न कप्पए तत्थ पइसरिउं ।। ततश्च तमनुज्ञाप्य प्रविशति, आह च नियुक्तिकारःनि. (१२२२) बाहिरखित्तंमि ठिओ अनुनवित्ता मिउग्गहं फासे ।
उग्गहखेत्तं पविसे जाव सिरेणं फुसइ पाए ।। वृ-बहिःक्षेत्रे स्थितः अनुज्ञाप्य मितावग्रहं स्पृशेतरजोहरणेन, पुनश्चावग्रहक्षेत्रं प्रविशेत, कियडूरं यावदित्याह-यावच्छिरसा स्पृशेत् पादविति गाथार्थः ।। अव्याबाधं द्रव्यतो भावतश्च द्रव्यतः खगाद्याघातव्याबाधाकारणविकलस्य भावतः सम्यग्दृष्टेश्चारित्रवतः, अत्रापि कायादिनिक्षेपादि यथासम्भवं स्वबुद्धया वक्तव्यं, यात्रा द्रव्यतो भावतश्च, द्रव्यस्तापसादीनां स्वक्रियोत्सणं भावतः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org