________________
५८
आवश्यक-मूलसूत्रम् -२- ३/१० गुरुर्भणति-युष्माकमपि वर्तते ?, मम तावदुत्सर्पति भवतोऽप्युत्सपतीत्यर्थः, पुनरप्याह विनेयोयापनीयं चेन्द्रियनोइन्द्रियोपशमादिना प्रकारेण भवतां?, शरीरमिति गम्यते, अत्रान्तरे गुरुराहएवमाम, यापनीयमित्यर्थः, पुनराह विनेयः-'क्षमयामि' मर्षयामि क्षमाश्रमणेति पूर्ववत् दिवसेन निर्वृत्तो दैवसिकस्तं व्यतिक्रमम्-अपराधं, दैवसिकग्रहणं रात्रिकाधुपलक्षणार्थम्, अत्रान्तरे गुरुर्भणति-अहमपि क्षमयामि दैवसिकं व्यतिक्रमं प्रमादोद्भवमित्यर्थः, ततो विनेयः प्रणम्यैवं क्षामायित्वाऽऽलोचनाhण प्रतिक्रमणार्हेण च प्रायश्चित्तेनात्मानं शोधयन्नत्रान्तरेऽकरणतयोत्थायावग्रहानिर्गच्छन् यथा अर्थोव्यवस्थितस्तथा क्रियया प्रदर्शयन्नावश्यिक्येत्यादिदण्डकसूत्रं भणति, अवश्यकर्तव्यैश्चरणकरणयोगैर्निवृत्ता आवश्यिकी तयाऽऽसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्य प्रतिक्रामामि, विनिवर्तयामीत्यर्थः, इत्थं सामान्येनाभिधाय विशेषेण भणति-क्षमाश्रमणानां व्यावर्णितस्वरूपाणां सम्बन्धिन्या दैवसिक्या' दिवसेन निवृत्तया ज्ञानाद्यायस्य शातना आशातना तया, किंविशिष्टया?
त्रयस्त्रिंशदन्यतरया, आशातनाश्चयथा दशासु, अत्रैव वाऽनन्तराध्ययने तथा द्रष्टव्याः, ‘ताओ पुण तित्तीसंपिआसायणाओइमासुचउसु मूलासायणासुसमोयरंतिदव्वासायणाए ४, दव्वासायणा राइनिएणसमं जंतो मणुण्णंअप्पणा भुंजइ एवं उवहिसंथारगाइसु विभासा, खित्तासायणा आसन्नं गंताभवइराइनियस्स,कालासायणा राओवा वियालेवावाहरमाणस्स तुसिणीए चिट्ठइ,भावासायणा आयरियं तुमं तुमंति वत्ता भवइ, एवं तित्तीसंपि चउसु दव्वाइसु समोयरंति' 'यत्किञ्चिन्मिथ्यया' यत्किञ्चिदाश्रित्य मिथ्यया, मनसा दुष्कृतामनोदुष्कृता तया प्रद्वेषनिमित्तायेत्यर्थः, वाग्दुष्कृतया' असाधुवचननिमित्तया, 'कायदुष्कृतया' आसन्नगमनादिनिमित्तया, 'क्रोधये तिक्रोधवत्येति प्राप्ते अशदिराकृतिगणत्वात अच्प्रत्ययान्तत्वात 'क्रोधया' क्रोधानुगतया, 'मानया' मानानुगतया, 'मायया' मायानुगतया, 'लोभया' लोभानुगतया, अयं भावार्थ:- क्रोधाद्यनुगतेन या काचिद्नयभ्रंशादिलक्षणा आशातना कृता तयेति, एवं दैवसिकी भणिता,
अधुनेहभवान्यभवगताऽतीतनागतकालसङ्गहार्थमाह-सर्वकालेन-अतीतादिना निर्वृत्ता सार्वकालिकी तया, सर्व एव मिथ्योपचाराः-मातृस्थानगर्भाः क्रियाविशेषा यस्यामितिसमासस्त्या, सर्वधर्माः-अष्टौ प्रवचनमातरः तेषामतिक्रमणं-लङ्घनं यस्यां सा सर्वधर्मातिक्रमणा तया, एवम्भूतयाऽऽशातनयेति, निगमयति-यो मयाऽतिचारः-अपराधः ‘कृतो' निर्वर्तितः 'तस्य' अतिचारस्य हे क्षमाश्रमण! युष्मत्साक्षिकं प्रतिक्रामामि-अपुनःकरणतया निवर्तयामीत्यर्थः, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं प्रशान्तेन भवोद्विग्नेन चेतसा, तथा गर्हाम्यात्मानं युष्मत्साक्षिकं व्युत्सृजाभ्यात्मानंदुष्टकर्मकारिणंतदनुमतित्यागेन, सामायिकानुसारेण च निन्दादिपदार्थोन्यक्षेण वक्तव्यः एवं क्षामयित्वा पुनस्तत्रस्थ एव भणति-'इच्छामिखमासमणो' इत्यादिसर्व द्रष्टव्यमित्येवं, नवरमयं विशेषः-'खामेमि खमासमणो' इत्यादि सर्व सूत्रमावश्यिक्या विरहितं तत पादपतित एव भणति, शिष्यासम्मोहार्थं सूत्रस्पर्शिकगाथाः स्वस्थाने खल्वनादत्य लेशतस्तदर्थकथनयैव पदार्थो निदर्शितः साम्प्रतं सूत्रस्पर्शिकगाथया निदर्शयन्नाहनि. (१२१८) इच्छा य अनुन्नवणा अव्वाबाहं च जत्तजवणा य ।
अवराहखामणावि यछट्ठाणा हुंति वंदनए ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org