SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ३ - [ नि. १२१७] वृ- तल्लक्षणं चेदं संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा !! तत्रास्खलितपदोच्चारणं संहिता, सा च इच्छामि खमासमणो वंदिउं जावणिज्जाए निसीहिआए' इत्यवेसूत्रोच्चारणरूपा, तानि चामूनि सर्वसूत्राणि इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिज्जो भे किलामो पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिराभि । अधुना पदविभागः इच्छामि क्षमाश्रमण ! वन्दितुं यापनीयया नैषेधिक्या अनुजानीत मम मितावग्रहं नैषेधिकी अधः कायं कायसंस्पर्श क्षमणीयो भवता क्लमः अल्पक्लान्तानां बहुशुभेन भवतां दिवसो व्यतिक्रान्तः ?, यात्रा भवतां ? यापनीयं च भवतां ?, क्षमयामि क्षमाश्रमण ! दैवसिकं व्यतिक्रमं आवश्यक्या प्रतिक्रमामि क्षमाश्रमणानां दैवसिक्या आशातनया त्रययस्त्रिंशदन्यतरया यत्किञ्चिन्मिथ्यया मनोदुष्कृतया वचनदुष्कृतया कायदुष्कृतया क्रोधया मानया मायया लोभया सर्वकालिक्या सर्वमिथ्योपचारया सर्वधर्मातिक्रमणया अशातनया यो मयाऽतिचारः कृतस्तस्य क्षमाश्रमण ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि । ५७ साम्प्रतं पदार्थः पदविग्रहश्च यथासम्भवं प्रतिपाद्यते तत्र 'इवु इच्छायाम्' इत्वस्योत्तमपुरुषैक वचनान्तस्य इच्छामीति भवति, 'क्षमूष् सहने ' इत्यस्याऽन्तस्य क्षमा, 'श्रमु तपसि खेदे च' अस्य कर्तरि ल्युट श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्याऽऽमन्त्रणं, वन्देस्तुमनप्रत्ययान्तस्य वन्दितुं, 'या प्रापणे' अस्य ण्वन्तस्य कर्तर्यनीयच्, यापयतीति यापनीया, तया, 'षिधुगत्याम्' अस्य निपूर्वस्य धञि निषेधनं निषेधः निषेधेन निर्वृत्ता नैषेधिकी, प्राकृतशैल्या छान्दसत्वाद्वा नैषेधिकेत्युच्यते, एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययव्युत्पत्त्या वक्तव्यः, विनेयासम्मोहार्थ तु न ब्रूमः, अयं च प्रकृतसूत्रार्थः - अवग्रहाद्बहिः स्थितो विनेयोऽर्द्धावनतकायः करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाह- 'इच्छामि' अभिलषामि हे क्षमाश्रमण ! ' वन्दितुं' नमस्कारं कर्तु भवन्तमिति गम्यते, यापनीयया-यथाशक्तियुक्तया नैषेधिक्याप्राणातिपातादिनिवृत्तया तन्वा शरीरेणेत्यर्थः, अत्रान्तरे गुरुर्व्याक्षेपादियुक्तः 'त्रिविधेने 'ति भणति, ततः शिष्यः संक्षेपवन्दनं करोति, व्याक्षेपादिविकलस्तु 'छन्दसे 'ति भणति, ततो विनेयस्तत्रस्थ एवमाह'अनुजानीत' अनुजानीध्वं अनुज्ञां प्रयच्छथ, 'मम' इत्यात्मनिर्देशे, कं ?- मितश्चासाववग्रहश्चेति मितावग्रहस्तं चतुर्दिशमिहाचार्यस्यात्मप्रमाणं क्षेत्रमवग्रहस्तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति अनुजानामि, ततः शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तल्ललाटं च कराभ्यां संस्पृशन्निदं भणति - अधस्तातकायः अधःकायः - पादलक्षणस्तमधः कायं प्रति कायेन निजदेहेन संस्पर्शः कायसंस्पर्शस्तं करोमि, एतच्चानुजानीत, तथा क्षमणीयः - सह्यो भवताम अधुना 'क्लमो' देहग्लानिरूपः, तथा अल्पं - स्तोकं क्लान्तं क्लमो येषां तेऽल्यक्लान्तास्तेषामल्पक्लान्तानां, बहु च तच्छुभं च बहुशुभं तेन बहशुभेन, प्रभूतसुखेनेत्यर्थः, भवतां दिवसो व्यतिक्रान्तो ?, युष्माकमहर्गतमित्यर्थः, अत्रान्तरे गुरुर्भणति तथेति, यथा भवान् ब्रवीति, पुनराह विनेयः - 'यात्रा' तपोनियमादिलक्षणा क्षायिकमिश्रौपशमिकभावलक्षणा वा उत्सर्पति भवताम् ?, अत्रान्तरे For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy