________________
६२
-
-
आवश्यक-मूलसूत्रम् -२- ४/१० निःशल्यस्य यतेर्यत्तद्वाज्ञेयं प्रतिक्रमणम् ।। इह च यथा करणात कर्मकोंः सिद्धिः, तद्व्यतिरेकेण करणत्वानुपपत्तेः, एवं प्रतिक्रमणादपि प्रतिक्रामकप्रतिक्रान्तव्यसिद्धिरित्यतस्त्रितयमप्यभिधित्सुराह नियुक्तिकारःनि. (१२३१) पडिकमणं पडिकमओ पडिकमियव्वं च आनुपुव्वीए।
तीए पच्चुप्पन्ने अनागएचेव कालंमि ।। वृ-'प्रतिक्रमणं' निरूपितशब्दार्थं, तत्र प्रतिक्रामतीति प्रतिक्रमकः कर्ता, प्रतिक्रान्तव्यंचकर्मअशुभयोगलक्षणम्, 'आनुपूर्व्या' 'परिपाट्या, 'अतीते' अतिक्रान्ते प्रत्युत्पन्ने' वर्तमाने 'अनागते चैव' एष्ये चैव काले, प्रतिक्रमणादि योज्यमिति वाक्यशेषः । आह-प्रतिक्रमणमतीतविषयं, यत् उक्तम्- ‘अतीतंपडिकमामि पडुप्पन्नं संवरेमिअनागयं पञ्चक्खामि त्ति तत्कथमिह कालत्रये योज्यते इति ?, उच्यते, प्रतिक्रमणशब्दो ह्यत्राशुभयोगनिवृत्तिमात्रार्थः सामान्यः परिगृह्यते, तथा च सत्यतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेवेति, प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविषयमपिप्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेवेति न दोष इति गाथाक्षरार्थः ।। साम्प्रतं प्रतिक्रामकस्वरूपंप्रतिपादयन्नाहनि.(१२३२) जीवो उ पडिक्कमओ असुहाणं पावकम्मजोगाणं ।
झाणपमत्था जोगाजे तेन पडिक्कमे साहू ।। वृ- 'जीवः' प्राग्निरूपितशब्दार्थः, तत्र प्रतिक्रामतीति प्रतिक्रामकः, तुशब्दो विशेषणार्थः, न सर्व एव जीवः प्रतिक्रामकः, किं तर्हि ? -सम्यग्दृष्टिरुपयुक्तः, केषां प्रतिक्रमकः ? - 'अशुभानां पापकर्मयोगानाम्' अशोभनानां पापकर्मव्यापाराणामित्यर्थः, आह-पापकर्मयोगा अशुभा एव भवन्तीति विशेषणानर्थक्यं,न, स्वरूपान्वाख्यानपरत्वादस्य, प्रशस्तौ चतौ योगौच प्रशस्तयोगौ, घ्यानं च प्रशस्तयोगौ च घ्यानप्रशस्तयोगा ये तानधिकृत्य ‘न प्रतिक्रमेत' न प्रतीपं वर्तेत साधुः, अपितुतानसेवेत,मनोयोगप्राधान्यख्यापनार्थे पृथग्ध्यानग्रहणं, प्रशस्तयोगोपादानच्च ध्यानमपि धर्मशुक्लभेदं प्रशस्तभवगन्तव्यम्, आह-'यथोदेशं निर्देश' इति न्यायमुल्लङ्घय किमिति प्रतिक्रमणमनभिधाय प्रतिक्रामक उक्तः?, तथाऽऽद्यगाथागतमानुपूर्वीग्रहणं चातिरिच्यत इति, उच्यते, प्रतिक्रमकस्याल्पवक्तव्यात कर्बधीनतवाच्च क्रियाया इत्यदोषः, इत्थमेवोपन्यासः कस्मान्न कृत इतिचेत प्रतिक्रमणाध्ययननामनिष्पन्ननिक्षेपप्रधानत्वात्तस्येत्यलं विस्तरेणेति गाथार्थः ।।
उक्तः प्रतिक्रमकः, साम्प्रतंप्रतिक्रमणस्यावसरः, तच्छब्दार्थपर्यायाचिख्यासुरिदमाहनि. (१२३३) पडिकमणं पडियरणा परिहरणा वारणा नियत्तीय ।
निंदा गरिहा सोही पडिकमणं अट्ठहा होइ ।। वृ- 'प्रतिक्रमणं' तत्त्वतो निरूपितमेव, अधुना भेदतो निरूप्यते, तत्पुनर्नामादिभेदतः षोढा भवति, तथा चाऽऽहनि. (१२३४) नामं ठवणादविए खित्ते काले तहेव भावे य ।
एसो पडिकमणस्सा निक्खेवो छव्विहो होइ ।। वृ-तत्रनामस्थापने गतार्थे, द्रव्यप्रतिक्रमणमनुपयुक्तसम्यग्दृष्टेलब्ध्यादिनिमित्तंवा उपयुक्तस्य वा निह्नवस्य पुस्तकादिन्यस्तं वा, क्षेत्रप्रतिक्रमणं यस्मिन क्षेत्रे व्यावर्ण्यते क्रियते वा यतो वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org