________________
आवश्यक - मूलसूत्रम् - २- ३/१० प्रमादस्थानानि येषु विपीदन्ति पार्श्वस्थादयस्तानि तानि 'उपबृंहिनान भवन्ति' समर्थितानि भवन्तिअनुमतानि भवन्ति, तत्प्रत्ययश्च बन्ध इति गाथार्थः । । यस्मादेतेऽपायास्तस्मात पार्श्वस्थादयो न वन्दनीयाः, साधव एव वन्दनीया इति निगमयन्नाह
नि. (११९३ )
दंसणनाणचरित्ते तवविनए निच्चकालभुज्जुत्ता । एए उ वंदणिज्जा जे जसकारी पवयणस्स ।।
वृ- दर्शनाज्ञानचारित्रेषु तथा तपोविनययोः 'नित्यकालं' सर्वकालम् 'उद्युक्ता' उद्यता एत एव वन्दनीयाः, ये विशुद्धमार्गप्रभावनया यशःकारिणः प्रवचनस्येति गाथार्थः ।। अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाह
नि. (११९४ ) किइकम्मं च पसंसा संविग्गजनंमि निज्जरट्ठाए । जे जे विरईठाणा ते ते उबवूहिया हंति ।।
५०
वृ- 'कृतिकर्म' वन्दनं प्रशंसा च' बहुश्रुतो विनीतः पुण्यभागित्यादिलक्षणा संविग्नजने 'निर्जरार्थाय' कर्मक्षयाय कथं ? - यानि (यानि) विरतिस्थानानि येषु वर्तन्ते संविग्नास्तानि तानि 'उपबृंहितानि भवन्ति' अनुमतानि भवन्ति, तदनुमत्या च निर्जरा, संविग्नाः पुनर्द्विधा द्रव्यतो भावतश्च, द्रव्यसंविग्ना मृगाः पत्रेऽपि चलति सदोत्त्रस्तचेतसः, भावसंविग्नास्तु साधवस्तैरिहाधिकार इति गाथार्थ: । गतं सप्रसङ्गं नित्यवासद्वारमिति व्याख्याता सप्रपञ्चं पच्चानां कृतिकर्म इत्यादिद्वारगाथा, निगमयतोक्तमोधतो दर्शनाद्युपयुक्ता एव वन्दनीया इति ।
अधुना तानेवाऽऽचार्यादि-भेदतोऽभिधित्सुराहनि. (११९५ )
एएसिं किइकम्मं कायव्वं निज्जरट्ठाए । ।
वृ- आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां कृतिकर्म कर्तव्यं निर्जरार्थे, तत्र चाऽऽचार्यः सूत्रार्थोभयवेत्ता लक्षणादियुक्तश्च, उक्तं च
न तु सूत्रं यत उक्तम् -
आयरिय उवज्झाए पव्वत्ति धेरे तहेव रायनिए ।
सुत्तत्थविऊ लक्खणजुत्तो गच्छस्त मेढिमूओय । गणतत्तिविप्पमुक्को अत्थं भासेइ आयरिओ ।।
अस्य हि सर्वैरवोपाध्यायादिभिः कृतिकर्म कार्य पर्यायहीनस्यापि, उपाध्यायः प्राग्निरूपितशब्दार्थः, स चेत्थम्भूतः -
-
'एक्कग्गया य झाणे वुड्डी तित्थयरअनुकिती गरुआ । आणाहिज्जमिइ गुरू कयरिणमुक्खा न वाएइ ।।
'सम्मत्तनाणसंजमजुत्तो सुत्तत्थथतदुभयविहिन्नू । आयरियठाणजुग्गो सुत्तं वाएउवज्झाओ ।। किं निमित्तं ?- 'सुत्तत्थेसु थिरतं रिणमुक्खो आयतीयऽपडिबंधो ।
Jain Education International
पाडिच्छामोहजओ सुत्तं वाएउवज्झाओ ।।
तस्यापि तैर्विनेयैः पर्यायहीनस्यापि कृतिकर्म कार्य, यथोचितं प्रशस्तयोगेषु साधून प्रवर्तयतीति प्रवर्तकः, उक्तं च
'तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ ।
For Private & Personal Use Only
www.jainelibrary.org