________________
-
अध्ययनं -३- [नि. ११८७] वर्तमाना अपि सन्तः सीदन्ति, एतदुक्तं भवतिसूत्रं निश्रापदं कृत्वा यथाऽहं पठामि तावत्किं ममान्ये ?,एवमर्थे निश्रापदं कृत्वा श्रृणोमि तावत, एवंबालत्वं वृद्धत्वं असहम-असमर्थत्वमित्यर्थः, एवं द्रव्यापदं-दुर्लभमिदं द्रव्यं, तथा क्षेत्रापदं-क्षुल्लकमिदं क्षेत्रं, तथा कालापदं-दुर्भिक्षं वर्तते, तथा भावापदं-ग्लानोऽहमित्यादि निश्रापदं कृत्वा संस्तरन्तोऽपिसीदन्त्यल्पसत्त्वा इति गाथार्थः। एवम्नि.(११८८) आनंबणाणलोगोभरिओजीवस्स अजउकामस्स ।
जंजंपिच्छइलोएतं तं आलंबणंकुणइ ।। वृ- 'आलम्बनानां' प्राग्निरूपितशब्दार्थानां 'लोकः' मनुष्यलोकः 'भृतः' पूर्णो जीवस्य 'अजउकामस्स'त्ति अयतितुकामस्य, तथा च-अयतितुकामो यद यत्पश्यति लोके नित्यवासादि तत तदालम्बनं करोतीति गाथार्थः ।। किं च-द्विधा भवन्ति प्राणिनः मन्दश्रद्धास्तीव्रश्रद्धाश्च, तत्रान्यन्मन्दश्रद्धानामालम्बनम अन्यच्च तीव्रश्रद्धानामिति,आह चनि.(११८९) जे जत्थ जया जइया बहुस्सुया चरणकरणपब्भट्ठा ।
... जंतेसमायरंती आलंबण तिव्वसड्डाणं ।। वृ- 'ये' केचन साधवः 'यत्र'ग्रामनगरादौ 'यदा' यस्मिन काले सुषमदुष्षमादौ 'जइय'त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणप्रभ्रष्टाः सन्तो यत्ते समाचरन्ति पार्श्वस्थादिरूपं तदालम्बनं मन्दश्रद्धानां, भवतीति वाक्यशेषः,तथाहि-आचार्यो मथुरायां मङ्गुःसुभिक्षेऽप्याहारादिप्रतिबन्धापरित्यागात् पार्श्वस्थतामभजत्, तदेवमपि नूनं जिनैर्धर्मो दृष्ट एवेति गाथाभिप्रायः ।। नि.(११९०) जे जत्थ जया जइया बहुस्सुया चरणकरणसंपन्ना ।
जंतेसमायरंती आलंबण तिव्वसड्डाणं ।।। वृ-'ये' केचन यत्र' ग्रामनगरादौ ‘यदा' सुषमदुष्मादौ ‘जइय'त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणसम्पन्नाः, यत्ते समाचरन्ति भिक्षुप्रतिमादि तदालम्बनं तीव्रश्रद्धानां भवतीति गाथार्थः अवसितमानुषङ्गिकं, तस्मात स्थितमिदं-पञ्चानां कृतिकर्म न कर्तव्यं, तथा च निगमयन्नाहनि.(११९१) दंसणनाणचरिते तवविनए निच्चकालपासत्था ।
एए अवंदणिज्जाजे जसघाई पवयणस्स ।। वृ- ‘दसणनाणचरिते'त्ति प्राकृतशैल्या छान्दसत्वाञ्च दर्शनज्ञानचारित्राणांतथा तपोविनययोः 'निच्चकालपासत्थ' त्ति सर्वकालं पाचँ तिष्ठन्तीति सर्वकालपार्श्वस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थे, तथाच-इत्वरप्रमादानिश्चयतो ज्ञानाद्यपगमेऽपिव्यवहारतस्तुसाधव एवेति, 'एते' प्रस्तुता अवन्दनीयाः,ये किंभूताः?- 'यशोधातिनः' यशोऽभिनाशकाः, कस्य?- प्रवचनस्य, कथं यशोधातिनः ?, श्रमणगुणोपात्तं यद यशस्तत्तद्गुणवितथासेवनतो धातयन्तीति गाथार्थः ।। पार्श्वस्थादिवन्दने चापायान्निगमयन्नाहनि.(११९२) किइकम्मंच पसंसा सुहसीलजनम्मि कम्मबंधाय ।
जेजेपमायठाणा ते ते उववूहिया हुंति ।। वृ- ‘कृतिकर्म वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतो वाऽयमित्यादिलक्षणा 'सुखशीलजने' पार्श्वस्थजने कर्मबन्धाय, कथं ?-यतस्ते पूज्या एव वयमिति निरपेक्षतरा भवन्ति, एवं यानि यानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org