________________
अध्ययनं -३- [नि. ११९५]
असहुंच नियत्तेइंगणतत्तिल्लो पवत्तीउ ।। अस्यापि कृतिकर्म कार्य हीनपर्यायस्यापि, सीदतः साधूनैहिकामुष्मिकापायदर्शनतो मोक्षमार्ग एव स्थिरीकरोतीति स्थविरः, उक्तंच
'थिरकरणा पुणथेरो पवत्तिवावारिएसु अत्थेसुं ।
जो जत्थसीयइजंसंतबलोतंथिरं कुणइ ।। अस्याप्यूनपर्यायस्यापि कृतिकर्म कार्य, गणावच्छेदकोऽप्यत्रानुपात्तोऽपि मूलग्रन्थो नावगन्तव्यः, साहचर्यादिति, सचेत्थम्भूतः
'उद्धावणापहवणखित्तोवधिमग्गणासु अविसा ।
सुत्तत्थतदुभयविऊ गणवच्छो एरिसो हइ ।। अस्याप्यूनपर्यायस्यापि कृतिकर्म कर्तव्यं, रत्नाधिकः-पर्यायज्येष्ठः, एतेषामुक्तक्रमेणैव कृतिकर्म कर्तव्यं निर्जरार्थम्, अन्येतुभणन्ति-प्रथममालोचयद्भिः सर्वैराचार्यस्य कृतिकर्म कार्य, पश्चाद् यथारत्नाधिकतया, आचार्येणापि मध्यमे क्षामणानन्तरे कृतिकर्मणि ज्येष्ठस्य कृतिकर्म कार्यमिति गाथार्थः ।। प्रथमद्वारगाथायां गतं कस्ये ति द्वारम, अधुना 'केने ति द्वारं, केन कृतिकर्म कर्तव्यं? केन वान कर्तव्यं?,कः पुनरस्य कारणोचितः अनुचितो वेत्यर्थः, तत्रमातापित्रादिरनुचितो गणः, तथा चाहग्रन्थकारःनि. (११९६) मायरं पियरं वावि जिट्टगंवाविभायरं ।
किइकम्मन कारिज्जा सव्वे राइनिए तहा ।। वृ- मातरं पितरं वाऽपि ज्येष्ठकं वाऽपि भ्रातरम, अपिशब्दान्मातामहपितामहादिपरिग्रहः, 'कृतिकर्म' अभ्युत्थितवन्दनमित्यर्थः, न कारयेत सर्वान रत्नाधिकाँस्तथा, पर्यायज्येष्ठानित्यर्थः, किमिति ?, मात्रादीन वन्दनं कारयतः लोकगोपजायते, तेषां च कदाचिद्विपरिणामो भवति, आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत, सागारिकाध्यक्षे तु यतनया कारयेद, एष प्रव्रज्याप्रतिपन्नानां विधिः, गृहस्थास्तु कारयेदिति। साम्प्रतं कृतिकर्मकरणोचितं प्रतिपादयन्नाहनि.(११९७) पंचमहव्वयजुत्तो अनलस मानपरिवज्जियमईओ ।
संविगनिज्जरट्ठी किइकम्मकरो हवइ साहू ।। वृ- पञ्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि तैर्युक्तः ‘अनलस'त्ति आलस्यरहितः 'मानपरिवर्जितमतिः' जात्यादिमानपराङ्मुखमतिः 'संविग्नः' प्राग्वयाख्यात एव 'निर्जरार्थी' कर्मक्षयार्थी, एवम्भूतः कृतिकर्मकारको भवति साधुः, एवम्भूतेन साधुना कृतिकर्म कर्त्तव्यमिति गाथार्थः । । गतं केनेति द्वारं, साम्प्रतं 'कदे' त्यायातं, कदा कृतिकर्म कर्तव्यं कदा वा न कर्तव्यं ?, नि. (११९८) वक्खित्तपराहुत्ते अपमत्तेमा कया हुवंदिज्जा ।
आहारं च करितो नीहारं वा जइकरेइ ।।। वृ-व्याक्षिप्तं धर्मकथादिना ‘पराहुत्ते यं' पराङ्मुखं, चशब्दादुद्भू (त्थि) तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद्वन्देत, आहारं वा कुर्वन्तं नीहारं वा यदि करोति, इह च-धर्मान्तरायानवधारणप्रकोपाहारान्तरायपुरीषानिर्गमनादयो दोषाः प्रपञ्चेन वक्तव्या इति गाथार्थः ।
कदा वन्देतेत्यत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org