________________
अध्ययनं - ३ - [ नि. ११७८ ]
नि. (११७८ )
ओमे सीसपवासं अप्पडिबंधं अजंगमत्तं च । न गति एगखित्ते गति वासं निययवासी ।।
वृ- 'ओमे' दुर्भिक्षे 'शिष्यप्रवासं' शिष्यगमनं, तथा तस्यैव 'अप्रतिबन्धम्' अनभिष्वङ्गम् 'अजङ्गमत्वं' वृद्धत्वं च, चशब्दात्तत्रैव क्षेत्रे विभागभजनं च, इदमालम्बनजालं 'न गणयन्ति' न प्रेक्षन्ते, नालोचयन्तीत्यर्थः, किन्तु एकक्षेत्रे गणयन्ति वासं 'नित्यवासिनः' मन्दधिय इति गाथार्थः । । नित्यावासविहारद्वारं गतं. चैत्यभक्तिद्वारमधुना
नि. (११७९) चेइयकुलगणसंघे अन्नं वा किंचि काउ निस्साणं । अहवावि अज्जवयरं तो सेवंती अकरणिज्जं । ।
४७
वृ चैत्यकुलगणसङ्घान्, अन्यद्वा 'किञ्चिद्' अपुष्टमव्यवच्छित्त्यादि कृत्वा निश्रां' कृत्वाऽऽलम्बनमित्यर्थः, कथं ? - नास्ति कश्चिदिह चैत्यादिप्रतिजागरकः अतोऽस्माभिरसंयमोऽङ्गीकृतः, मा भूश्चैत्यादिव्यवच्छेद इति, अथवाऽप्यार्यवैरं कृत्वा निश्रां ततः सेवन्ते 'अकृत्यम्’ असंयमं मन्दधर्माण इति गाथार्थः । ।
नि. (११८० )
चेइयपूया किं वयरसामिणा मुणियपुव्वसारेणं । न या पुरियाइ ? तओ मुक्खंगं सावि साहूणं ।।
वृ- अक्षरार्थः सुगमः, भावार्थ: कथानकादवसेयः, तच्चाधः कथितमेव, वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधियः, किमित्याह
नि. (११८१ )
ओहावणं परेसिं सतित्थउब्भावणं च वच्छल्लं । न गणंति गणेमाणा पुव्युच्चियपुप्फमहिमं च ।।
वृ- ‘अपभ्राजनां’लाञ्छनां ‘परेषां' शाक्यादीनां स्वतीर्थोद्भावनां च दिव्यपूजाकरणेन तथा ‘वात्सल्य' श्रावकाणां, एतन्न गणयन्त्यालम्बनानि गणयन्तः सन्तः, तथा पूर्वावचितपुष्पमहिमानं च न गणयन्तीति पूर्वावचितैः प्रागृहीतैः पुष्पैः कुसुमैर्महिमा यात्रा तामिति गाथार्थः । । चैत्यभक्तिद्वारं गतम्, अधुनाऽऽर्यिकालाभद्वारं, तत्रेयं गाथानि. (११८२ ) अज्जियलाभे गिद्धा सएण लाभेण जे असंतुट्ठा । भिक्खायरियाभग्गा अन्नियपुत्तं ववइसंति ।।
वृ- आर्यिकाभ्यो लाभ आर्यिकालाभस्तस्मिन ‘गृद्धाः' आसक्ताः 'स्वकीयेन' आत्मीयेन लाभेन सन्तुष्टा मन्दधर्माणः भिक्षाचर्यया भग्ना भिक्षाचर्याभग्नाः, भिक्षाटनेन निर्विण्णा इत्यर्थः, ते हि सुसाधुना चोदिताः सन्तोऽभक्ष्योऽयं तपस्विनामिति 'अन्निकापुत्रम्' आचार्यं व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः । । कथम् ? -
Jain Education International
-
नि. (११८३) अन्नियपुत्तायरिओ भत्तं पानं च पुप्फचूलाए । उवनीयं भुंजतो तेन्नेव भवेन अंतगडो ।।
वृ- अक्षरार्थो निगदसिद्धः, भावार्थः कथानकादवसेयः, तच्च योगसङ्ग्रहेषु वक्ष्यते । ते च मन्दमतय इदमालम्बनं कुर्वन्तः सन्तः इदमपरं नेक्षन्ते, किम ?, अत आह
नि. ( ११८४)
यसीसगणं ओमे भिक्खायरिया अपच्चलं थेरं । गति सहावि सढा अज्जियलाहं गवेसंता ।।
For Private & Personal Use Only
www.jainelibrary.org