________________
"
आवश्यक - मूलसूत्रम् - २-३ /१० 'तीक्ष्णरुचिरपि नरः' तीव्र श्रद्धोऽपि पुरुषः क्व ? - गन्तुं देशान्तरं देशान्तरगमन इत्यर्थः, 'नयनविहीनो' ज्ञानगमनक्रियालक्षणनयशून्य इत्यर्थः प्राप्नोति न तं देशंगन्तुमिष्टं तद्विषय श्रद्धायुक्तोऽपि, नययुक्त एव प्राप्नोति, ‘इय' एवं ज्ञानचरणरहितः सम्यग्दृष्टिरति तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेशं तु न प्राप्नोति, नैव सम्यक्त्वप्रभावादेव, किन्तु ज्ञानादिसंयुक्त एव प्राप्नोति, तस्माश्चितयं प्रधानम, अतस्त्रितययुक्तस्यैव कृतिकर्म कार्य, त्रितयं चाऽऽत्मनाऽऽसेवनीयं, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति वचनादयं गाथात्रितयार्थः एवमपि तत्त्वे समाख्याते ये खल्वधर्ममूयिष्ठा यानि चासदालम्बनानि प्रतिपादयन्ति तदमिधित्सुराह
नि. (११५७ )
४२
धम्मनियत्तमया परलोगपरम्मुहा विसयगिद्धा । चरणकरणे असत्ता सेणियरायं ववइसंति ।।
-
वृ- धर्मः - चारित्रधर्मः परिगृह्यते तस्मान्निवृत्ता मतिर्येषां ते धर्मनिवृत्तमतयः, परः प्रधानो लोकः परलोको - मोक्षस्तत्पराङ्कखाः 'विषयगृद्धाः शब्दादिविषयानुरक्ताः, ते एवम्भूताश्चरणकरणे 'अशक्ताः' असमर्थाः सन्तः श्रेणिकराजं व्यपदिशन्त्यालम्बनमिति गाथार्थः । । कथं ? - नि. (११५८) न सेणिओ आसि तथा बहुस्सुओ, न यावि पन्नत्तिधरो न वायगो । सो आगमिस्साइ जिनो भविस्सइ, समिक्ख पन्नाइ वरं खु दंसणं ।।
वृ- न 'श्रेणिकः' नरपतिरासीत 'तदा' तस्मिन काले 'बहुश्रुतः' बह्वागमः महाकल्पादिश्रुतधर इत्यर्थः, ‘न चापि प्रज्ञप्तिधरः' न चापि भगवतीवेत्ता 'न वाचकः' न पूर्वधरः, तथाऽप्यसावसहायदर्शनप्रभावादेव 'आगमिस्साए ' त्ति आयत्यामागामिनि काले 'जिनो भविष्यति' तीर्थकरो भविष्यति, यतश्चैवमतः ‘समीक्ष्य' दृष्ट्वा 'प्रज्ञया' बुद्ध्या दर्शनविपाकं तीर्थकराख्यफलप्रसाधकं 'वरं खु दंसण' न्ति खुशब्दस्यावधारणार्थत्वात् वरं दर्शनमेवाङ्गीकृतमिति वाक्यशेषः, । । किंच शक्य एवोपाये प्रेक्षावतः प्रवृत्तिर्युज्यते, न पुनरशक्ये शिरः शूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतः मोक्षोपायत्वे सत्यप्यशक्यासेवनं, सूक्ष्मापराधेऽपि अनुपयुक्तगमनागमनादिभिर्विराघ्यमनत्वादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तद्भ्रंश उपजायते सर्वस्यैवातःभट्टेण चरित्ताओ सुयरं दंसणं गहेयव्वं । सिज्झति चरणरहिया दंसणरहिया न सिज्झंति ।।
नि. (११५९ )
वृ- 'भ्रष्टेन' च्युतेन, कुतः ? - चारित्रात्, सुतरां दर्शनं ग्रहीतव्यं, पुनर्बोधिलाभानुबन्धिशक्यमोक्षोपायत्वात, तथा च - सिद्ध्यन्ति चरणरहिताः प्राणिनः - दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं, तद्भावभावित्वादित्ययं गाथार्थः । । इत्थं चोदकाभिप्राय उक्तः, साम्प्रतमसहायदर्शनपक्षे दोषा उच्यन्ते, यदुक्तं'न श्रेणिक आसीत्तदा बहुश्रुत' इत्यादि, तन्न, तत एवासौ नरकमगमत, असहायदर्शनयुक्तत्वात्, अन्येऽप्येवंविधा दशारसिंहादयो नरकमेव गता इति, आह च
नि. (११६० ) दसारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चइस्स । अनुत्तरा दंसणसंपया तया, विना चरित्तेणऽहरं गइं गया ||
-
वृ- 'दशारसिंहस्य' अरिष्ठनेमिपितृव्यपुत्रस्य 'श्रेणिकस्य च ' प्रसेनजित्पुत्रस्य पेढालपुत्रस्य च सत्यकि नः 'अनुत्तरां प्रधाना क्षायिकेति यदुक्तं भवति, का ? - दर्शनसम्पत् 'तदा' तस्मिन् काले,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International