________________
४१
अध्ययनं -३- [नि. ११५४]
जह कायगमंजणा ईजलदिट्ठीओ विसोहंति ।। वृ- 'युगपदपि' तुल्यकालभपि समुत्पन्नं' सञ्जातंजं सम्यक्त्वं ज्ञानेन सह 'अधिगमं विशोधयति' अधिगम्यन्तेपरिच्छिद्यन्तेपदार्था येन सोऽधिगमः-ज्ञानमेवोच्यते,तमधिगमं विशोधयतिज्ञानं विमलीकरोतीत्यर्थः, अत्रार्थे दृष्टान्तमाह-यथा काचकाञ्जने जलदृष्टी विशोधयत इति, कचको वृक्षस्तस्येदंकाचकं फलम्, अञ्जनं-सौवीरादि, काचकं चाञ्जनंच काचकाञ्चने, अनुस्वारोऽत्रालाक्षणिकः, जलम-उदकं, दृष्टिः-स्वविषये लोचनप्रसारणलक्षणा, जलं च दृष्टिश्चजलदृष्टी ते विशोधयतइतिः । । साम्प्रतमुपन्यस्तदृष्टान्तस्य दान्तिकेनांशतः भावनिकां प्रतिपादयन्नाहनि. (११५५) जह २ सुज्झइसलिलं तह २ रूवाइंपासई ट्ठिी ।
इय जह जह तत्तरू तह तह तत्तागमो होइ ।। वृ-यथा २ शुद्ध्यति सलिलं काचकफलसंयोगात तथा तथा रूपाणि' तद्गतानि पश्यति द्रष्टा, 'इय' एवं यथा यथा 'तत्त्वरूचिः' सम्यक्त्वलक्षणा, संजायत इति क्रिया, तथा तथा तत्त्वागमः' तत्त्वपरिच्छेदो भवतीति, एवमुपकारकं सम्यक्त्वं ज्ञानस्येति गाथार्थः ।। स्यादेतत्-निश्चयतः कार्यकारणभाव एवोपकार्योपकारकभावः, स चासम्भवी युगपद्भाविनोरिति, अत्रोच्यतेनि. (११५६) कारणकज्जविभागो दीवपगासाण जुगवजम्मेवि ।
___ जुगवुप्पन्नपि तहा हेऊ नाणस्स सम्मत्तं ।। वृ- यथेह कारणकार्यविभागो दीपप्रकाशयोः 'युगपज्जन्मन्यपि’ युगपदुत्पादेऽपीत्यर्थः, युगपदुत्पन्नमपि तथा हेतुः' कारणं ज्ञानस्य सम्यक्त्वं, यस्मादेवं तस्मात्सकलगुणमूलत्वादर्शनस्य दर्शनिन एव कृतिकर्म कार्यम्, आत्मनाऽपितत्रैव यत्नः कार्यः, सकलगुणमूलत्वादेवेति, उक्तंच
द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः ।
धर्महतोर्द्विषट्कस्य, सम्यग्दर्शनमिष्यते ।।
अयंगाथाभिप्रायार्थः ।। इत्थं नोदकेनोक्ते सत्याहाचार्यःप्र.(१)
नाणस्स जइवि हेऊ सविसयनिययं तहावि सम्मत्तं ।
तम्हा फलसंपत्ती न जुज्जए नाणपक्खेव ।। प्र.(२)
जह तिक्खरुविनरो गंतुं देसंतरं नयविहूणो ।
पावेइनतं देसं नयजुत्तो चेव पाउणइ ।। प्र.(३)
इय नाणचरणहीणो सम्मदिट्टीविमुक्खदेसंतु |
पाउणइ नेय नाणाइसंजुओ चेव पाउणइ ।। वृ- इदमन्यकर्तृकं गाथात्रयं सोपयोगमितिकृत्वा व्याख्यायते, ज्ञानस्य यद्यपि 'हेतुः' कारणं सम्यक्त्वमितियोगः,अपिशब्दोऽभ्युपगमवादसंसूचकः, अभ्युपगम्यापि ब्रूमः तत्त्वतस्तु कारणमेव न भवति, उभयोरपि विशिष्टक्षयोपशमकार्यत्वात्, स्वविषयनियतमितिकृत्वा, स्वविषयश्चास्य तत्त्वेषुरुचिरेव, तथाऽपि, 'तस्मात्' सम्यक्त्वात् ‘फलसंपत्ती न जुज्जए' फलसम्प्राप्तिर्न युज्यते, मोक्षसुखप्राप्तिर्न घटत इत्यर्थः, स्वविषयनियतत्वादेव, असहायत्वादित्यर्थः, ज्ञानपक्ष इव, अनेन तत्प्रतिपादितसकलदृष्टान्तसङ्गहमाह-यथा ज्ञानपक्षे मार्गज्ञादिभिर्दष्टान्तैरसहायस्यज्ञानस्य एहिकामुष्मिकफलासाधकत्वमुक्तम्, एवमत्रापिदर्शनाभिलापेन द्रष्टव्यं, दिमात्रंतु प्रदर्श्यते-यथा
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only