________________
४०
आवश्यक - मूलसूत्रम् - २-३/१० च, उदायिनृपमारकमाथुरकोट्टइल्लादिभिर्व्यभिचारात, तथा च प्रतीतमिदम-असंयता अपि हीनसत्त्वा लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति गाथार्थः । । नि. (११५०) भरो पसन्नचंदो सब्मिंतरबाहिरं उदाहरणं ।
दोसुप्पत्तिगुणकरं न तेसि बज्झं भवे करणं ।।
वृ- भरतः प्रसन्नचन्द्रः साभ्यन्तरबाह्यमुदाहरणम, आभ्यन्तरं भरतः, यतस्तस्य बाह्यकरणरहितस्यापि विभूषितस्यैवाऽऽदर्शनकगृहप्रविष्टस्य विशिष्टभावनापरस्य केवलज्ञानमुत्पन्नं, बाह्यं प्रसन्नचन्द्रः, यतस्तस्योत्कृष्टबाह्यकरणवतोऽप्यन्तःकरणविकलस्याधः सप्तमनरकप्रायोग्यकर्मबन्धो बभूव, तदेवं दोषोत्पत्तिगुणकरं न तयोर्भरतप्रसन्नचन्द्रयोः 'बज्झं भवे करणं' ति छान्दसत्वादभूत्करणं दोषोत्पत्तिकारकं भरतस्य नाभूदशोभनं बाह्यं करणं गुणकारकं प्रसन्नचन्द्रस्य नामूच्छोभनमपीति, तस्मादान्तरमेव करणं प्रधानं, न च तदालयादिनाऽवगन्तुं शक्यते, गुणाधिके च वन्दनमुक्तमिति तूष्णीभाव एव ज्यायान इति स्थितम्, इत्ययं गाथाभिप्रायः । । इत्थं तीर्थाङ्गभूतव्यवहारनयनिरपेक्षं चोदकमवगम्यान्येषां पारलौकिकापायदर्शनायाहाचार्यः
नि. (११५१ )
पत्तेयबुद्धकरणे चरणं नासंति जिनवरिंदाणं ।
आहच्चभावकहणे पंचहि ठाणेहि पासत्था ।।
वृ- प्रत्येकबुद्धाः - पूर्वभवाभ्यस्तोभयकरणा भरतादयस्तेषां करणं तस्मिन्नान्तर एव फलसाधके सति मन्दमतयश्चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च पाठान्तरं वा 'बोधिं नासिंति जिनवरिंदाणं' कथं ? - 'आहच्चभावकहण' त्ति कादाचित्कभावकथने - बाह्यकरणरहितैरेव भरतादिभिः केवलमुत्पादितमित्यादिलक्षणे, कथं नाशयन्ति ? - पञ्चभिः 'स्थानैः' प्राणातिपातादिभिः पारम्पर्येण करणभूतैः 'पार्श्वस्था' उक्तलक्षणा इति गाथार्थः । । यतश्च
नि. (११५२)
उम्मग्गदेसनाए चरणं नासिंति जिनवरिंदाणं ।
वावन्नदंसणा खलु न हु लब्भा तारिसा दहुं ।।
वृ- उन्मार्गदेशनया अनयाऽनन्तरामिहितं चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, अतः 'व्यापन्नदर्शनाः खलु' विनष्टसम्यग्दर्शना निश्चयतः, खल्वित्यपिशब्दार्थो निपातः, तस्य च व्यवहितः सम्बन्धस्तमुपरिष्टात् प्रदर्शयिषयामः, 'न हु लब्भा तारिसा दट्टु 'ति नैव कल्पन्ते तादृशा द्रष्टुमपीति, किं पुनर्ज्ञानादिना प्रतिलाभयितुमिति । गतं ज्ञानद्वारम, दर्शनद्वारमधुना, तत्र दर्शननयमतावलम्बी कृतिकर्माधिकार एवावगतज्ञाननयमत इदमाह
नि. (११५३) जह नाणेणं न विना चरणं नादंसणिस्स इय नाणं । नय दंसणं न भावो तेन र दिट्ठि पणिवयामो ।।
वृ- यथा ज्ञानेन विना न चरणं, किन्तु सहैव, नादर्शनिन एवं ज्ञानं, किन्तु दर्शनिन एव, 'सम्यग्दृष्टेर्ज्ञानं मिथ्यादृष्टेर्विपर्यास' इति वचनात, तथा न च दर्शनं न भावः, किन्तु भाव एव, भावलिङ्गान्तर्गतभित्यर्थः, तेन कारणेन ज्ञानस्य तद्भावभावित्वाद्दर्शनस्य ज्ञानोपकारकत्वाद रेति प्राग्वत 'दिट्ठि' न्ति प्राकृतशैल्या दर्शनमस्यास्तीति दर्शनी तं दर्शनीतं, 'प्रणमामः' पूजयाम इति । स्यादेतत-सम्यक्त्वज्ञानयोर्युगपद्भावादुपकार्योपकारकभावानुपपत्तिरिति एतच्चासद्, यतःपिसप्पन्नं सम्मत्तं अहिगमं विसोहेह ।
For Private & Personal Use Only
नि. ( ११५४)
Jain Education International
www.jainelibrary.org