________________
अध्ययनं -३- [नि. ११६१] तथाऽपि विना चारित्रेण 'अधरां गतिंगता' नरकगतिप्राप्ता इति वृत्तार्थः ।। किं चनि.(११६१) सव्वाओवि गईओ अविरहिया नाणदंसणधरेहिं ।
तामा कासिपमायं नाणेण चरित्तरहिएणं ।। वृ-'सर्वा अपि' नारकतिर्यग्नरामरगतयः ‘अविरहिताः' अविमुक्ताः कैः ?-ज्ञानदर्शनधरैस्सत्त्वैः, यतः-सर्वास्वेव सम्यक्त्वश्रुतसामायिकद्वयमस्त्येव, न च नरकगतिव्यतिरेकेणान्यासु मुक्तिः , चारित्राभावात्, तस्माच्चारित्रमेवप्रधानं मुक्तिकारणं, तद्भावभावित्वादिति, यस्मादेवं तंमा कासि पमायं तितत-तस्मान्माकार्षीः प्रमादं, ज्ञानेन चारित्ररहितेन, तस्येष्टफलासाधकत्वात्, ज्ञानग्रहणं च दर्शनोपलक्षणार्थमिति गाथार्थः ।। इतश्च चारित्रमेव प्रधानं, नियमेन चारित्रयुक्त एव सम्यक्त्वसद्भावाद्, आह चनि.(११६२) सम्मत्तं अचरित्तस्स हुज्ज भयणाइ नियमसो नत्थि ।
जो पुणचरित्तजुत्तो तस्स उ नियमेन सम्मत्तं ।। वृ. 'सम्यक्त्वं' प्राग्वर्णितस्वरूपम 'अचारित्रस्य' चारित्ररहितस्य प्राणिनो भवेत 'भजनया' विकल्पनया-कदाचिद्भवति कदाचिन्न भवति, नियमशो नास्ति' नियमेन न विद्यते, प्रभूतानां चारित्ररहितानां मिथ्यादृष्टित्वात्, यः पुनश्चारित्रयुक्तः सत्त्वस्तस्यैव, तुशब्दस्यावधारणार्थत्वात्, 'नियमेन' अवश्यंतयासम्यक्त्वम्, अतः सम्यक्त्वस्यापि नियमतश्चारित्रयुक्तएवभावात्प्राधान्यमिति गाथार्थः ।। किंचनि.(११६३) जिनवयणबाहिरा भावनाहिं उव्वट्टणं अयाणंता ।
नेरइयतिरियएगिदिएहि जह सिज्झई जीवो ।। वृ- 'जिनवचनबाह्या' यथावस्थितागमपरिज्ञानरहिताः प्रत्येकं ज्ञानदर्शननयावलम्बिनः 'भावनाहिंति उक्तेन न्यायेन ज्ञानदर्शनभावनाभ्यां सकाशात्, मोक्षमिच्छन्तीति वाक्यशेषः, 'उद्वर्तनामजानानाः' नारकतिर्यगेकेन्द्रियेभ्यो यथा सिद्ध्यति जीवस्तथोद्वर्तनामजानानाइतियोगः, इयमत्र भावना-ज्ञानदर्शनभावेऽपि न नारकादिभ्योऽनन्तरं मनुष्भावमप्राप्य सिद्ध्यति कश्चित्, चरणाभावात्, तेनानयोः केवलयोरहेतुत्वं मोक्षं प्रति, तेभ्य एवैकेन्द्रिययेभ्यश्च ज्ञानादिरहितेभ्योऽप्युवृत्ता मनुष्यत्वमपि प्राप्य चारित्रपरिणामयुक्त एव सिद्धयति, नायुक्तोऽकर्मभूमिकादिः, अत इयमुद्वर्तना कारणवैकल्यं सूचयतीति गाथार्थः ।। पुनरपि चारित्रपक्षमेव समर्थयन्नाहनि.(११६४) सुट्टवि सम्मबिट्ठी न सिज्झचरणकरणपरिहीनो ।
जंचेव सिद्धिमूलं मूढोतंचेव नासेइ ।। वृ- ‘सुष्ठ्वपि' अतिशयेनापि सम्यगदृष्टिर्न सिद्धयति, किम्भूतः ?-चरणकरणपरिहीनः, तद्वादमेव च समर्थयन्, किमिति ?- 'यदेव सिद्धिमूलं' यदेव मोक्षकारणं सम्यक्त्वं मूढस्तदेव नाशयति, केवलतद्वादसमर्थनेन, 'एकंपि असद्दहंतो मिच्छं'ति वचनात्, अथवा सुष्ठ्वपि सम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिरपीत्यर्थः, न सिद्ध्यति चरणकरणपरिहीणः श्रेणिकादिवत, किमिति ?-यदेव सिद्धिमूलं-चरणकरणं मूढस्तदेव नाशयत्यनासेवनयेति गाथार्थः ।। किंच-अयं केवलदर्शनपक्षो न भवत्येवागमविदः सुसाधोः कस्य तर्हि भवति?, अत आह
नि.(११६५) दंसणपक्खो सावय चरित्तभट्टे य मंदधम्मेय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org