________________
आवश्यक-मूलसूत्रम् -२- ३/१० त्यर्थः, लवणागरादिषु यथा, आदिशब्दाद्माण्डखादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति, तथा पार्श्वस्थाद्यालापमात्रसंसाऽपि सुविहितास्तमेव भावं यान्ति, अतः 'वज्जे कुसीलसंसग्गिं त्यजत कुशीलसंसर्गिमितिगाथार्थः ।।पुनरपिसंसर्गिदोषप्रतिपादनायैवाऽऽहनि. (१११९) जह नाम महुरसलिलं सायरसलिलं कमणे संपत्तं ।
पावेइ लोणभावं मेलणदोसानुभावेणं ।। वृ-'यथे'त्युदाहरणोपन्यासार्थः ‘नामे'तिनिपातः ‘मधुरसलिलं' नदीपयः तल्लवणसमुद्र ‘क्रमेण' परिपाट्या सम्प्राप्तं सत ‘पावेइ लोणभावं' प्राप्नोति-आसादयति जलणभावं-क्षारभावं मधुरमपि सन, मीलनदोषानुसभावेनेति गाथार्थः नि. (११२०) एवं खुसीलवंतो असीलवंतेहिं मीलिओ संतो।
____ पावइ गुणपरिहाणि मेलणदोसानुभावेणं ।। वृ- खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु ‘अशीलवद्भिः' पार्श्वस्थादिभिः सार्द्धमीलितः सन ‘प्राप्नोति' आसादयति गुणा-मूलोत्तरगुणलक्षणास्तेषां परिहानिःअपचयः गुणपरिहानीः तां, तथैहिकांश्चापायांस्ततृकतदोषसमुत्थानिति, मीलनदोषानुभावेनेति गाथार्थः ।। यतश्चैवमतःनि. (११२१) खणमविनखमं काउं अनाययणसेवणंसुविहियाणं ।
हंदि समुद्दमइगयं उदयं लवणत्तणमुवेइ ।। , वृ- लोचननिमेषमात्रः कालः क्षणोऽभिधीयते, तं क्षणमपि, आस्तां तावन्मुहूर्तोऽन्यो वा कालविशेषः, ‘नक्षम' नयोग्यं, किं?-'काउं अनाययणसेवणं तिकर्तु-निष्पादयितुम अनायतनंपार्श्वस्थाद्यायतनं तस्य सेवनं-भजनम अनायतनसेवनं, केषां ? - 'सुविहितानांसाधूनां, किमित्यत आह-'हन्दि' इत्युपदर्शने, समुद्रमतिगतं-लवणजलधिं प्राप्तम् 'उदकं मधुरमपिसत लवणत्वमुपैति' क्षारभावं याति, एवं सुविहितोऽपिपार्श्वस्थादिदोषसमुद्रं प्राप्तस्तद्मावमाप्नोति, अतः परलोकार्थिना तत्संसर्गिस्त्याज्येति, ततश्च व्यवस्थितमिदं-येऽपि पार्श्वस्थादिभिः सार्धं संसर्गि कुर्वन्ति तेऽपि न वन्दनीयाः, सुविहिता एव वन्दनीया इति ।। अत्राऽऽहनि. (११२२) सुविहिय दुविहियं वा नाहं जाणामि हंखु छउमत्थो ।
लिंगं तु पूययामी तिगरणसुद्धेण भावेणं ।। वृ-शोभनं विहितम्-अनुष्ठानं यस्यासौ सुविहितस्तम्, अनुस्वारलोपोऽत्रद्रष्टव्यः,दुर्विहितस्तु पार्श्वस्थादिस्तं दुर्विहितं वा 'नाहं जानामि' नाहं वेद्मि, यतः अन्तःकरणशुद्धयशुद्धिकृतं सुविहितदुर्विहितत्वं, परभावस्तु तत्त्वतः सर्वज्ञविषयः, 'अहं खु छउमत्थो'त्ति अहं पुनश्छद्मस्थः, अतो 'लिङ्गमेव' रजोहरणगोच्छप्रतिग्रहधरणलक्षणं पूजयामि' वन्दे इत्यर्थः, 'त्रिकरणशुद्धेन भावेन' वाक्कायशुद्धेन मनसेति गाथार्थः ।। अत्राचार्य आहनि.(११२३) जइते लिंग पमाणं वंदाही निण्हवे तुमे सव्वे ।
एवे अवंदमानस्स लिंगमवि अप्पमाणं ते ।। वृ- 'यदी' त्ययमभ्युपगमप्रदर्शनार्थः 'ते' तव लिङ्ग-द्रव्यलिङ्गम, अनुस्वारोऽत्र, च लुप्तो वेदितव्यः, प्रमाणं- कारणं वन्दनकारणे, इत्थं तर्हि 'वन्दस्व' नमस्य 'निह्नवान्' जमालिप्रभृतीन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org