________________
अध्ययनं -३- [नि. ११२३]
३३ त्वं 'सर्वान्' निरवशेषान्, द्रव्यलिङ्गयुक्तत्वात तेषामिति, अथैतान मिथ्यादृष्टित्वान्न वन्दसे तत ननु ‘एतान्’ द्रव्यलिङ्गयुक्तानपि अवन्दमानस्य' अप्रणमतः लिङ्गमप्यप्रमाणं तव वन्दनप्रवृत्ताविति गाथार्थः ।। इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमाणतायां प्रतिपादितायां सत्यामनभिनिविष्टमेव सामाचारिजिज्ञासयाऽऽह चोदकःनि.(११२४) जइ लिंगमप्पमाणं न नज्ज निच्छएण को भावो? ।
दट्टण समणलिंग किं कायव्वं तुसमणेणं?।। वृ-यदि 'लिङ्ग' द्रव्यलिङ्गम् ‘अप्रमाणम्' अकारणं वन्दनप्रवृत्तौ, इत्थं तर्हि 'न ज्ञायते' नावगम्यते 'निश्चयेन' परमार्थेन छद्मस्थेन जन्तुना कस्य को भावः ?, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति, तदेवं व्यवस्थिते ‘दृष्ट्वा' अवलोक्य 'श्रमणलिङ्गं किं पुनः कर्तव्यं 'श्रमणेन' साधुना?, पुनःशब्दार्थस्तुशब्दो व्यवहितश्चोक्तो गाथानुलोम्यादिति गाथार्थः ।। एवं चोदकेन पृष्टः सन्नाहचार्यः - नि. (११२५) अप्पुव्वंदट्टणं अब्भुट्ठाणं तु होइकायव्वं ।
साहुम्मि दिट्ठपुव्वे जहारिहं जस्स जंजोगं ।।। वृ- 'अपूर्वम' अदृष्टपूर्व, साधुमिति गम्यते, ‘दृष्ट्वा' अवलोक्य, आभिमुख्येनोत्थानम् अभ्युत्थानम्-आसनत्यागलक्षणं, तुशब्दाद्दण्डकादिग्रहणंच भवति कर्त्तव्यं, किमिति?, कदाचिदसौ कश्चिदाचार्यादिविद्याधतिशयसम्पन्नः तत्प्रदानायैऽऽगतोभवेत, प्रशिष्यसकाशमाचार्यकालकवत, स खल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति, तथा दृष्टपूर्वास्तु द्विप्रकारा-उद्यतविहारिणः शीतलविहारिणश्च, तत्रोद्यतविहारिणि साधौ ‘दृष्टपूर्वे' उपलब्धपूर्वे 'यथार्ह' यथायोग्यमभ्युत्थानवन्दनादि ‘यस्य' बहुश्रुतादेर्यद् योग्यं तत्कर्तव्यं भवति, यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनाद्युत्सर्गतः किञ्चित्कर्तव्यमिति गाथार्थः ।।
साम्प्रतं कारणतः शीतलविहारिगतविधिप्रतिपादनाय सम्बन्धगाथमाहनि. (११२६) मुक्कधुरासंपागडसेवीचरणकरणपब्भढे ।
लिंगावसेसमित्तेजं कीरइतं पुणो वोच्छं ।। वृ- धूः-संयमधूः परिगृह्यते, मुक्ता-परित्यक्ता धूर्येनेति समासः, सम्प्रकटं-प्रवचनोपधातनिरपेक्षमेवमूलोत्तगुणजालं सेवितुंशीलमस्येतिसम्प्रकटसेवी, मुक्तधूश्चासौ सम्प्रकटसेवीचेति विग्रहः, तथा चर्यत इति चरणं-व्रतादिलक्षणं क्रियतइति करणं-पिण्डविशुद्धयादिलक्षणंचरणकरणाभ्यां प्रकर्षेणभ्रष्टः-अपेतश्चरणकरणप्रभ्रष्टः, मुक्तधूः सम्प्रकटसेवी चासौ चरणकरणप्रभ्रष्टश्चेति समासस्तस्मिन, प्राकृतशैल्या अकारेकारयोर्दीर्धत्वम, इत्थम्भूते लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते यक्रियते किमपितत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः, किं विशेषयति? -कारणापेंक्षंकारणमाश्रित्य यक्रियते तद्वक्ष्ये-अभिधास्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एव, विशेषणसाफल्यं तुमुक्तधूरपिकदाचित्सम्प्रकटसेवीन भवत्यपि अतस्तद्ग्रहणं, संप्रकटसेवीचरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाथार्थः ।।
नि.(११२७) वायाइ नमोक्कारो हत्थुस्सेहो य सीसनमनंच ।
125130
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org