________________
अध्ययनं - ३ - [ नि. १११३]
३१
'काचभावं ' काचधर्म ' प्राधान्यगुणेन' वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिः सार्द्ध संवसन्नपि शीलगुणेनात्मीयेन न पार्श्वस्थास्थादिभावमुपैति, अयं भावार्थ इति गाथार्थः । । - यत्किञ्चिदेतत, न हि दृष्टान्तमात्रादेवाभिलषितार्थसिद्धिः संजायते, यतःनि. (१११४) भावुगअभावुगाणि य लोए दुविहाणि होति दव्वाणि । वेरुलिओ तत्थ मणी अभावुगो अन्नदव्वेहिं । ।
वृ- भाव्यन्ते - प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्याति - कवेल्लकादीनि, प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथा भवनशीलानि भावुकानि, लषपतपदस्थाभूवृषेत्यादावुकञ् तस्य ताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि च - नलादीनि लोके 'द्विविधानि द्विप्रकाराणि भवन्ति 'द्रव्याणि' वस्तूनि, वैडूर्यस्तत्र मणिरभाव्यः ‘अन्यद्रव्यैः’ काचादिभिरिति गाथार्थः । । स्यान्मतिः - जीवोऽप्येवम्भूत एव भविष्यति न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यति, एतच्चासत् यतः
नि. (१११५)
-
अनइनि भावणभाविओ य संसारे । खिप्पं सो भाविज्जइ मेलणदोसानुभावेणं ।।
वृ- 'जीवः' प्राग्निरूपितशब्दार्थः, स हि अनादिनिधनः अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च' पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्ग्ररनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात 'क्षिप्रं' शीध्रं स 'भाव्यते' प्रमादादिभावनयाऽऽत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः । । अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु
नि. (१११६) अंबरस य निंबस्स य दुहंपि समागयाई मूलाई । संगी बिन अंबो निंबत्तणं पत्तो ।।
वृ- चिरपतिततिक्तनिम्बोदकवासितायां भूमौ आम्रवृक्षः समुत्पन्नः पुनस्तत्राऽऽम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसर्ग्या' सङ्गत्या विनष्ट आम्रो निम्बत्वं प्राप्तःतिक्तफलः संवृत्त इति गाथार्थः । । तदेवं संसर्गिदोषदर्शनात्त्याज्या पार्श्वस्थादिसंसर्गिरिति । पुनरप्याह चोदकः- नन्वेतदपि सप्रतिपक्षं, तथाहि नि. (१११७)
सुचिरंपि अच्छमाणो नलथंभो उच्छुवाडमज्झमि ।
कीस न जाय महुरो ? जइ संसग्गी पमाणं ते ।।
वृ- 'सुचिरमपि' प्रभूतकालमपि तिष्ठन् 'नलस्तम्बः' वृक्षविशेषः 'इक्षुवाटमध्ये' इक्षुसंसर्ग्या किमिति न जायते मधुरः ?, यदि संसर्गी प्रमाणं तवेति गाथार्थः । । आहाचार्यः ननु विहितोत्तरमेतत 'भावुग अभावुगाणि य' इत्यादिग्रन्थेन, अत्रापि च केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या इति । आह-तैः सहाऽऽलापमात्रतायां संसर्ग्या क इव दोष इति ?, उच्यते
नि. (१११८)
ऊणगसयभागेणं बिंबाई परिणमंति तब्भावं ।
लवणागराइसु जहा वज्जेह कुसीलसंसग्गिं ।।
वृ- ऊनश्चासौ शतभागश्चोनशतभागोऽपि न पूर्यत इत्यर्थः, तेन तावताऽशेन प्रतियोगिना सह सम्बद्धानीति प्रक्रमाद्गम्यते ‘बिम्बानि' रूपाणि 'परिणमन्ति' तद्भावमासादयन्ति लवणीभवन्ती
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International