________________
२६
आवश्यक-मूलसूत्रम् -२- ३/१० जनकम्, असंयतमितिवर्तते, प्राकृत्यशैल्या चाऽसंयतशब्दोलिङ्गत्रयेऽपि यथायोगमभिसम्बध्यते, तथा 'गुरूं' पितामहादिलक्षणम, असंयतत्वं सर्वत्र योजनीयं, तथा हस्त्यश्वरथपदातिलक्षणा सेना तस्याः पतिः सेनापतिः- गणराजेत्यर्थः, तं सेनापतिं, 'प्रशस्तारं' प्रकर्षण शास्ता प्रशास्ता तंधर्मपाठकादिलक्षणं, तथा बद्धमुकुटो राजाऽभिधीयते तं राजानं, दैवतानि च न वन्देत, देवदेवीसङ्ग्रहार्थ दैवतग्रहणं, चशब्दाल्लेखाचार्यादिग्रहो वेदितव्य इति गाथार्थः ।।
इदानीं यस्य वन्दनं कर्तव्यं स उच्यतेनि.(११०६) समणं वंदिज्ज मेहावी,संजयं सुसभाहियं ।
पंचसमिय तिगुत्तं, अस्संजमदुगुंछगं ।। वृ. श्रमणः-प्राग्निरूपितशब्दार्थः तं श्रमणं 'वन्देत' नमस्कुर्यात्, कः ?- 'मेधावी' न्यायायवस्थितः, स खलु श्रमणः नामस्थापनादिभेदमिन्नोऽपि भवति, अत आह-'संयतं' समएकीभावेन यतः संयतः, क्रियां प्रति यत्नवानित्यर्थः, असावपि च व्यवहारनयाभिप्रायतो लब्ध्यादिनिमित्तमसम्पूर्णदर्शनादिरपि संभाव्यते, अत आह-'सुसमाहित' दर्शनादिषु सुष्ठुसम्यगाहितः सुसमाहितस्तं, सुसमाहितत्वमेव दर्श्यते-पञ्चभिरीर्यासमित्यादिभिः समितिभिः समितः पञ्चसमितस्तं, तिसृभिर्मनोगुप्त्यादिभिर्गुप्तिभिर्गुप्तस्तंत्रिगुप्त,प्राणातिपातादिलक्षणोऽसंयमः असंयम गर्हति-जुगुप्सतीत्यसंयमजुगुप्सकस्तम, अनेनदृढधर्मता तस्यावेदिता भवतीतिगाथार्थः ।। आहकिमिति यस्य कर्तव्यं वन्दनं स एवादौनोक्तः?, येन येषां न कर्तव्यं मात्रादीनां तेऽप्युक्ता इति, उच्यते, सर्वपार्षदं हीदं शास्त्रं, त्रिविधाश्च विनेया भवन्ति-कोदुदघटितज्ञाः केचिन्मध्यमबुद्धयः केचित्प्रपञ्चितज्ञा इति, तत्र माभूत्प्रपञ्चितज्ञानां मतिः-उक्तलक्षणस्य श्रमणस्य कर्तव्यं मात्रादीनां तुन विधिर्न प्रतिषेध इत्यतस्तेऽप्युक्ता इति, यघेवं किमिति येषां न कर्तव्यं त एवादा उक्ता इति? अत्रोच्यते, हिताप्रवृत्तेरहितप्रवृत्तिर्गुरु संसारकारणमिति दर्शनार्थमित्यलं प्रसङ्गन, प्रकृतं प्रस्तुमःश्रमणं वन्देत मेघावी संयतमित्युक्तं, तत्रेत्थम्भूतमेव वन्देत, नतु पार्श्वस्थादीन, तथा चाह - नि. (११०७) पंचण्हं किइकम्मं मालामरुएण होइ दिलुतो ।
वेरुलियनाणदंसणनीयावासे यजे दोसा ।। वृ- ‘पञ्चानां पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दानां 'कृतिकर्म' वन्दनकर्म, न कर्तव्यमिति वाक्यशेषः, अयंच वाक्यशेषः श्रमणं वन्देत मेघावीसंयत' मित्यादिग्रन्थादवगम्यते, पार्श्वस्थादीनां यथोक्तश्रमणगुणविकलत्वात्, यथा संयतानामपि ये पार्श्वस्थादिभिः सार्द्ध संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यं, आह-कुतोऽयमर्थोऽवगम्यते?, उच्यते, मालामरुकाभ्यां भवति दृष्टान्त इति वचनात्, वक्ष्यते च-'असुंइठाणे पडिया' इत्यादि, तथा 'पैक्कणकुले' इत्यादि 'वेरुलिय'त्ति संसर्गजदोषनिराकरणाय वैडूर्यदृष्टान्तो भविष्यति, वक्ष्यति च- 'सुचिरंपिअच्छमाणो वेरुलिओ' इत्यादि, तत्प्रत्यवस्थानं च 'अंबस्स य निंबस्स ये' त्यादिना सप्रपञ्चं वक्ष्यते, 'नाण'त्ति दर्शनचारित्रासेवनसामर्थ्यविकला ज्ञाननयप्रधाना एवमाहुः-ज्ञानिन एव कृतिकर्म कर्तव्यं, वक्ष्यते
'कामंचरणं भावो तं पुण नाणसहिओ समाणेह ।
नय नाणंतुन भावो तेणर नाणी पणिवयामो ।। 'दंसण'त्तिज्ञानचरणधर्मविकलाः स्वल्पसत्त्वा एवमाहुः- दर्शनिन एव कृतिकर्म कर्तव्यं, वक्ष्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org