________________
२७४
आवश्यक मूलसूत्रम् -२-५/६२
नि. (१५४०) मायाए उस्सग्गं सेसं च तवं अकुव्वओ सहुणो ।
___ को अन्नो अनुहोही सकम्मसेसं अनिजरियं ?।। वृ-'मायाए उस्सग्गं' गाहा, मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः ‘सहिष्णोः' समर्थस्य कश्च तस्मादन्योऽनुभविष्यति ?, किं-स्वकर्म (वि) शेषमनिर्जरितं, शेषता चास्य सम्यक्त्वप्राप्तयोत्कृष्टकर्मापेक्षयेति, उक्तं च
“सत्तण्हं पगडीणं अभितरओ उ कोडीकोडीए ।
काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥" अन्ये पठन्ति-‘एमेवय उस्सग्गं'ति, न चायमतिशोभनः पाठ इति गाथार्थः ॥ यतश्चैवमतःनि. (१५४१) निकूडं सविसेसं वयाणुरूवं बलाणुरूवं च ।
खाणुव्व उद्धदेहो काउस्सगं तु ठाइज्जा ।। वृ-'निकूडं सविसेसं' गाहा, 'निष्कूट'-मित्यशठं सविशेष मिति समबलादन्यस्मात् सकाशात्, न चाहमहमिकया, किं तु वयोऽनुरूपं, स्थाणुरिवो देहो निष्कम्पः समशत्रुमित्रः कायोत्सर्ग तु तिष्ठेत्, तुशब्दादन्यच्च भिक्षाटनाद्येवंभूतमेवानुतिष्ठत(ष्ठेत्) इति गाथार्थः ।।
इदानं वयो बलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्तेनि. (१५४२) तरुणो बलवं तरुणो अ दुब्बलो थेरओ बलसमिद्धो ।
थेरो अबलो चउसुवि भंगेसु जहाबलं ठाई ।। वृ-तरुणो बलवान् १ तरुणश्च दुर्बलः २ स्थविरो बलसमृद्धः ३ स्थविरो दुर्बलः ४ चतुर्वपि भङ्गकेषु यथाबलं तिष्ठति बलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यबलवतापि स्थातव्यम्, उत्तरत्रासमाधानग्लाना-दावधिकरणसम्भवादिति गाथार्थः ।।
गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेयं गाथानि. (१५४३) पयलायइ पडिपुच्छइ कंटययवियारपासवणधम्मे ।
नियडी गेलन्नं वा करेइ कूडं हवइ एयं ।। वृ- कायोत्सर्गकरणवेलायां मायया प्रचलयति-निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थं वा, कण्टकं अपनयति, "वियार'त्ति पुरीषोत्सर्गाय गच्छति, 'पासवणे'त्ति कायिकां व्युत्सृजति, 'धम्मे'त्ति धर्मं कथयति, ‘निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः ॥ गतां शठद्वारम्, अधुना विधिद्वारमाख्यायते, तत्रेयं गाथानि. (१५४४) पुव्वं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेंति ।
ठायंति सविसेसं तरुणा उ अनूनविरिया उ ॥ वृ- 'पुव्वं ठंति य गुरुणो' गाहा प्रकटार्थाः ।। नि. (१५४५) चउरंगुल मुहपत्ती उज्जूए डब्बहत्थ रयहरणं ।
वोसठ्ठचत्तदेहो काउस्सग्गं करिज्जाहि ।। वृ-'चउरंगुल'त्ति चत्तारि अंगुलाणि पायाणं अंतरं करेयव्वं, मुहपोत्ति ‘उज्जुए'त्ति दाहिणहत्थेण मुहपोत्तिया घेत्तव्वा, डब्बहत्थे रयहरणं कायव्वं, एतेन विहिणा वोसट्टचत्तदेहो'त्ति पूर्ववत्, काउस्सग्गं करिजाहित्ति ।। गतं विधिद्वारम्, अधुना दोषावसरः, तत्रेदं गाथाद्वयं -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org