________________
अध्ययनं-५- [नि. १५३८]
२७३
(प्र.)
ववहारेणट्ठसयं अनभिस्संगस्स साहुस्स ॥" गाथार्थः ॥
नावा (ए) उत्तरिउं वहमाई तह नई च एमेव ।
____संतारेण चलेण व गंतुं पणवीस ऊसासा ॥ वृ. 'नावाणतिसंतार'त्ति द्वारत्रयं व्याचिख्यासुराह-'नावाए उत्तरिउं वहगाई' गाहा, गाथेयमन्यकर्तुकी सोपयोगा च निगदसिद्धा, इदानीमुच्छ्रासमानप्रतिपादनायाहनि. (१५३९) पायसमा ऊसासा कालपमाणेण हुंति नायव्वा ।
एयं कालपमाणं उस्सग्गेणं तु नायव्वं ॥ वृ. 'पायसमा उस्सासा काल' गाहा व्याख्या-नवरं पादः-श्लोकपादः ॥ व्याख्याता गमनेत्यादिद्वारगाथा, अधुनाऽऽद्यद्वारगाथागतमशठद्वारं व्याख्यायते, इह विज्ञानवता शाठ्यरहितेनात्महितमितिकृत्वा स्वबलापेक्षया कार्योत्सर्गः कार्यः, अन्यथाकरणेऽनेकदोषप्रसङ्गः,
तथा चाह भाष्यकार:[भा.२३५] जो खलु तीसइवरिसो सत्तरिवरिसेण पारणाइसमो।
विसमे व कूडवाही निव्विन्नाणे हु से जड्डे ।। वृ-यः कश्चित् साधुः, खलुशब्दो विशेषार्थः, त्रिंशद्वर्षः सन् खलुशब्दा बलवानातङ्करहितश्च सप्ततिवर्षेणान्येन वृद्धेन साधुना पारणाइसमो-कायोत्सर्गप्रारम्भ-परिसमाप्त्या तुल्य इत्यर्थः । विषम इव-उठेंकादाविव कूटवाही बलीवई इव निर्विज्ञान एवासौ 'जड' जड्डेः, स्वहितपरिज्ञानशून्यत्वात्, तथा चात्महितमेव सम्यक्कायोत्सर्गकरणं स्वकर्मक्षय-फलत्वादिति गाथार्थः ।
अधुना दृष्टान्तमेव विवृण्वन्नाह[भा.२३६] समभूमेवि अइभरो उजाणे किमुअ कूडवाहिस्स ?।
अइभारेणं भज्जइ तुत्तयघाएहिं अ मरालो ॥ वृ. समभूमेवि अइभरो' गाहा व्याख्या-समभूमावपि अतिभरविषमवाहित्वात् ‘उजाणे किमुत कूडवाहिस्स'ऊर्दू यानमस्मिन्नित्युद्यानम्-उदकं तस्मिन्नुद्याने किमुत?, सुतरामित्यर्थः, कस्य ? -कूटवाहिनो-बलीवर्दस्य, तस्य च दोषद्वयमित्याह-'अतिभारेणं भज्जति तुत्तयघाएहि य मरालो' त्ति अतिभारेण भज्यते यतो विषमवाहिन एवातिभारो भवति, तुत्तयघातैश्च विषमवाहोऽथ पीड्यते, तुत्तगो-पाइणगो मरालो-गलिरिति गाथार्थः ॥
साम्प्रतं दार्टान्तिकयोजनां कुर्वन्नाह(प्र.) एमेव बलसमग्गो न कुणइ मायाइ सम्ममुस्सग्गं ।
मायावडिअं कम्मं पावइ उस्सग्गकेसं च ॥ वृ- ‘एमेव वलसमग्गो' गाहा व्याख्या-इयमन्यकर्तुकी सोपयोगा च व्याख्यायते, ‘एमेव' मरालबलीवर्दवत् बलसमग्रः सन् (यो)न करोति मायया करणेन सम्यक्-सामर्थ्यानुरूपं कायोत्सर्गं स मूढः मायाप्रत्ययं कर्म प्राप्नोति नियमत एव, तथा कायोत्सर्गकेशं च निष्फलं प्राप्नोति, तथाहि-निर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्ठानं सफलं भवतीति गाथार्थः ।। अधुना मायावतो दोषानुपदर्शयन्नाह| 25[18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org